________________
१२८
मुहूर्तचिंतामणिः । [ चंद्रसंक्रमणादौ पुण्यकालः
विष्णुपदे तथादौ दानाद्यनंतं विषुवे च मध्ये । वदंत्यतीते षडशीतिवत्रे महर्षयः खल्वयने च सौम्ये ॥' तत्र कर्के प्रागेव मकरसंक्रांतौ पश्चादेव पुण्यकाल इति तु प्राङ्गिरणायि । विष्णुपदे तु अग्रिमादिमघटीनां पुण्यकाले तरतमभावः । ‘पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडश' इति वृद्धवसिष्टोक्तवाक्येनास्यैकवाक्यतावशात् । विषुवे तु सामान्यनिर्णय एवेति केचित् । दीपिका टीकाकारस्त्वेवमाह - 'मेषे तुलायां च संक्रांतिमध्ये एव संक्रांतिकालात्पूर्वमष्टौ घटिकाः परतश्चाष्टौ घटिकाः पुण्यकालः' इति । युक्तं चैतत् । 'विषुवे च मध्ये' इति मध्यपदोपादानान्मध्ये षोडश घटिकाः पुण्या इत्युच्यते । कस्मात्कालान्मध्य इत्यपेक्षायां संक्रांतिकालादेवेत्यतः पूर्वमष्टौ पश्चाच्चाष्टौ घटिकाः पुण्या इत्यर्थः । यदुक्तं बृहस्पतिना - 'वर्तमाने तुला मेषे नाड्यस्तूभयतो दश' इति तुला मेष संक्रांति कालात्प्राक् पश्चाश्च पंच पंच घढ्यः पुण्या इति । यदप्युक्तं आद्यंतसापेक्षत्वान्मध्यशब्दस्य गणितागतपुण्यकालघटिकानां मध्यत्रिभागः स्थूलदृशा दशघटिकात्मको भवतीति तदतिपुण्यतमत्वसूचनार्थम् । 'या याः सन्निहिता नाड्यः' इति कश्यपोक्तेः । षडशीतिमुखेsप्याद्याग्रिमघटीनां पुण्यकाले तरतमभावः । यत्तु 'षडशीत्यां व्यतीतायां षष्टिस्तुल्यास्तु नाडिकाः' इति वृद्धवसिष्ठवाक्यं तत्प्राग्घटीषु प्रतिबंधवशाच्छ्राद्धादेरसंभवे सत्यंतिमघटीषु श्राद्धादिक्रियाभ्यनुज्ञायाः परमावधिकालेयत्तार्थम् । इदं सर्वं दिनसंक्रांतिविषयं वेदितव्यम् । 'अह्नि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम्' इति सामान्यवाक्यस्य 'सौ (या ?) म्यायने विष्णुपदे' इत्यस्य च विशेषवाक्यस्यैकवाक्यतावशतः । अत एव - ' रात्रौ संक्रमणे भानोर्दिनार्ध स्नानदानयो:' इति रात्रिपरविशेषस्य सत्त्वाच्च । एवं निर्णीते पुण्यकाले स्नानदानाद्यवश्यं विधेयमिति फलितोऽर्थः । तत्र स्नानदानाद्य कुर्वतश्च प्रत्यवायमाह वसिष्ठः - ' इति संचिंत्य विनिर्णयमादेष्टव्यं सदैव दैवज्ञैः । विषुवत्ययने ग्रहणे संक्रांतौ पुण्यदिवसे वा ॥ पितृतृप्तिं न करोति हि दत्त्वा शापं व्रजति तस्य पिता । आगतगतसमयेऽपि च करोति यद्दानजपहोमाद्यम् ॥ ऊषरवापितबीजं यद्वत्तद्वच्च निष्फलं भवति ॥' इति । अयने अयनप्रवृत्त्याख्ये चलसंक्रमण आगतगतसमये निर्णीते पुण्यकालातिरिक्तसमये स्नानादि निष्फलमित्यर्थः । संक्रांतिषु स्नानदानादेः फलमाह भारद्वाजः - 'षडशीत्यां तु यद्दानं यद्दानं विषुवद्वये । दृश्यते सागरस्यांतस्तस्यांतो नैव दृश्यते ॥' वृद्धवसिष्ठोऽपि - 'अयने कोटिपुण्यं च सहस्रं विषुवे फलम् । षडशीत्यां सहस्रं तु फलं विष्णुपदेषु च ॥' इत्यलमतिप्रसंगेन । इति सूर्यसंक्रांति - निर्णयः ॥ अथ नायं केवलं सूर्यसंक्रमण एव पुण्यकालः किंतु चंद्रादीनां ग्रहाणां नक्षत्रसंक्रमे राशिसंक्रमे च पुण्यकालो भवति, सोऽपि सोपपत्तिकः प्रसंगतः प्रोच्यतेऽस्माभिः । यदाह जैमिनिः - ' नक्षत्रराइयो रविसंक्रमे स्युरर्वाक् परत्रापि रसेंदुनाड्यः । पुण्यास्तथेदोस्त्रिधरापलैर्युगेकैव नाही मुनिभिः शुभोक्ता ॥ १ ॥ नाड्यश्चतस्रः सपलाः कुजस्य बुधस्य तित्रो मनवः पलानि ॥ अब्ध्यब्धिनाड्यः पलसप्तयुक्ता गुरौ च शुक्रे सपलाश्चतस्रः ।
१ र्युक् युगैकनाडी मुनिभिः शुभोक्ता इति पाठः ।