________________
दशसंक्रांतीनां संज्ञाः] संक्रांतिप्रकरणम् ३ ।
१२३ कारे संक्रांतौ दिनकरस्य तन्मासे । पित्तकफानिलजामयनरपतिकलहस्त्ववृष्टिश्च ॥ बुधगुरुसितचंद्राहे सति संक्रांतावनामयं नृणाम् । क्षितिपतिनिकरक्षेमं सस्यविवृद्धिर्विधर्मिणां पीडा ॥' अत्र मेषसंक्रांती विशेषमाह कश्यपः'यदा मेषगतः सूर्यो भरण्यादिचतुष्टये । सस्यवृद्धिर्भवेत्तत्र वृद्धिराज़्चतुष्टये ॥ मघादिदशके हानिः क्षेमं चानुक्तभेषु च ॥' अस्यार्थः-यस्मिन्दिने मेषसंक्रमस्तद्दिने चंद्रो यदि भरण्यादिनक्षत्रचतुष्टये स्यात्तदा सस्यवृद्धिः फलम् । एवमप्रेऽपि व्याख्येयम् । अथ जन्मनक्षत्रे संक्रांतिफलं दीपिकायाम्—'यस्य जन्मक्षमासाद्ये रविसंक्रमणं भवेत् । तन्मासाद्यंतरे तस्य रोगः क्लेशोधनक्षयः॥' इति । तत्र शांतिकमपि दीपिकायामुक्तम्-'तगरसरोरुहपत्रै रजनीसिद्धार्थलोध्रसंयुक्तैः । स्नानं जन्मन्य॒क्षे रविसंक्रांती नृणां शुभदम् ॥' इति । अथ संक्रांतिषु वृष्टौ जातायां फलमुक्तं वसिष्ठेन–'अजकन्याझषकर्किणि संक्रांती यदि भवेद्वर्षम् । अतुलं क्षेम सुभिक्षं नृपसजनगोकुलक्षेमम् ॥ घटचापसिंहमिथुनसंक्रांती यदि भवेद्वर्षम् । आमयडामरभूभृद्युद्धमनघे त्ववृष्टिश्च ॥ वृषवृश्चिकतुलमकरे वृष्टिः स्यात्संक्रमे समये । विस्फोटामयतस्करपीडा वृष्टिः कृशानुभयम् ॥' इति । अथ सौम्येति । मकरकर्कटयोः संक्रांतिश्चेत्तदा क्रमेण सौम्ययाम्यायनं निरुक्तं कथितम् । मकरे उत्तरायणं कर्कटे याम्यायनं स्यादित्यर्थः। यदाह नारदः-'सौम्ययाम्यायने नूनं भवतो मृगकर्किणोः' इति ॥२॥३॥ अथावशिष्टानां दशसंक्रांतीनां षडशीतिमुखाः संज्ञा अनुष्टुभाह
षडशीत्याननं चापनृयुकन्याझषे भवेत् ।
तुलाजौ विषुवं विष्णुपदं सिंहालिगोघटे ॥ ४ ॥ षडशीतीति ॥ धनुर्मिथुनकन्यामीनेषु संक्रांतिश्चेत्तदा षडशीतिमुखनाम्नी संक्रांतिः । तुलामेषयोः संक्रांतिर्विषुवनानी । सिंहवृश्चिकवृषकुंभेषु संक्रांतिविष्णुपदाख्या । उक्तं च नारदेन–'स्थिरभेष्वर्कसंक्रांतिज्ञेयं विष्णुपदाह्वयं । षडशीतिमुखं ज्ञेयं द्विस्वभावेषु राशिषु॥ तुलाधराजयो यं विषुवं सूर्यसंक्रमे ।' संज्ञाप्रयोजनं च-'याम्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः । षडशीत्यानने सौम्ये परा नाड्योऽतिपुण्यदाः ॥' इति ग्रंथकृदने वक्ष्यति । अथ ननु'संक्रांती यानि दत्तानि हव्यकव्यानि दातृभिः । तानि नित्यं ददात्यर्कः पुनजन्मनि जन्मनि ॥ रविसंक्रमणे पुण्ये न स्नायाद्यदि मानवः। सप्तजन्मसु रोगी स्थादुःखभागी हि जायते ॥' इति शातातपोक्तेः स्नानदानश्राद्धादिकृत्यस्य संक्रांतिकालेऽवश्यकर्तव्यता प्रतीयते । तत्र श्राद्धादेरनेकक्षणसाध्यत्वादननुष्ठानलक्षणमप्रामाण्यमापद्येत, संक्रांतिकालस्यातिसूक्ष्मत्वात् । तदुक्तं देवीपुराणे–'सुस्थे नरे सुखासीने यावत्स्पंदति लोचनम् । तस्य त्रिंशत्तमो भागस्तत्परः परिकीर्तितः । तस्माच्छततमो भागस्युटिरित्यभिधीयते । त्रुटेः सहस्रभागो यः स कालो रविसंक्रमे ॥' इति । देवलोऽपि-'संक्रांतिसमयः सूक्ष्मो दशेयः पिशितेक्षणैः' इति । पिशितेक्षणैःमनुष्यैः। अतो मुख्यकालानुपलब्धौ गौणकालेऽपि कार्य, वचनप्रामाण्यात् ॥ ४ ॥