________________
मुहूर्तचिंतामणिः । [ ग्रहाणां नियतमध्यगतयः
वासनासिद्धा जीर्णैः कल्पिता । तदेवं ग्रहगतय इमाः अतो यथोक्त
चं. मं.
बु. गु. शु.
१३०
सू.
५९ ७९० ३१ ५९ ५
१६
४ | ३ | ४४
८ ३५
२६ ፡
कला.
प्रकारेण साधिताः पुण्यकालघटिका : सूर्यस्य त्रयस्त्रिंशद्वटिका एव, चंद्रस्य द्वे घटिके षडविंशतिपलानि, भौमस्य नव घटिकाश्चत्वारि पलानि, बुधस्य षट्घटिका विंशतिपलानि, गुरोरष्टाशीतिर्घटिकाः, एवं शुक्रस्य नवघटिका अष्टौ पलानि, शनेः षष्ट्यधिकं शतं घटिकाः, पूर्वापरकालौ मिलित्वा पुण्यकाल इत्यर्थः । यथा
र. चं. मं. बु. गु. शु. श. र. चं. मं. बु. गु. शु. | श.
20
०
४
३४
५९
०
०
०
८
श. ग्र.
२
२६ ४
८० ३३ २ ९ ६ ८८ ९ १६०
०
अं.
३० १३ ३२ १०
अत्र वासना प्रागुक्ता । एतदर्धनाड्यः प्राक्परतश्च पुण्याः । अत्र गणितागत - घटीपलेषु लिखितजैमिनिवाक्ये च क्वचित्किंचित्पलभेदो घटिकाभेदश्च स गतिस्पष्टकृतिवशतः । युक्तं चैतत् । आकाशे हि वेधादिना स्पष्टा एव खगा दृइयंते न मध्यमाः । ‘दिनद्वयस्पष्टखगांतराल कालः स्फुटस्तु स्फुटभुक्तिबिंबै: " इति स्पष्टत्यैव बिंबसंक्रांति घट्यानयनमुचितम् । उक्तं च केशवार्केण'कुजादिकानामपि बिंबलिप्ताः षष्ट्या गुणाः स्वस्वजवेन भक्ताः । नाड्यादिकः संक्रमणांतरालकालः स्फुटस्तु स्फुटभुक्तिबिंबैः ॥' इति । अपिशब्दात्सूर्याचंद्रमसोर्ग्रहणं । तथासति मध्यमापेक्षया स्पष्टगतिबिंबयोरुपचयापचयसाम्यैस्तत्तद्वटिकानामप्युपचयापचयसाम्यानि क्रमेणापतंति । तेषां चानियतत्वात्पद्ये उपनिबंधायोगात् जीर्णैर्नियतमध्यगत्या सूर्यादीनां ग्रहाणां पुण्यकाल - घटीरानीयोपनिबंधः कृतः । अत्र मत्कृतं पद्यम्- 'नाड्यो रामगुणा ३३ रवेरथ विधोः षट्दोःपलैर्युग्द्वयं २।२६ भौमस्याब्धिपलैर्युता नव ९।४ विदो युक्ताः पलैः खाश्विभिः । षण्णाड्यो ६।२० ऽष्टगजा ८८ गुरोरथ भृगोर्नदाः पलैरष्टभिः ९।८ पुण्याः स्युः खनृपाः १६० शनेरुभयतो राश्यृक्षयोः संक्रमे ॥' अतो यो जैमिनिवाक्ये - 'सार्धाश्चतस्रः पलसप्तयुक्ता गुरो:' इति पाठो माधवादिभिरपाठि । तथा हेमाद्रिणापि - 'द्विनागनाड्यो' इति पदे नागा अष्टौ द्विरावृत्ता नागा द्विनागाः षोडशनाडिकाः शनैश्चरसंक्रांतौ पुण्यकाल इति यत् व्याख्यायि च तदुभयमपाकृतं भवति । तथा च रामचंद्राचार्या अपि कालनिर्णयदीपिकायां हेमाद्र्यादिमुलकममुमर्थं स्वपद्येनोपनियत
२०
०
८ ०