________________
मकरसंक्रमादिपुण्यदिनविचारः] संक्रांतिप्रकरणम् ३ ।
१२५ भागकाविति स्वार्थे कः' । यद्यर्धरात्रात्प्राक् संक्रांतिस्तदा पूर्वदिनस्योत्तरार्ध पुण्यम् । यद्यर्धरात्रादुपरि संक्रांतिस्तदोत्तरदिनस्य पूर्वार्धमेव पुण्यमित्यर्थः । उक्तं च ब्रह्मसिद्धांते—'भवनांतं बिंबमध्य रात्र्यर्धात्प्रागुदेति चेत् । स्नानदानादि मध्याह्नात्कुर्यादूर्ध्व गते दिने ॥ राज्यर्धादुपरि क्षेत्रं याति चेदन्यथार्यमा । अयागामिनि मध्याह्वात्पूर्व स्नानादि पुण्यदम् ॥ भवन राशिः। बिंबमध्यं-रवेः । क्षेत्रं-राशिः। वृद्धवसिष्ठोऽपि-'अह्नि संक्रमणे पुण्यमहः कृत्स्त्रं प्रकीर्तितम् । रात्रौ संक्रमणे भानोदिनाधं स्नानदानयोः ॥ अर्धरात्रादधस्तस्मिन्मध्याह्नस्योपरिक्रिया । ऊर्ध्व संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥' इति । ननु रात्रौ दिनसंक्रांतिवत् रात्रावपि पुण्यकालसत्त्वात्तदा स्नानादि कुतो न क्रियते यदर्थमयमुद्यम आरब्धः? उच्यते,-'रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः' इति सुमंतुवाक्याद्रात्रौ स्नानाद्यधिकारासत्त्वात् । यत्तु नैमित्तिकं ग्रहणादिप्रयुक्तं तद्भवत्येव । 'नैमित्तिकं च कुर्वीत स्नानं दानं च रात्रिषु ।' इति सुमंतुवाक्यशेषात् ॥ ५॥
अर्धरात्रसमये संक्रमणे मकरकर्कटयोश्च विशेषमुपजातिकयाहपूर्णे निशीथे यदि संक्रमः स्यादिनद्वयं पुण्यमथोदयास्तात् । पूर्व परस्ताद्यदि याम्यसौम्यायने दिने पूर्वपरे तु पुण्ये ॥ ६॥
पूर्ण इति ॥ 'अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरी समौ' इत्यभिधानादर्धरानं निशीथशब्दवाच्यम् । तस्मिन्निशीथे पूर्ण रात्रिद्वितीयमहरांतिमपलावच्छिन्ने यदि संक्रमः स्यात्तदा प्रागपरं दिनद्वयं पुण्यमुक्तम् । उक्तं च वृद्धवसिष्टेन- पूणे चेदर्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥' इति । ब्रह्मसिद्धांतेऽपि-'यद्यर्धरात्र एव स्यात्संपूर्णे संक्रमो रवेः। तदा दिनद्वयं पुण्यं स्नानदानादिकर्मसु ॥' अथ 'मुक्त्वा मकरकर्कटौ' इत्युक्तं, तत्र मकरकर्कटयोस्तु कथमित्यत आह-अथेति । अथानंतरमुदयास्तात्सूर्योदयास्ताच्च पूर्व परस्ताच्च यदि याम्यसौम्यायने कर्कमकरसंक्रांती भवतस्तदा पूर्वपरदिने पुण्ये स्याताम् । यदि सूर्योदयात्पूर्व कर्कसंक्रमणं स्यात्तदा पूर्वदिन एव पुण्यकालो न परदिने ॥ तथा यदि सूर्यास्तादनंतरं मकरसंक्रांतिः स्यात्तदोत्तरदिने एव पुण्यकालो न पूर्वदिने । तदाह वृद्धगार्ग्य:-'यदास्तमयवेलाया मकरं याति भास्करः। प्रदोषे वार्धरात्रे वा स्नानं दानं परेऽहनि ॥ अर्धरात्रे तदूर्ध्व वा संक्रांती दक्षिणायने । पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥' इति । अस्तसमयवेलाया इति पंचम्यंतं पदम् । वाशब्द इवार्थे । भविष्योत्तरपुराणेऽपि-'कार्मुकं तु परित्यज्य मृगं संक्रमते रविः । प्रदोषे चार्धरात्रे वा स्नानं कुर्यात्परेऽहनि ॥ मिथुनात्कर्कसंक्रान्तियदि स्यादंशुमालिनः । प्रभाते वा निशीथे वा कुर्यादहनि पूर्वतः ॥' इति । प्रदोषलक्षणं स्कंदपुराणे-'त्रिमुहूर्तः प्रदोषः स्यादवावस्तंगते सति' इति ॥ ६ ॥
'अथोदयास्तात्' इति वचनस्याप्यपवादमिंद्रवज्राछंदसाह - संध्या त्रिनाडीप्रमितार्कबिंबाद|दितास्तादध ऊर्ध्वमत्र । चेद्याम्यसौम्ये अयने क्रमात्स्तः पुण्यौ तदानीं परपूर्वघस्रौ ॥७॥ .१ समयावच्छिन्ने इति पाठः ।