SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अश्विन्यादीनामाकृतिः] नक्षत्रप्रकरणम् २ । ११५ स्मिन् श्रीपतिवाक्ये सप्तविंशतिभानि प्रतीयते, ग्रंथकृद्वाक्येष्टाविंशतिरिति विरोधः। अत्र समाधिः-उत्तरार्धे रुद्राब्धीत्यत्र अब्धयः चतस्रस्ताराः पूर्वाषाढोतराषाढयोस्तत्र द्वे पूर्वाषाढाया द्वे तूत्तराषाढाया इत्यर्थः । एवमष्टाविंशतिनक्षत्राणि । नारदेनापि द्वयोराषाढयोर्द्वितारकत्वमुक्तम् । 'रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषवः। नेत्रबाहुशरद्वीन्दुयुगवेदाग्निशंकरः ॥ बाहुनेत्राम्यब्धिशतं बाहुनेत्ररदाः क्रमात् । भानां संख्या च विज्ञेया दस्रादीनां पृथक्पृथक् ॥' इति । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा-'तुरगमुखसदृक्षम्' इत्यादिनाष्टाविंशतिनक्षत्राणामाकृतिकथनात्सप्तविंशतिनक्षत्राणां च तारामानोक्तेरिति पूर्वापरविरोधः शंक्येत । तारकामानोक्तिप्रयोजनं विवाहे नक्षत्रतारकातुल्यैर्वरुक्तसदसत्फलावाप्तिरित्यादि । तदुक्तं वराहेण-'नक्षत्रजमुद्वाहे फलमब्देस्तारकामितैः सदसत् । दिवसैवरस्य नाशो व्याधेरन्यस्य वा वाच्यः ॥' इति । तद्यथा शौनकेन विवाहे प्रत्येकं नक्षत्रफलान्यभिहितानि । तत्र-'प्राजापत्ये सुभगा भोगयुताऽतिप्रिया भर्तुः। पुत्रधनानि च लभते सा कन्या पंचमे वर्षे ॥' इति रोहिण्यामुद्वाहफलमुक्तं तद्रोहिण्यास्ताराः पंच तावद्भिर्वर्भवति । 'अब्दात्प्राणवियोग स्वाष्ट्र प्रामोति भूतसंसर्गात् । त्यक्त्वा स्वज्ञातिकुलं कामपरा याति दासत्वम् ॥' इति चित्राया असत्फलं तच्चित्रातारैकाऽत एकेन वर्षेण भवति । एवं ज्वराद्युत्पत्तावपि तारकामानदिवसैवरस्य वान्यस्य व्याधेः अन्यरोगस्य वा नाशो वाच्य इत्यायूह्यम् । ननु नक्षत्रभेदेन पूर्वमपि ज्वरनाशका दिवसाः प्रोक्ताः । अत्र तु तारकामितसंख्यादिवसा उक्ता इति ग्रंथविरोध इति चेन्न । चरणभेदान्न विरोध इति वयं ब्रूमः ॥ ५७ ॥ अथाश्विन्यादीनामाकृतिमुपजात्या रथोद्धतया चाहअश्यादिरूपं तुरगास्ययोनिक्षुरोऽन एणास्यमणिगृहं च । पृषत्कचक्रे भवनं च मंचः शय्या करो मौक्तिकविद्रुमं च ५८ तोरणं बलिनिभं च कुंडलं सिंहपुच्छगजदंतमंचकाः । व्यसि च त्रिचरणाभमर्दलो वृत्तमंचयमलाभमर्दलाः ॥५९॥ अश्यादिरूपमिति । तोरणमिति ॥ अश्विन्यादीनां नक्षत्राणां रूपमाकृतिरुच्यते-तत्राश्विन्यास्तुरगास्यमश्वमुखसदृशं रूपं, भरण्या योनिर्भगस्तद्वद्रूपं, कृत्तिकाया नापितक्षुराकृति, रोहिण्या अनः शकटरूपं, मृगस्य एणास्यं हरिणमुखसदृशं,आद्रीया मणिसदृशं, पुनर्वसोगुहतुल्यं,पुष्यस्य पृषत्को बाणस्तत्सदृशं, माश्लेषायाश्चक्राकारं, मघाया भवनं गृहसदृशं, पूर्वाफल्गुन्या मंचः खट्वा तदाकारं, उत्तराफल्गुन्याः शय्याकारं, हस्तस्य हस्ताकारं, चित्राया मौक्तिकाकारं, खात्या विद्रुमं प्रवालस्तदाकारं, विशाखायास्तोरणाकारं, अनुराधाया बलिभक्तपुंजस्तदाकारं, ज्येष्ठायाः कुंडलाकृति, मूलस्य सिंहपुच्छाकारं,पूर्वाषाढाया गजदंतसदृशं,उत्तराषाढाया मंचकसदृशं,अभिजितस्त्रिकोणाकार,श्रवणस्य त्रिविक्रमस्त्रिचरणो वामनस्तत्स्वरूपं, धनिष्ठाया मर्दलसदृशं, शततारकाया वृत्तं वर्तुलं,
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy