________________
मुहूर्तचिंतामणिः । [ रात्रिसंक्रांतिफलम्
ध्वांक्षी लघुभे चरमे महोदरी मृदुभे । मंदाकिन्यचरर्क्षे मंदा मिश्रा मिश्र च राक्षसी तीक्ष्णे ॥' अत्र छंदोभंगस्त्वार्षः । देवीपुराणे - 'मंदा ध्रुवेषु विज्ञेया मृदौ मंदाकिनी तथा । क्षिप्रे ध्वांक्षी विजानीयादुप्रे घोरा प्रकीर्तिता ॥ चरे महोदरी ज्ञेया तीक्ष्णैर्ऋक्षैस्तु राक्षसी । मिश्रिता चैव विज्ञेया मिश्रैर्ऋक्षैस्तु संक्रमे ॥' इति । रत्नमालायाम् – 'उग्रक्षिप्रचरैर्मित्रध्रुवमिश्राख्यदारुणैः । ऋक्षैः संक्रांतिरर्कस्य घोराद्या क्रमशो भवेत् ॥' नारदकश्यपौ – 'शूद्रतस्करवैश्यक्ष्मादेव भूपगवां क्रमात् । अनुक्तानां च सर्वेषां घोरायाः सुखदाः स्मृताः ॥' क्ष्मादेवाः= ब्राह्मणाः । अनुक्तानां = चांडालादीनाम् । ननूक्तं वक्ष्यमाणं वा शुभाशुभफलं सायनांशसंक्रांतितः कुतो न विचार्यत इति चेत् । उच्यते, - सायनांशसंक्रांतेः स्नानदानजपादावेव कार्यं न सर्वत्र । यदाह पुलस्त्यः - 'स्नानदानजपश्राद्धव्रतहोमादिकर्मसु । सुकृतं चलसंक्रांतावक्षयं पुरुषोऽनुते ॥' इति । चलसंक्रांतिः =सायनांशसंक्रांतिः । अतश्चलसंक्रांतेः परिगणितस्नानादिकविषयत्वादेव कृत्यांतरेषु विवाहादिशुभकर्मसु संक्रांतिमासांगी-कारे शुभाशुभफलकथने च नास्या उपयोग इति युक्तमुत्पश्यामः । इदं चाग्रे सम्यक्तया निर्णेष्यते ॥ १ ॥
अथ दिनरात्रिविभागेन संक्रांत्यशुभफलमुत्तरायणदक्षिणायनसंज्ञां च सार्धवसंततिलकयाह
१२२
त्र्यंशे दिनस्य नृपतीन्प्रथमे निदंति
मध्ये द्विजानपि विशोऽपरके च शूद्रान् ॥ २ ॥ अस्ते निशाप्रहर के च पिशाचकादीनक्तंचरानपि नटान्पशुपालकांश्च ।
सूर्योदये सकललिंगिजनं च सौम्य - याम्यायनं मकरकर्कटयोर्निरुक्तम् ॥ ३ ॥
त्र्यंशे इति ॥ अत्रार्कसंक्रमणमित्यनुवर्तते । दिनप्रमाणं त्रिभिर्भक्तं घट्यात्मकस्तृतीयांशो भवति, तत्र दिनस्य प्रथमत्र्यंशेऽर्कसंक्रमणं नृपतीन्हंति । मध्ये द्वितीयत्र्यंशे द्विजान्ब्राह्मणान्हंति । अपरके तृतीयत्र्यंशे वैश्यान्हं त्येवं सर्वत्र व्याख्येयम् । अस्ते सूर्यास्तसमयेऽर्कसंक्रमणं शूद्रान् । अथ रात्रिसंक्रांतिफलम् । तत्र रात्रिप्रथमप्रहरे पिशाचकादीन् आदिशब्देन भूतादीन्, द्वितीयप्रहरे नक्तंचरान् राक्षसान् तृतीयप्रहरे नटान्नर्तकान्, चतुर्थप्रहरे पशुपालकानाभीरान्, सूर्योदयसमयेऽर्कसंक्रमणं सकललिंगिजनं पाखंडादिकं हंतीत्यर्थः । 'पाखंडाः सर्वलिंगिनः' इत्यभिधानात् । यदाहतुर्नारद कश्यपौ - 'पूर्वाह्णे नृपतीन्हंति विप्रा - न्मध्यंदिने विशः । अपराह्नेऽस्तगे शूद्रान् प्रदोषे च पिशाचकान् ॥ निशि रात्रिचरान्नाढ्यकारानपररात्रके । गोचारिणश्च संध्यायां लिंगिनं रविसंक्रमे ॥' इति । संक्रांतः क्रूरसौम्यवारपरत्वेन फलविशेषमाह वसिष्ठः – 'रविरविजभौम
I
'१ निशाप्रहरकेषु इति पाठः । २ गोपानुत्तरसंध्यायामिति पाठः ।