________________
मुहूर्तचिंतामणिः। [प्रतिष्ठायां लमशुख्यादि शोभने दिने ॥' इति । प्रत्येकं वारफलमाह वसिष्ठः-'कीर्तिप्रदं क्षेमकर कृशानुभयप्रदं वृद्धिकरं दृढं च । लक्ष्मीकर सुस्थिरदं विनादिवारेषु संस्थापनमामनंति ॥' इति । अथ नक्षत्रविवेकः । तत्र जलप्रतिष्ठार्थ दीपिकायामुक्तान्यधुना नक्षत्राणि आरामप्रतिष्ठार्थ नक्षत्राणि ॥ अथ देवप्रतिष्ठानक्षत्राणि वसिष्ठेनोक्तानि-'हस्तत्रये मित्रहरित्रये च पौष्णद्वयादित्यसुरेज्यभेषु । तिस्रो त्तराधातृशशांकभेषु सर्वोमरस्थापनमुत्तमं तत् ॥' इति । अत्र षोडश भानि ध्रुवमृदुक्षिप्रलघुरूपाण्येवोक्तानि, तत्र ग्रंथका जलाशयारामसुरप्रतिष्ठानक्षत्राणि बहुधा तुल्यत्वादेतानि उक्तानि । द्वित्राणि तु भिन्नानि तान्युक्तविशेषबचनेभ्योऽवसेयानि इति । तत्र जलाशयारामयोर्निर्मित्यधीनत्वात् तन्मुहूर्तः प्रागुक्तः । देवताघटनमुहूर्तस्तु उच्यते मया । तत्र दीपिका-'ध्रुवलघुमृदुवर्गे वारुणे विष्णुदैवे मरुददितिधनिष्ठे शोभने वासरे च । त्रिदशमदनजन्मैकादशे ३।१०।७।१।११ शीतरश्मौ विबुधकृतिरभीष्टा नाडिनक्षत्रहीने ॥' इति । नाडिनक्षत्राणि-वैनाशिकनक्षत्राणि ॥ ६०॥ · अथ देवताप्रतिष्ठायां सामान्यतो लग्नशुद्धिं देवताविशेषाणां लग्नविशेष नक्षत्रविशेषं च पादोनोपजातिकाभ्यामाह
शशांकपापैस्त्रिभवांगसंस्थैः । व्यष्टांत्यगैः सत्खचरैर्मृगेंद्रे सूर्यो घटे को युवतौ च विष्णुः ६१ शिवो नृयुग्मे द्वितनौ च देव्यः क्षुद्राश्चरे सर्व इमे स्थिरः । पुष्ये ग्रहा विघ्नपयक्षसर्पभूतादयोऽत्ये श्रवणे जिनश्च ॥६२॥ शशांकेति ॥ जलाशयप्रतिष्ठायामारामप्रतिष्ठायां च सुलग्नमात्रं विचार्यम् । देवप्रतिष्ठायां शशांकश्चंद्रः पापाः सूर्यभौमशनिराहुकेतवस्तैस्त्रिभवांगसंस्थैस्तृतीयषष्ठैकादशस्थानस्थितैरुपलक्षिते लग्ने तथा सत्खचरैः सोमबुधगुरुशुक्रय॑ष्टांत्यगैरष्टमद्वादशव्यतिरिक्ताखिलस्थानस्थैः सद्भिर्देवप्रतिष्ठाऽतिप्रशस्ता । तदुक्तं रत्नमालायाम्-'केंद्रत्रिकोणभवमूर्तिषु सद्हेषु चंद्रार्कभौमशनिषु त्रिषडायगेषु । सांनिध्यमेति नियतं प्रतिमासु देवः कर्तुः सुखार्थसुतसंपदरोगता च ॥ सौम्या लग्नाद्याश्रिता मूर्तिपूर्वान्भावान् वीर्यैरुत्कटा वर्धयति । षष्ठं हित्वा भावमेते हि तत्र शत्रुध्वस्तिं कर्तुरुत्पादयंति ॥' इति । शनिग्रहणं राहुकेत्वोरप्युपलक्षणम् । यदाह वसिष्ठः-'सूर्येन्दुभौमाय॑हिकेतवश्च लग्नस्थिता नैधनदाश्च भर्तुः। सौम्यग्रहा लग्नगतास्तदैव ह्यायुर्बलारोग्यकराश्व नूनम् ॥' इति । अन्यच्च तत्रैव-'सर्वे ग्रहा नैधनदास्त्वजस्रं सौम्या असौम्याः खलु मृत्युसंस्थाः' इति । अथ प्रसंगानवांशविचारः। तत्र स्थिरद्विस्वभावनवांशा ग्राह्या न चरांशास्तत्रापि तुलांशः साधीयान् । यदाह वसिष्ठः-'पंचेष्टके जीवशशांकसूर्यमुख्यग्रहैः सौम्यनवांशयुक्तैः । लग्ने स्थिरे चोभयराशियुक्ते नवांशके चोभयगे स्थिरे वा ॥' उभयगे द्विस्वभावे । 'चरो
१ तत्रापि चरांशेष्वपि ।