SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रहाणां मानकलाः ] संक्रांतिप्रकरणम् ३ । १२९ ॥ २ ॥ द्विनागनाड्यः पलसप्तयुक्ताः शनैश्चरस्याभिहिताः सुपुण्याः । भाद्यंतमध्ये जपदानहोमं कुर्वन्नवाप्नोति सुरेंद्रधाम ॥ ३ ॥ अस्यार्थः - सूर्यस्य नक्षत्रसंक्रमे राशिसंक्रमे च प्राक् परतश्च षोडशघटिकाः पुण्याः । एवं चंद्रस्यैका घटी त्रयोदश पलानि । भौमस्य चतस्रो घटिका एकं पलम् | बुधस्य तिस्रो घटिकाश्वतुर्दश पलानि । गुरोश्चतुश्चत्वारिंशद्वटिकाः सप्त पलानि । शुक्रस्य चतस्रो घटिकाः पलमेकम् । शनेर्व्वशीतिर्घटिकाः सप्त पलानि चोभयतः पुण्यकाल इत्यर्थः । यथा-सू. चं. मं. बु. गु. शु. श. ग्रहाः । अत्रोपपत्ति: 1 सू. चं. मं. १६ १ ० १३ ४ ३१ १ बु. गु. शु. श. ग्रहाः घटी. ३ १४ ७ ४४ ४ ६ ४५ १५ १ ७४ भक्ता ॥ 'भानोर्गतिः स्वदशभागयुतर्द्धिता वा बिंबं विधोस्त्रिगुणिता युगशैल तिथ्यद्वि७१५ हीनशशिभुक्तिरिषुद्वि २५ भक्ता नंदाक्षि२९ युग्भवति वा विधुबिंबमेवम् ॥' इति सिद्धांतशिरोमण्युक्तप्रकारेण रविचंद्रयोर्मांनकला आनेयाः । ‘व्यंघ्रीषवः सचरणा ऋतवस्त्रिभागयुक्ताद्वयो नव च सत्रिलवेषवश्च । स्युर्मध्यमास्तनुकलाः क्षितिजादिकानां त्रिज्याशुकर्णविवरेण पृथग्विनिघ्नाः ॥' इति तत्रैवोक्ताः भौमादीनां मानकलास्तत्र क्रमेण मानकलाः ॥ सू.चं.मं. बु. गु.शु.श. सू. चं. मं. ३२ ३२ ४ बु. गु. शु. श. ७ ८२ ७ ९ -- ५ २० ० २० पला. तत्र ' षष्टिनबिंबं ग्रहभुक्तिभक्तं संक्रांतिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रांतिगो मिश्रफलं विधत्ते ॥' इति भास्करोक्त दिशा संक्रांतिनाढ्यः स्युः । तत्र ग्रहभुक्तयस्तेनैवोक्ताः 'नंदाक्षा भुजगा रवेः शशिगतिः खांकाद्वयोऽक्षाग्नयस्तुंग स्यांगकलाः कुवेदविकलाः पातस्य रामाभवाः । माहेयस्य महीगुणा रसकरा ज्ञस्येषुसिद्धा रदाः पंचेज्यस्य सितस्य षण्णवमिता अष्टौ शनेर्द्वे कले ॥' इति । बुधशुक्रयोस्तु संक्रांतिघटिकानयने सूर्यगतिरेव हारः कल्प्यस्तद्गतितुल्यत्वात्तयोः । वासना भाष्ये हि । 'बुधशुक्रौ तु रवेरासन्नावेव कदाचिदग्रतः कदाचित्पृष्ठतस्तस्यानुचराविव सदा व्रजंतौ दृश्येते ऽतस्तयोरपि रविभगणतुल्या एव भगणा इत्युपपन्नम्' इति भास्करेणाभिहितत्वात् । पठ्यमाना तु गतिस्तच्छीघ्रोच्चयोः शीघ्रफलानयनार्थं
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy