________________
शवप्रतिकृतिदाहे वयंकालः] नक्षत्रप्रकरणम् २ ।
११९ दये लग्नगते न कार्य संस्थापनं नैव चरांशकेऽपि। चरोऽपि मुख्यः सतुलांशकश्च सदा मृदुत्वात्सुरसंनिवेशे॥' इति । मृदुत्वात् शुभस्वामित्वात् । नारदोऽपि'शुभलग्ने शुभांशे च कर्तुर्न निधनोदये । राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥' इति ॥ अथ लग्नदौष्टयेऽपवादो वसिष्ठेनोक्तः'एकोऽपि जीवो बलवांस्तनुस्थः सितोऽपि सौम्योऽप्यथवा बली चेत् । दोषानशेषान्विनिहंति सद्यः स्कंदो यथा तारकदैत्यवर्गम् ॥' इति । नारदः"गुणाधिकतरे लग्ने दोषेऽत्यल्पतरे यदि । सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् ॥' इति । मृगेंद्र इति । सूर्यो मृगेंद्रे सिंहलग्ने स्थाप्यः । तथा को ब्रह्मा घटे कुंभलग्ने, विष्णुर्युवतौ कन्यालग्ने, शिवो महादेवो नृयुग्मे मिथुनलग्ने, च पुनर्द्वितनौ मिथुनकन्याधनुर्मीनलग्नेषु देव्यो दुर्गादक्षिणामूर्त्यादयः, चरे मेषकर्कतुलामकरलग्नेषु क्षुद्रा देव्यश्चतुःषष्टियोगिनीप्रभृतयः सर्व इमे उक्ता अनुक्ताश्च देवा इत्यर्थः। उक्ता महादेवादयः, अनुक्ता इंद्रादयः, ते स्थिरः वृषसिंहवृश्चिककुंभलग्नेषु स्थाप्याः । यदाह श्रीपतिः-'सिंहोदये दिनकरो मिथुने महेशो नारायणश्च युवतौ घटभे विधाता। देव्यो द्विमूर्तिभवने च निवेशनीयाः क्षुद्राश्चरे स्थिरगृहे निखिलाश्च देवाः ॥' इति । पुष्ये ग्रहा इति । ग्रहाश्चंद्रादयोऽष्टौ पुष्यनक्षत्रे स्थाप्या इत्यर्थः । उपलक्षणं चैतत्-तत्र सूर्यस्य हस्तनक्षत्रे स्थापनं, महादेवब्रह्मणोः पुष्यश्रवणाभिजित्सु स्थापनं, कुबेरस्कंदयोरनुराधायां दुर्गाप्रभृतीनां मूले स्थापनं, सप्तर्षीणां स्वाधिष्ठितनक्षत्रे, लक्ष्मीव्यासवाल्मीक्यगस्त्यानामपि सप्तय॑धिष्ठितनक्षत्रे स्थापनम् । उक्तं च रत्नमालायाम्-'पुष्यश्रुत्यभिजित्सु चेश्वरकयोर्वित्ताधिपस्कंदयोमैत्रे तिग्मरुचेः करे निर्ऋतिभे दुर्गादिकानां शुभम्' इति । कः ब्रह्मा । तथा 'सप्तर्षयो यत्र चरंति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकिघटोद्भवानां तथा स्मृता वाक्पतिभे ग्रहाणाम् ॥' इति । सप्तर्षयस्तु-कश्यपोऽनिर्भरद्वाजो विश्वामित्रोऽथ गौतमः। जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः॥' इति स्मृतेः। ते यस्मिन्नक्षन्ने संचरंतो दृश्यते तस्मिन्नक्षत्रे तेषां स्थापनम् । श्रीव्यासवाल्मीकिघटोद्भवानां तथा सप्तर्ण्यधिष्ठितनक्षत्रे ग्रहाणां वाक्पतिभे पुष्ये । घटोद्भवः अगस्त्यः । विघ्नपेति । विन्नपः गणेशः, यक्षः=देवयोनिः, सर्पा: वासुक्यादयः, भूतः देवयोनिः । 'विद्याधराप्सरोयक्षरक्षोगंधर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥' इत्यभिधानात् । मादिशब्देन राक्षसासुरप्रमथसरस्वतीप्रभृतयो गृह्यते । ते रेवत्यां स्थाप्याः ॥ तथा श्रवणे श्रवणनक्षत्रे जिनो बुद्धः स्थाप्यः । उपलक्षणं चैतत्-इंद्रकुबेरवर्जिताना लोकपालानां धनिष्ठायां स्थापनम् । इतोऽवशिष्टानां देवानां ध्युत्तरारोहिणीषु स्थापनं स्यादित्यर्थः। एतदप्युक्तं रत्नमाला
१ वस्तुतस्त्वत्र सप्तय॑धिष्ठितनक्षत्रे लक्ष्मीस्थापनं यदुक्तं तदनुचितम् । ग्रंथांतरसंवादाभावात् । मूलादर्शनाच्च । रत्नमालायां-श्रीव्यासेत्यत्रत्यपूज्यताबोधकश्रीशब्ददर्शनाट्टीकाकूदुक्तिरियं भ्रान्तिप्रसूतेति भाति ।