________________
१२०
मुहूर्तचिंतामणिः। भभुक्तमूलनक्षत्रदोषः याम्-'गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथफणिसरस्वत्यादिकानां च पौष्णे । श्रवसि सुगतनानो वासबे लोकपानां निगदितमखिलानां स्थापनं हि स्थिरेषु ॥' इति । परिवृढः स्वामी, 'प्रभौ परिवृढ' इति साधुः ॥ गणपरिवृढः गणेशः। प्रमथा-महादेवस्य पारिषदाः। श्रवसि-श्रवणनक्षत्रे । सुगतः बुद्धः। 'सर्वज्ञः सुगतो बुद्धः' इत्यमरः । स्थिरेषु-रोहिणीव्युत्तरास्वित्यर्थः ॥ ६१ ॥ ६२॥ . .. अथ नक्षत्रप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
__नक्षत्रप्रकरणं समाप्तम् ॥२॥ इदं पूर्ववयाख्येयम् । ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहतचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने तिथिवारभप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीविद्वदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचिवायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां सविचारं तिथिवारनक्षत्रप्रकरणं समाप्तम् ॥ २॥
संक्रांतिप्रकरणम् ३।
गौरीनंदनमिष्टसिद्धिसदनं विन्नावलीभेदनं
नत्वा ज्योतिषिकायरामरविते मौहूर्तचिंतामणौ। . गोविंदो बुधनीलकंठविधिवित्सूनुः सतामग्रणी
र्बह्वयं खलु संक्रमप्रकरणं व्याख्याति विद्वन्मुदे ॥ १॥ अथ संक्रांतिप्रकरणं व्याख्यायते । तत्र ग्रहाणां प्राग्राशितोऽपरराशौ संक्रमणं संक्रांतिरिति संक्रांतिलक्षणम् । सा च द्विविधा-मध्यमा स्पष्टा च । षट्कर्मसंस्कृतो मध्यमग्रहो राश्यंतरं यदा संक्रामति सा मध्यमसंक्रांतिरुच्यते । यदा तु स्पष्टीकृतसंस्कारविशिष्टो ग्रहो राश्यतरं गच्छेत्सा स्पष्टसंक्रांतिरुच्यते।। तत्र मध्यममानस्य स्पष्टीकरणार्थत्वादेव तजनितसंक्रांत्यनुपयोगादत्र तत्त्यागे स्पष्टसंक्रांतिरेव गृह्यते।सापि द्विविधा-सायनांशा निरयनांशा चेति । तत्र यदा सिद्धांतगणनागतायनांशसंस्कृता ग्रहाराश्यंतरगमनमुररीकुर्वतेसा सायनांशा संक्रांतिरुच्यते । यदा त्वयनांशसंस्काररहिता ग्रहाराश्यंतरगास्तदा निरयनांशा संक्रांतिरुच्यते । तत्रान्यासां चंद्रादिसंक्रांतीनां तु 'देवयंकर्तवोऽष्टाष्टौ नाड्योंऽकाः खनृपाःक्रमात् । वाः संक्रमणेऽर्कादेःप्रायोऽर्कस्यातिनिंदिताः॥' इति वयंघटीत्वमेव विवाहप्रकरणे वक्ष्यति । नतु फलकथने मासां संक्रांतीनां कश्चिदुपयोगः । सूर्यसंक्रांतीनां तु नक्षत्रवारसमयमेदेन बवादिकरणभेदेन च शुभाशुभफलकथनयोग्यता पुण्यकालता संक्रांतिविशेषे वयंघटीन्यूनाधिक