SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११६ मुहूर्तचिंतामणिः। [जलाशयादिप्रतिष्ठामुहूर्तः पूर्वाभाद्रपदाया मंचसदृशं, उत्तराभाद्रपदाया यमलाभ, रेवत्या मर्दलाकारं स्वरूपमित्यर्थः । उक्तं च रत्नमालायाम्-'तुरगमुखसदृशं योनिरूपं भुराभं शकटसममथैणस्योत्तमांगेन तुल्यम् । मणिगृहशरचक्राभानि शालोपमाभंशयनसदृशमन्यच्चात्र पर्यकतुल्यम् ॥ हस्ताकारमतश्च मौक्तिकसमं चान्यत्प्रवालोपमं धिष्ण्यं तोरणवस्थितं बलिनिभं सत्कुंडलाभं परम् । क्रुध्यत्केसरिणः क्रमेण सदृशं शय्योसमानं परं चान्यइंतिविषाणवस्थितमतः शंगाटकव्यक्ति च ॥ त्रिविक्रमाभं च मृदंगरूपं वृत्तं ततोऽन्यद्यमलद्वयाभम् । पर्यकरूपं मुरजानुकारमित्येवमश्यादिभचक्ररूपम् ॥' इति ॥ ५८ ॥ ५९॥ अथ जलाशयारामदेवप्रतिष्ठामुहूर्त सपादोपजातिकयाहजलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङ्कशुक्रे । दृश्ये मृदुक्षिप्रचरध्रुवे स्यात्पक्षे सिते स्वतंतिथिक्षणे वा॥६०॥. रिक्तारवये दिवसेऽतिशस्ताजलाशयेति॥जलाशयोत्सर्गः भारामोत्सर्गश्च देवानां विष्ण्वादीनांप्रतिष्ठा वक्ष्यमाणप्रकारेणोच्यते-तत्र त्रयाणामपि सामान्यतो दिनशुद्धिरियं विचार्या । यथा सौम्यायने उत्तरायणे मकरादिषडाशिस्थिते सूर्ये सति तथा जीवशशांकशुक्रेषु दृश्यमानेषु सत्सु तथा मृदुगणक्षिप्रगणचरगणध्रुवगणनक्षत्रेषु तथा सिते शुक्ल पक्षे स्वर्मतिथिक्षणे यस्य देवस्य प्रतिष्ठा कर्तुमिष्टा तस्य तत्स्वामिके नक्षत्रे तिथौ वा क्षणे मुहूर्ते वा, तथा रिक्तारवये रिक्ताः पूर्वमुक्तास्तिथयः, आरः भौमः; एतान्वर्जयित्वान्यतिथिषु अन्यवारेषु च एवं विधेषु दिनेषु जलाशयः तडागादिः,मारामः उपवन,सुराः देवाः, तेषां प्रतिष्ठा क्रमेण कर्माहत्वोपभोगयोग्यत्वपूजायोग्यत्वरूपातिप्रशस्तातिविहितास्ति । अत्र दक्षिणायनगुर्वस्तशुक्रास्तचंद्रास्तानां सामान्यतः शुभकार्येषु निषेधात् परिशेषतो गुरुशुक्रचंद्रोदयोत्तरायणानि प्रशस्तानि । दक्षिणायननिषेधश्चौले वक्ष्यते । तत्र जलप्रतिष्ठायां दीपिका-'मार्तडेंदूडुशुद्धौ मुरजिदशयने माघषट्कस्य शुक्ले मूलाषाढोत्तराश्विश्रवणगुरुकरे पोष्णशाकाजंचांद्रे । मैत्रे बाहो च पूर्णामदनरवितिथौ सद्वितीयातृतीये कार्या तोयप्रतिष्ठा ज्ञगुरुसितदिने कालशुद्ध सुलग्ने ॥' इति । मुरजिद्विष्णुस्तस्य अशयनं शयनाभावः । विष्णुशयनव्यतिरिक्ते काले इत्यर्थः । 'देवतारामवाप्यादिप्रतिष्ठामुत्तरायणे । माघादिपंचमासेषु कृष्णेऽप्यापंचमीदिनम् ॥ दक्षिणे त्वयने कुर्वन्न तत्फलमवाप्नुयात् ।' इति । अयं चोत्तरायणे जलं जलाशये स्थास्यतीत्येवं निश्चिते निषेधः । मत्स्यपुराणेऽपि-'चैत्रे वा फाल्गुने वापि ज्येष्ठे वा माधवेऽपि वा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥ प्राप्यं पक्षं शुभं शुक्लमतीते चोत्तरायणे।' देवानामित्युपलक्षणं, तेन देवारामवाप्यादिप्रतिष्ठा शुभदेत्यर्थः । मकरसंक्रम उत्तरायणपदेनोपलक्ष्यते । १ आजम्=अभिजित् । अथवा आप्येति पाठः, आप्य-पूर्वाषाढा ।
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy