________________
मुहूर्तचिंतामणिः । [मकरसंक्रमे रात्रावेवानुष्ठानं
अर्धेति ॥ भर्कबिंवादर्कमंडलादर्धोदितास्तादर्धोदितादर्भास्ताच्चाध ऊर्ध्वं च क्रमात् त्रिनाड्यः त्रिघटिकास्ताभिः प्रमिता संध्या संध्याकालः स्यात् । अर्धीदितार्क बिंबात्पूर्वं त्रिघटीप्रमिता प्रातः संध्या तथार्धास्तादर्कबिंबादुपरि त्रिनाडीप्रमिता सायंसंध्येत्यर्थः । तदाह वराहः - 'अर्धास्तमितानुदितात्सूर्यादस्पष्टभं नभ यावत् । तावान्संध्याकालश्चिद्वैरेतैः फलं ब्रूयात् ॥' इति । तत्प्रमाणमाह नारदः - 'अर्धास्तमयसंध्या हि घटिकान्त्रय संमिता । तथैवार्धोदयात्प्रातर्घटिकात्रयसंमिता ॥' इति । स्कंदपुराणेऽपि - ' उदयात्प्राक्तनी संध्या घटिकात्रयमुच्यते । सायंसंध्या त्रिघटिका ह्यस्तादुपरि भास्वतः ॥ ' इति । अत्र संध्यालक्षणे अर्धास्तमितानुदितवाक्यस्य स्कंदपुराणीयवाक्यस्य च ब्रीहियववद्विकल्पः । अथ संध्यालक्षणप्रयोजनमाह-अत्रेति । अत्र संध्यायां प्रातः संध्यायां सायंसंध्यायां च क्रमाचेद्याम्यसौम्ये अयने दक्षिणोत्तरायणे स्तः तदानीं परपूर्वी घत्रौ दिवसौ पुण्यौ । ' याम्यसौम्ये अयने' इत्यत्र 'ईदूदेद्विवचनं प्रगृह्यम्' इति प्रगृह्यत्वात् 'लुतप्रगृह्या अचि -' इति प्रकृतिभावः । यदि प्रातः संध्यायां दक्षिणायनप्रवृत्तिस्तदा सूर्योदयादनंतरं संपूर्णमहः पुण्यम् । तथा यदि सायंसंध्यायामुत्तरायणप्रवृत्तिस्तदा सूर्यास्तात्पूर्वं संपूर्णमहः पुण्यं स्यादि`त्यर्थः । यदाह नारदः - 'सूर्यस्योदय संध्यायां यदि याम्यायनं भवेत् । तदोदयादहः पुण्यं पूर्वाहः पूर्वतो यदि ॥ सूर्यास्तमयसंध्यायां यदि सौम्यायनं भवेत् । तदहः पुण्यकालः स्यात्परतश्चोत्तरेऽहनि ।' इति । अत्र यद्युदयसंध्यातः प्राक्कर्क संक्रमस्तदा प्राग्दिन एव पुण्यकालो नोत्तरदिने । तथा यद्यस्तसंध्यामतिक्रम्य मकरसंक्रातिस्तदोत्तरदिन एव पुण्यकालो नतु प्राग्दिने इति निष्कृष्टोsर्थः । अतो वृद्धगार्ग्यादिवाक्यनारदवाक्ययोः प्रदोषसंध्यापदोपादानेन सामान्यविशेषभावोऽवगंतव्यः । यत्तु हेमाद्रौ स्कंदपुराणीयं वाक्यम्'धनुर्मीनावतिक्रम्य कन्यां च मिथुनं तथा । पूर्वापरविभागेन रात्रौ संक्रमते यदा ॥ दिनांते पंच नाड्यस्तु तदा पुण्यतमाः स्मृताः । उदये च तथा पंच दैवे पित्र्ये 'च कर्मणि ॥' इति, तदपि संध्याविषयकमेवेत्याहुरभियुक्ताः । विषुवे तु यथाश्रुतमेवेति । अन्यदपि संध्यालक्षणप्रयोजनम् - 'प्राक्संध्या गर्जित - ' ( ५।४८ ) इत्यादिषु वक्ष्यति । ननु नायमयनपुण्यका लोक्त्युद्यमः सफलः, शास्त्रांतरविरुद्धत्वात् । तथा हि- 'अह्नि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्रौ संक्रमणे भानोदिनार्थं स्नानदानयोः ॥ अर्धरात्रादधस्तस्मिन्मध्याह्नस्योपरि - क्रिया । ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥ पूर्णे चेदर्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥' इति वृद्धवसिष्ठेनायनव्यतिरिक्तेषु दशसु संक्रमेषु रात्रिगतेषु ' या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः ॥ इति कश्यपोक्तसामान्यवाक्याद्रात्रावेवानुष्ठानं प्रसक्तं 'अह्नि संक्रमणे' इत्यादिनाऽपोह्य दिवैवाऽनुष्ठानं विहितं तस्यापि पर्युदासः क्रियते 'मुक्त्वा मकरकर्कटी' इति । तस्मान्मकरकर्कटयोः संक्रमणे रात्रावेवानुष्ठानं कर्तव्यमित्युक्तं भवति । अत एवाह याज्ञवल्क्यः
१२६