SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ . मुहूर्तचिंतामणिः। [अश्विन्यादीनां तारकामानं विधिना शांतिं कृत्वा सम्यग्विशेषतः । अकालमृत्यु शोकं च व्याधिपीडां न चामुयात् ॥ सौख्यं सौमनसं नित्यं सौभाग्यं लभते नरः । इत्थं ग्रहणजातानां सर्वारिष्टविनाशनम् ॥ कथितं भार्गवेणेदं शौनकाय महात्मने ॥' इति श्रीशौनकविरचितः सूर्यचंद्रग्रहणसमयजननशांतिविधिः ॥ .. अथ त्रीतरशांतिरप्युच्यते । सा च शांतिसर्वखेऽभिहिता-'सुतत्रये सुता चेत्स्यात्तत्रये वा सुतो यदि । मातापित्रोः कुलस्यापि तदारिष्टं महद्भवेत् ॥ ज्येष्ठनाशो धने हानिर्दुःखं वा सुमहद्भवेत् । तत्र शांति प्रकुर्वीत वित्तशाठ्यविवर्जितः ॥ जातस्यैकादशाहे वा द्वादशाहे शुभे दिने । आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरःसरम् ॥ सह वा ग्रहयज्ञः स्याद्यथावित्तानुसारतः । ब्रह्मविष्णुमहेशेंद्रप्रतिमाः स्वर्णतः कृताः ॥ पूजयेद्धान्यराशिस्थकलशोपरि शक्तितः । पंचमे कलशे रुद्रं पूजयेदुद्रसंख्यया ॥ रुद्रसूक्तानि चत्वारि शांतिसूक्तानि सर्वशः। द्विज एको जपेद्धोमकाले शुचिसमाहितः । आचार्यों जुहुयात्तत्र समिदाज्यतिलांश्वरम् । अष्टोत्तरं सहस्त्रं वा शतं वा विंशतिं तु वा॥ देवताभ्यश्चतुर्वक्रादिभ्यो ग्रहपुरःसरम् । ब्रह्मादिमंत्रैरिंद्रस्य यतइंद्रभयामहे ॥ ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं ततः । अभिषेक कुटुंबस्य कृत्वाचार्य प्रपूजयेत् ॥ हिरण्यं धेनुरेका च ऋत्विग्भ्यो दक्षिणा ततः । प्रतिमा गुरवे देया उपस्कारसमन्विता। कांस्याज्यवीक्षणं कृत्वा शांतिपाठं तु कारयेत् । ब्राह्मणान्भोजयेच्छक्त्या दीनानाथांश्च तर्पयेत् ॥ एवं शांतिविधानेन सर्वारिष्टं प्रलीयते ॥' इति ॥५६॥ आलोक्यार्षान्पौरुषांश्च ग्रंथान्मूलादिशांतयः । नीलकंठतनूजेन गोविंदेनोदिताः क्रमात् ॥ अथ नक्षत्रप्रसंगादेवाविन्यादिभानां तारकामानमुपजातिकयाहत्रित्र्यंगपंचाग्निकुवेदवह्वयः शरेषुनेत्राश्विशरेंदुभूकृताः। वेदानिरुद्राश्वियमामिवह्नयोऽब्धयः शतं द्विद्विरदा भतारकाः५७ त्रीति ॥ अश्विन्यादीनां भानां तारकाः क्रमतो ज्ञेयाः । यथा अश्विन्यास्तारकास्तिस्रः ३, भरण्यास्तिस्त्रः ३, कृत्तिकायाः षद ६, रोहिण्याः पंच ५, मृगस्य तिस्रः ३, आदीया एका १, पुनर्वसोश्चतस्त्रः ४, पुष्यस्य तिस्रः ३, आश्लेषायाः पंच ५, मघायाः पंच ५, पूर्वाफल्गुन्या द्वे २, उत्तराफल्गुन्या ढे २, हस्तस्य पंच ५, चित्राया एका १, स्वात्या एका १, विशाखायाश्चतस्त्रः ४, अनुराधायाश्चतस्त्रः ४, ज्येष्ठायास्तिस्त्रः ३, मूलस्यैकादश ११, पूर्वाषाढाया द्वे २, उत्तराषाढाया द्वे २, अभिजितस्तिस्रः ३, श्रवणस्य तिस्रः ३, धनिष्ठायाश्चतस्रः ४, शततारकायाः शतं १००, पूर्वाभाद्रपदाया द्वे २, उत्तराभाद्रपदाया द्वे २, रेवत्या द्वात्रिंशत्तारकाः ३२, एतावतीभिस्तारकाभिरश्विन्यादीनां स्वरूपं ज्ञेयम् । उक्तं च रत्नमालायाम्-'वह्नित्रिऋत्विषुगुणेंदुकृताग्निभूतबाणाश्विनेत्रशरभूकुयुगाब्धिरामाः । रुद्राब्धिरामगुणवेदशतद्वियुग्मं दंता बुधैर्निगदिताः क्रमशो भताराः ॥' इति । नन्व
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy