________________
सूर्यसंक्रांतिफलम् ] संक्रांतिप्रकरणम् ३ ।
१२१ भावश्चास्तीत्यतो बहुवक्तव्यत्वात्स्वतंत्रमेव सूर्यसंक्रांतिप्रकरणमारिप्सुनक्षत्रवारभेदेन फलं तावत्सार्धवसंततिलकयाह
घोरार्कसंक्रमणमुग्ररवौ हि शूद्रा
ध्वांक्षी विशो लघुविधौ च चरर्भभौमे । चौरान्महोदरयुता नृपतीन्ज्ञमैत्रे ___ मंदाकिनी स्थिरगुरौ सुखयेच मंदा ॥१॥ विप्रांश्च मिश्रभभृगौ तु पशृंश्च मिश्रा
तीक्ष्णार्कजेऽन्त्यजसुखा खलु राक्षसी च । घोरेति॥ अर्कस्य सूर्यस्य संक्रमणं निरयनांशा संक्रांतिरुपरवावुअसंज्ञकनक्षत्रे रविवारे वा चेत् स्यात्तदा घोरेति नान्नी सा शूद्रान्सुखयेत् सुखमुत्पादयेत् । अत्रार्कसंक्रमणमिति पदोपादानसामर्थ्यात्सूर्यसंक्रांतिष्वेवायं विचारो नाखिलग्रहसंक्रांतिष्विति फलितोऽर्थः । ननूगरवावित्यत्र सप्तम्यंतो द्वंद्वसमासोऽस्ति स किमितरेतरयोगद्वंद्वः समाहारद्वंद्वो वा? नाद्यः। इतरेतरयोगद्वंद्वस्योद्भूतावयवत्वाविवचनांतता स्यात्तथा सत्युग्ररव्योरिति भवितव्यम् । उग्रनक्षत्राणां बहुत्वादुग्ररविष्विति बहुवचनांतता च स्यादिति केचिदाहुः । उभयथापि पाटे छंदोभंगदोषः प्रामोति । न द्वितीयः । समाहारद्वंद्वस्य 'सवों द्वंद्वो विभाषयैकवद्भवति' इत्येकवद्भावविधानात् ‘स नपुंसकम्' इति नपुंसकलिंगतायां सत्यां समाहारस्यैकत्वादेकवचनं डिस्तस्मिन्परतः 'इकोऽचि विभक्तौ' इति नुमागमे उग्ररविणीति स्यात् । तादृशपाठेऽपि छंदोभंग एव दूषणम् । अत्र समाधिःइतरेतरयोगद्वंद्वोऽत्र नो कार्यः किंतु समाहारद्वंद्वः कार्यः । तथा हि-'स्तोः श्चना श्वः' इत्यत्र सूत्रे स्तोरिति ज्ञापकादागमशासनस्यानित्यत्वावगतेर्नुमभावे 'अञ्च घेः' इत्यौत्वे अत्वे च सिद्धमुग्ररवाविति । अथवोग्रैः सहितो रविरुणरविरिति शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी तत्पुरुषः समासः, ततः सप्तम्येकवचने पूर्ववत्सिद्धमिष्टमतश्छंदोभंगाभावोऽपि सिद्धः । एवं लघुविधावित्यादावपि समाधेयम् । अनेनैवाशयेन 'मर्यादाभिविधौ च यः' इति काशिकाप्रयोगोपपत्तिरित्यलमतिप्रसंगेन । अथ लघुनक्षत्रे विधौ चंद्रवारे वा सूर्यसंक्रांतिवांक्षीनानी विशो वैश्यान्सुखयेत् । चरः चरनक्षत्रे भौमे मंगलवारे वा संक्रांतिर्महोदरयुता महोदरीनाम्नी चौरान्सुखयेत् । ज्ञमैत्रे बुधे मैत्रसंज्ञकनक्षत्रे वा संक्रांतिमंदाकिनीनाम्नी नृपतीन्राज्ञः सुखयेत् । स्थिरनक्षत्रे गुरुवारे वा संक्रांतिमंदानाम्नी विप्रान्सुखयेत् । मिश्रनक्षत्रे भृगुवारे वा संक्रांतिर्मिश्रानाम्नी पशून्सुखयेत् । तीक्ष्णनक्षत्रे अर्कजे शनिवारे वा संक्रांतिः खलु निश्चयेन राक्षसीनाम्नी अंत्यजांश्चांडालान्सुखयतीत्यंत्यजसुखा स्थादित्यर्थः । यदाह कश्यपः-'घोराध्वांक्षीमहोदर्यो मंदा मंदाकिनी तथा। मिश्रा राक्षसिका सूर्यसंक्रांतिस्त्वर्कवासरात् ॥' वसिष्ठः-'घोरोग्रः
११ मु० चि.