________________
१२४
मुहूर्तचिंतामणिः ।
[ रात्रिसंक्रांतौ विशेषः
स च गौणकालो निरवधिरित्यतो गौणकालमुपजातिकाछंदः पूर्वार्धेनाह— संक्रांतिकालादुभयत्र नाडिकाः
पुण्या मताः षोडश षोडशोष्णगोः ।
संक्रांतीति ॥ गणितमार्गेण यः उष्णगोः सूर्यस्य संक्रांतिकाल भगतस्तत उभयत्र पूर्वतः परतश्च षोडश नाड्यो घढ्यः पुण्यसंपादकत्वात्पुण्या मताः संमताः । सूर्य संक्रांतिसमयात् पूर्वं षोडश पश्चाच्च षोडश घटिकाः पुण्यकालो मिलित्वा द्वात्रिंशद्वटिका भवतीत्यर्थः । तदाह वसिष्ठः - 'दिनपतिसंक्रमणाप्राक् षोडश नाड्यश्च पुण्यकालः सः । परतः षोडश नाड्यः सर्वत्र स्नानदानकार्येषु ॥' ब्रह्मसिद्धांतेऽपि - 'संक्रांतेः प्राक् परस्ताच्च सार्धाः षोडश नाडिकाः । त्रयस्त्रिंशत्संक्रमस्य पुण्याः सर्वस्य नाडिकाः ॥' भनेन - 'संक्रांतेः पुण्यकालस्तु षोडशोभयतः कलाः' इति स्मृतिवाक्ये यैः पूर्वतः परतश्चाष्टावष्टौ घटिकाः पुण्यकाल इत्येवं षोडशेति व्याख्यातं तदपाकृतं भवति । किंचायमर्थो वासनासिद्धः सूर्यसिद्धांतेऽभिहितः - 'अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः । तदर्धनाड्यः संक्रांतेरर्वाक् पुण्यं तथा परे ॥' इति । सिद्धांतशिरोमणावपि - 'षष्टिघ्नबिंबं ग्रहभुक्तिभक्तं संक्रांतिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रांतिगो मिश्रफलं विधत्ते ॥' इति । वासना चेयम्-यदि ग्रहस्पष्टगतितुल्यकलाभिरहोरात्रमानरूपाः षष्टिघटिका लभ्यंते तदा ग्रहबिंबकलाभिः किमिति त्रैराशिकेन, ग्रहे बिंबकलानां षष्टिर्गुणको ग्रहभुक्तिर्भाजको निष्पन्न इत्यर्थः । एवं सर्वग्रहाणामपि संक्रांतिः स्यात् । तत्र सामान्यतः सूर्यबिंबं त्रयत्रिंशत्कलाः । ग्रहगतेर्हासवृद्धिभ्यां बिंबस्यापि हासवृद्धिसंभवात् । तदुक्तं सिद्धांत एव । अत्र तु विस्तरभयादनुपयुक्तत्वाश्च नास्माभिरलेखि । अत एव त्रिंशदेकत्रिंशत्सार्धद्वात्रिंशत्रयस्त्रिंशदादिभेदेन स्मृतिषु पुण्यघटिकाभिधानं स्पष्टीकृत्या भेदसंभवाद्भिन्नम् । तदेवं सामान्यतः संक्रांतिषु द्वात्रिंशद्वटिकारूपः पुण्यकालो निर्णीतः । देवीपुराणे तु मंदादिसंज्ञा भेदात्पुण्यकालविशेष एवोक्तः - 'द्विचतुष्पंचसप्ताष्ट नव द्वादश एव च । क्रमेण घटिका ह्येतास्तत्पुण्यं पारमार्थिकम् ॥' इति । अस्यार्थः - मंदायामंतरालवर्ति घटिकाद्वयं, मंदाकिन्यां चतस्रो घटिकाः, ध्वांक्ष्यां पंच, घोरायां सप्त, महोदर्यामष्टौ, राक्षस्यां नव, मिश्रायां द्वादश । प्रागभिहितदेवीपुराणोक्तमंदादिसंज्ञावाक्यान्नक्षत्रजनितसंज्ञासु मंदादिष्वयं विचारो न वारप्रयुक्तास्ववचनात् ॥
एवं संक्रांतिषु पुण्यकालमभिधाय इदानीं रात्रिसंक्रांतौ विशेषमुपजात्युत्तरार्धेनाह
निशीथतोsarपरत्र संक्रमे पूर्वापराहांतिमपूर्वभागका ॥ ५ ॥
निशीथत इति ॥ निशीथमर्धरात्रं तस्मादर्वाक् पूर्वत्र अपरत्र पश्चाश्च संक्रमे संक्रांतिकाले सति पूर्वापरयोर होः क्रमेणांतिमपूर्वभागको पुण्यौ स्याताम् ।
१ स्पष्टीकृत्याः स्पष्टीकरणस्य अथवा स्पष्टीकृत्या स्पष्टीकरणेनेत्यर्थः ।