________________
सायनांशसंक्रांतिपुण्यकालः] संक्रांतिप्रकरणम् ३ । श्चिंत्योक्तयो ज्ञेयाः। तस्मात्सर्वग्रहाणां राशिनक्षत्रयोः संक्रांतिषु पुण्यकालताऽस्ति । भास्करोऽपि-रवेस्तु ताः पुण्यतमाः' इति वदंश्चंद्रादिसंक्रांतिषु नाड्यः पुण्या इत्यसूचयत् । 'अतिशायने तमबिष्ठनौ' इति पाणिनिवचनात् 'ग्रहः स्वसंक्रांतिगो मिश्रफलं विधत्ते' इति सूर्यादिसंक्रांतिसाधारणं, तत्र सकलसंक्रांतिषु दिनरात्रिविष्णुपदादिभेदेन सूर्यसंक्रमवनिर्णयो ध्येयः । एतत्संक्रांतिमान्यता हि गुर्जरदेशेऽस्तीत्यलं प्रसक्तानुप्रसक्तेन ॥ इति सकलग्रहसंक्रांतिनिर्णयः ॥ ८॥
अथैवं निरयनांशसंक्रांतिकालमभिधायेदानीं सायनांशग्रहसंक्रांतिषु पुण्यकालमुपजातिकयाहतथायनांशाः खरसाहताश्च स्पष्टार्कगत्या विहता दिनाद्यैः। मेषादितः प्राक्चलसंक्रमाः स्युदाने जपादौ बहुपुण्यदास्ते ॥९॥
तथायनांशा इति ॥ यथा राशिसंक्रमाः बहुपुण्यदास्तथा चलसंक्रमा अपीति व्यवहितस्तथाशब्दः अयनांशाः षष्टया गुण्याः स्पष्टसूर्यगत्या विहृता लब्धैः दिनाद्यैः दिनघटीपलैः कृत्वा मेषादिद्वादशराशिसंक्रांतिकालाप्राक् चलसंक्रमाः स्युस्ते चलसंक्रमा दाने ब्राह्मणेभ्यो दक्षिणादाने जपादौ जपश्राद्धहोभादौ बहुपुण्यदा भवंति । तदुक्तं वसिष्टसिद्धांते-चलसंस्कृततिग्मांशोः संक्रमो यः स संक्रमः। अजागलस्तन इव राशिसंक्रांतिरुच्यते ॥' इति । पुलस्त्यः-'अयनांशसंस्कृतो भानुर्नाले चरति सर्वदा । अमुख्या राशिसंक्रांतिस्तुल्यः कालविधिस्तयोः॥ स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः । सुकृतं चलसंक्रांतावक्षयं पुरुषोऽश्नुते ॥' इति । रत्नमालायां-'यावद्भिरंशैरयनच्युतिः स्यात्तद्भोग्यकालेन दिवाकरस्य । च्युतिर्भवेद्विष्णुपदादिकानां रहस्यमेतन्मुनिभिः प्रदिष्टम् ॥' इति । जावालिरपि-'संक्रांतिषु यथा कालस्तदीयेऽप्ययने तथा। अयने विंशतिः पूर्वा मकरे विंशतिः परा' इति । अयनेचलसंक्रमे । अत्र चलसंक्रमाख्ये मकरायणे पूर्वा विंशतिघटिकाः पुण्यकालः । मकरसंक्रांती तु परा विंशतिघटिकाः पुण्यकालः। मकरव्यतिरिक्तैकादशचलसंक्रमेषु तत्तत्संक्रमवत् पुण्यकालो ज्ञेय इत्यर्थ इति माधवो व्याख्यत् ॥ अथायनांशानयनं तु सूर्यसिद्धांते-'त्रिंशत्कृत्वो युगे भानां चक्रं प्राक् परिलंबते । तद्गणाभूदिनभक्तायुगणाद्यदवाप्यते ॥ तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः । तत्संस्कृताद्रहात् क्रांतिच्छायाचलदलादिकम् । स्फुटं दृक्तुल्यतां गच्छेदयने विपुवद्वये। प्राक् चक्रं चलितं हीने छायात्किरणागते ॥ अंतरांशैरथावृत्त्य पश्वाच्छेषैस्तथाधिके ॥' इति च । ते च सांप्रतं सार्धषोडशायनांशा धनगताः संति छायात्किरणागतस्य सूर्यस्याल्पत्वात्। अत एव प्राक् इत्युक्तं ग्रंथकर्ता । अत्र प्रागित्युपलक्षणम् । कदाचित्संक्रांतिकालात्परतोऽप्ययनांशवशेन चलसंक्रमसंभवात् । तथा च ‘पश्चाच्छेषैस्तथाधिक' इत्युक्तम् । वेदांगज्योतिषेऽपि'प्रपद्येते श्रविष्ठादौ सूर्याचंद्रमसावुदक् । सार्धे दक्षिणार्कस्तु माघश्रावणयोः