________________
नाडीनक्षत्राणि] नक्षत्रप्रकरणम् २ । अतो मकरसंक्रमोत्तरः कालः शुभ उच्यते । अन्यथा माघादिपंचकं साक्षाद्विहितम् । उत्तरायणातिक्रमे हि दक्षिणायनसंग्रह इति सर्वकालसंग्रहे वाभावात्कालोपदेशानर्थक्यमापद्येत । उपलक्षणत्वं च 'भविष्यत्ययने पुण्यमतीते चोत्तरायणे' इत्यत्र दृश्यते । यदा तु दक्षिणायन एव जलस्थितिसंभवस्तदा न कालनियमः । 'न कालनियमस्तत्र प्रमाणं सलिलं यतः' इति भविष्यत्पुराणोक्तेः । तत्रापि कार्तिकमासे शुभफलदसंक्रांतो वा शुभतिथौ मेषधनुःसिंहवर्जिते लग्ने वापीकूपतडागादि प्रतिष्ठाप्यमिति ध्येयम् । उक्तं च भविष्यत्पुराणे-तस्मिन्सलिलसंपूर्णे कार्तिके च विशेषतः । तडागस्य विधिः कार्यः स्थिरनक्षत्रयोगतः॥' इति । अग्निपुराणे संक्रांतिभेदेन फलभेदोऽभ्यधायि-'वापीकूपतडागानां तस्मिन्काले विधिः स्मृतः। सुदिने शुभनक्षत्रे प्रतिष्ठा शुभदा स्मृता ॥ कर्कटे पुत्रलाभश्च सौख्यं तु मकरे भवेत् । मीने यशोऽर्थलाभश्च कुंभे च सुबहूदकम् ॥ वृषे च मिथुने वृद्धिवृश्चिके च जलं भवेत् । पितृतृप्तिश्च कन्यायां तुलायां शाश्वती गतिः॥ सिंहे मेषे धनुर्लग्ने लक्ष्मीश्च द्विज गच्छति ॥' इति ॥ देवप्रतिष्ठायां तु विशेषस्तत्र वसिष्ठः-अथ प्रतिष्ठां कथयामि सम्यक्शिवस्य विष्णोस्त्वथवा परेषाम् । सौम्यायने देवगुरौ च शुक्रे संदृश्यमाने परिचारकाणाम् ॥' इति । शिवविष्णुग्रहणं प्राधान्यख्यापनार्थम् । अत्र सौम्यप्रकृतीनां देवानामुत्तरायणे स्थापनमुक्तम् । उग्रप्रकृतीनां तु दक्षिणायनेऽपि कार्यम् । तदुक्तं वैखानससंहितायाम्-'मातृभैरववाराहनारसिंहत्रिविक्रमाः। महिषासुरहंत्री च स्थाप्या वै दक्षिणायने ॥' इति । शैवसिद्धांतशेखरे तु-'श्रेष्ठोत्तरे प्रतिष्ठा स्यादयने मुक्तिमिच्छताम् । दक्षिणे तु मुमुक्षूणां मलमासे न सा द्वयोः ॥' इत्युक्तम् । अत्र 'दक्षिणे तु मुमुक्षूणाम् इत्यपि मातृभैरवेत्यादिपरतया योज्यम् , अन्यथा प्रतिपदं मासगणना वसिष्ठादिषु न युज्येत । यदाह वसिष्ठः-'मासे तपस्ये तपसि प्रतिष्ठा धनायुरारोग्यकरी च कर्तुः। चैत्रे महारुग्भयदा च शुक्रे समाधवे पुत्रधनाप्तये स्यात् ॥' इति । नारदोऽपि-'विचैत्रेष्वेव मासेषु माघादिषु च पंचसु ॥' इति । वसिष्ठः'आषाढमासादिचतुष्टयेऽपिकलनसंतानविनाशदा स्यात् । ऊर्जे च कर्तुनिधनप्रदा च सौम्ये सपौषेऽखिलदुःखदा स्यात् ॥ वलक्षपक्षः शुभदः समस्तः सदैव तत्राथदिनं विहाय । अंत्यत्रिभागं परिहत्य कृष्णपक्षोऽपि शस्तः खलु पक्षयोश्च ॥ रिक्तावमत्यक्तदिनेष्वनिंद्ययोगेषु वैनाशिकवर्जितेषु । दिने महादोषविवर्जिते च शशांकताराबलसंयुते च ॥' इति । वैनाशिकनक्षत्राणि नारदेनोक्तानि'जन्मभादशमं कर्मसंघातक्षं च षोडशम् । अष्टादशं सामुदायं त्रयोविंशं विनाशभम् ॥ मानसं पंचविंशरूं नाचरेच्छुभमेषु तु ॥' इति । अथ तिथीनाह नारदः-'यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिः । द्वितीयादिद्वयोः पंचम्यादितस्तिसृषु क्रमात् ॥ दशम्यादिचतसृषु पौर्णमास्यां विशेषतः ॥' इति । मुख्यतिथ्यसंभवे उक्ततिथौ स्थापन कार्यमित्यर्थः । अथ वारानाह नारदः-'कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे। चंद्रताराबलोपेते पूर्वाह्ने