________________
संक्रमणे विष्णुपदादौ विशेषः] संक्रांतिप्रकरणम् ३ ।
१२७ राहुदर्शनसंक्रांतिविवाहात्ययवृद्धिषु । स्नानदानादिकं कार्य निशि काम्यव्रतेषु च ॥' इति । वसिष्ठोऽपि-'सुतजनने संक्रांतावुपरागे चंद्रसूर्ययोर्नियतम् । रात्रावपि कर्तव्यं स्नानं दानं विशेषतो नृणाम् ॥' इति । सुमंतुश्च-'ग्रहणोद्वाहसंक्रांतियात्रार्तिप्रसवेषु च । श्रवणे चेतिहासस्य रात्रौ दानं प्रशस्यते ॥' इति । एषु वाक्येषु सामान्यवाचिनोऽपि संक्रांतिपदस्य मकरकर्कटसंक्रांतिपरत्वमवसीयते । यस्तु- रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः।' इति निषेधः स संक्रांत्यंतरे व्यवतिष्ठते । अत एवोक्तं कश्यपेन-'स्नानं दानं ग्रहणवत्सौम्ययाम्यायनद्वये' इति । तस्मादयनसंक्रमे रात्रौ सत्यां तत्रैव स्नानदानाधनुष्टातव्यमिति । अत्राहः-शास्त्रद्वयेन तुल्यबलत्वाद्विकल्पसिद्धौ तत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्था द्रष्टव्या। तत्र गौर्जरास्तु-कश्यपादिवाक्यमभ्युपेत्य रात्रावयनसंभवे सति रात्रावेव स्नानदानादिकं कुर्वति । दाक्षिणात्यास्तु-वृद्धगाादिवाक्यमंगीकृत्य दिवस एव स्नानदानादि कुर्वन्तीत्यलमतिप्रसंगेन । यदा तु दिने कर्कमकरसंक्रमस्तदा क्रमेण पूर्वोत्तरघटिकानियममाह वृद्धवसिष्ठः-'अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने । त्रिंशस्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ॥' इति । उत्तरायणमतीतं सत्पुण्यं कर्कटायनमागामि पुण्यम् । तत्र कर्कटसंक्रांतेः प्राक् त्रिंशद्धटिकाः पुण्याः, मकरे तूत्तरा विंशतिघटिकाः पुण्या इत्यर्थः । अत्र वाक्ये यद्यपि दिनपदानुपादानं तथापि 'यदास्तमयवेलायाम्' इति रात्रिपरविशेषवाक्यालोचनादिदं दिनपरं प्रतिभाति । तथासति केनापि हेतुना समीपघटीषु श्राद्धाद्यनुष्ठानासंभवे परमावधित्वेन त्रिंशदादयो घटिका अभ्यनुज्ञायते । यदा तु प्रतिबंधाभावस्तदा 'या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः' इति कश्यपोक्तेः समीपघटिकास्वेव श्राद्धादि विधेयम् । 'सन्निहितपरित्यागे कारणाभावात्' इति न्यायाञ्च ॥ ७ ॥
अथ पूर्वपराः षोडशघटिकाः पुण्या इति पूर्व सामान्येनोक्तमिदानीं विष्णुपदादिषु संक्रमेषु विशेषमनुष्टुभाह
याम्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः । षडशीत्यानने सौम्ये परा नाड्योऽतिपुण्यदाः ॥८॥ याम्येति ॥ याम्यायने कर्कसंक्रांती तथा विष्णुपदे वृषसिंहवृश्चिककुंभसंक्रांतिषु संक्रांतिकालादाद्या नाड्यः प्रथमाः षोडशघटिकाः अतिपुण्यदाः खानदानादावनंतफलदा ज्ञेयाः । अग्रिमास्तु न तथेति निष्कृष्टोऽर्थः । तुलाजयोस्तुलामेषयोः मध्या उभयतः षोडश षोडश घटिकाः पुण्याः। अथवा षोडशैव घटिकाः पुण्याः । षडशीत्यानने मिथुनकन्याधनुर्मीनसंक्रांतिषु तथा सौम्ये मकरसंक्रांती संक्रांतिकालात्परा अनिमाः षोडश घटिका अतिपुण्यदाः । प्रथमास्तु न तथेति निष्कृष्टोऽर्थः । यदाह श्रीपतिः–'याम्यायने