________________
१३२
मुहूर्तचिंतामणिः । [निरयनैव गणनोक्ता फलादौ सदा ॥' इति । तत्र मेषादिसंक्रांतिकालस्य सौरसावनघटिकात्मकस्य अयनांशानां च सौराणामतुल्यजातीयत्वाद्योगवियोगौ न स्तः । इत्ययनांशानां दिनीकरणायानुपातः। यदि सूर्यस्य स्पष्टगतिभोगेन षष्टिघटिकात्मकं दिनं लभ्यते तदायनांशैः किमिति । तत्रायनांशानां षष्टिर्गुणकः सूर्यस्पष्टगतिर्भाजक इत्युपपनम् । लब्धानि सौरसावनदिनानि सघटीपलानि अतस्तुल्यजात्योोगो वियोगो वा कार्यः । ननु चैकस्यैव सूर्यस्यैकस्मिन्नेव राशौ राशिसंक्रमणं चलसंक्रमणं च कथं संभवति ? कुतः स्वकक्षास्थिताकाशभागस्य द्वादशधा विभक्तस्य राशिरिति संज्ञा ? तत्र रविमंडलस्य तत्तद्राश्यादिमप्रदेशस्पर्शो राशिसंक्रमणमित्युच्यते तस्मिन्नेव राशौ चलसंक्रमस्तु कीदृश इति चेच्छृणु,-ईश्वरेच्छालोकादृष्टवशतस्तद्राश्यादिभागस्य सूर्यतेजःसंपर्कश्चलसंक्रमो मंडलमध्यसंपकश्च राशिसंक्रम इति विषयविवेकः । तद्यथा-रथ्यां प्राक् पश्चाच नीयमानस्य दीपस्याग्रे दीपप्रभा यस्मिन् प्रदेशे गच्छति तस्मिन्नेव प्रदेशे क्षणांतरे दीपोऽपि गच्छति । एवं सर्वेषामपि ग्रहाणां चलसंक्रमा द्रष्टव्याः । एवं चलसंक्रमस्य मुख्यत्वमुक्तं रोमशसिद्धांतेऽपि–'दिनरात्रिप्रमाणानां निर्णयो नभसंक्रमात् । यतः सकलकर्माणि पुण्योऽतश्चलसंक्रमः ॥' नन्वेवमयनसंक्रमस्य मुख्यत्वे तेन मानेन पंचांगगणना स्यात् , चंद्रादीनामप्ययनचलनदर्शनात् । न . च सायनांशाभ्यां निरयनांशाभ्यां वा सूर्याचंद्रमोभ्यां तिथेस्तुल्यत्वादस्तु पंचांगगणनेति वाच्यम् । अश्विन्यादिभानां विष्कंभादियोगानां च विसंवादात् । किंच सायनसंक्रमरहितस्य चांद्रमासस्याधिमासत्वव्यवहारप्रसंगः । तथा ताहकूसंक्रांतिद्वययुतस्य क्षयमासत्वव्यवहारप्रसंगः । विवाहादौ च सौरमासगणनाप्यनेनापि मानेन स्यादिति चेत् । उच्यते,-सायनसंक्रमस्तु पुण्यकालार्थमेवोपयुज्यते न सर्वत्र । नानदानजपश्राद्धेतिपरिगणितविषयपुलस्त्यवाक्यालोचनात् । तेन पंचांगगणना न्यूनाधिमाससौरमासादि किमप्यनेन मानेन न भवति । तथा सति यात्रादिमुहूर्तेषु भरणीव्यतीपातादिदुष्टयोगानां गुरुपुष्यादिशुभयोगानां च व्यवहारो निरयनेनैवोपपद्यते न सायनेन । किंच सायनगणनया सर्वथा ग्रहणविसंवादः। तद्यथा-षोडशोत्तरपंचदश१५१६शतीमिते शालिवाहनशककाले वैशाखपूर्णिमायां पंचत्रिंशन्नाडीमितायामिन्दूपराग उपलब्धः । तत्र चंद्रः ६।२६।१८ राहुः १।३।५८ अत्र निरयनगणनया शरांगुलानि १२ मानैक्यखंडं २० ग्रासांगुलानि ८ यद्यत्रायनांशाश्चंद्रे योजयित्वा शर आनीयेत तदा शरोंऽगुलादिः ३० अस्य मानैक्यखंडाधिक्याद्रहणं नायातीति सर्वजनप्रत्यक्षविसंवादः। सायनगणनया त्वयोग्येऽपि काले ग्रहणोपलंभः स्यात् । अन्यच्च स्पष्टीकरणेन साधितो भौमादिर्ग्रहो यन्नक्षत्रे गणितेनागतस्तनक्षत्रसमीप एवोपलभ्यते प्रत्यक्षतः । सायनत्वे हि ग्रहः कदाचिदेकनक्षत्रांतरे नक्षत्रद्वयांतरे वोपलभ्यते । सूर्यचंद्रयोस्तु तेजोबाहुल्यान्नक्षत्रतेजःपरिभवातन्नक्षत्रसन्निधौ उपलंभाभावो यद्यपि तथापि कदाचित्क्षीणचंद्रस्याप्युपलंभो दृश्यते । एवं संहितासु मीनशनैश्चरादिविषयकदुष्टफलानि एकराश्यवस्थित