________________
संज्ञाप्रयोजनम् ]
संक्रांतिप्रकरणम् ३ |
१३३
1
ग्रहयोगफलानि च निरयनेनैव । तथा वसिष्ठसंहितायाम् - 'षट् पौष्णभाङ्कादशरौद्रधिष्ण्यात्सुराधिपानानि नव क्रमेण । पूर्वार्धमध्यापरभाक्तदूर्ध्व भुंक्तेऽखिलव्योमचरास्तथैव ॥' इति ग्रहाणां पूर्वार्धमध्यापरभागयोगत्वमपि निरयनेनैवोपलभ्यते । तस्मात् निरयनगणनयैव सर्वोऽपि व्यवहारो युक्तः । ननु सायनगणना दत्ततिलांजलिरिति चेत् । उच्यते, सायनगणना हि नियतविषया । उक्तं च- 'अयनांशाः प्रदातव्या लग्ने क्रांतौ चरागमे सत्रिभे वित्रिभे याते तथा दृक्कर्मपातयोः ॥' इति । सूर्यसिद्धांतेऽपि - 'तत्संस्कृतामहाक्रांतिच्छायाचरदलादिकम् । स्फुटं दृक्तुल्यतां गच्छेदयने विषुद्वये ॥' इति । आदिशब्देन लग्नम् । अतोऽयनांशानां वासनासिद्धनियतविषयत्वाद्वयोरपि मानयोरसंकीर्णो व्यवहार इति सर्वमनाकुलम् । पुण्यकालस्तूभयविधसंक्रमेऽपि ज्ञेयः । पूर्वलिखितवसिष्ठादिवाक्यस्वरसात् । यत्तु वसिष्ठ सिद्धांते - 'पुण्यदां राशिसंक्रांति केचिदाहुर्मनीषिणः । नैतन्मम मतं यस्मान्न स्पृशेत्क्रांतिकक्षया ॥' इति, तदयनसंक्रमपुण्यकालाऽतिस्तुतिपरं; नतु राशिसंक्रांतिपुण्यकालनिराकरणार्थम् । अन्यथा - 'दिनपतिसंक्रमणात्प्राकूषोडश नाट्यश्च पुण्यकालः सः । परतः षोडश नाड्यः सर्वत्र स्नानदानकार्येषु ॥' इति स्वसंहितोत्तराशिसंक्रमपुण्यकालप्रतिपादकवचनस्यानेन सह विरोधो दुष्परिहरः स्यादित्यलमतिप्रसंगेन ॥ ९ ॥
अथ संक्रांत्युपयोगित्वाज्जघन्यबृहत्समनक्षत्राण्युपजातिकयाहसमं मृदुक्षिप्रवसुश्रवोऽग्निमघात्रिपूर्वास्रपभं बृहत्स्यात् । ध्रुवद्विदैवादितिभं जघन्यं सापवुपार्द्रानिलशाक्रयाम्यम् ॥१०॥
सममिति ॥ मृदूनि=मृगरेवत्यनुराधाचित्राः, क्षिप्राणि= अश्विन्यभिजित्पुव्यहस्ताः, वसुः = धनिष्ठा, श्रवः = श्रवणः, अग्निः = कृत्तिका, मघा प्रसिद्धा, त्रिपूर्वा=पूर्वाफल्गुनीपूर्वाषाढापूर्वाभाद्रपदाः, अस्रपः = राक्षसः, 'राक्षसः कौणपः क्रव्याद् क्रव्यादोऽस्रपः' इत्यमरः । तस्य भं मूलम् । अत्र समाहारद्वंद्वः । एतानि 'पंचदश भानि समसंज्ञानि । ध्रुवाणि = रोहिणी त्र्युत्तराः, द्विदैवं= विशाखा, अदितिभं= पुनर्वसुः; एतानि षड्भानि बृहत्संज्ञानि । सार्प = आश्लेषा, अंबुपः शततारका, आर्द्रा प्रसिद्धा, अनिलः = स्वाती, शाक्रं = ज्येष्ठा, याम्यं = भरणी; एतानि षड्भानि जघन्यसंज्ञानि । उक्तं च नारदेन - 'तारा जघन्याः सापैद्रा वातादन्तिकतोयपाः । ध्रुवादितिद्विदैवत्यं बृहत्ताराः पराः समाः ॥' इति । वसिष्ठेनापि 'जघन्यधिष्ण्यानि जलेशसर्परौद्रयाम्यानिलदैवतानि । अध्यर्धधिष्ण्यान्यदितिद्विदैवस्थिराणि शेषाणि समाह्वयानि ॥' इति ॥ १० ॥
अथ संज्ञाप्रयोजनमुपेंद्रवज्रयाह
जघन्यभे संक्रमणे मुहूर्ताः शरेंदवो १५ बाणकृता ४५ बृहत्सु । खराम ३० संख्याः समभे महार्घसमर्धसाम्यं विधुदर्शनेऽपि ११
१ अत्र प्राचीनादर्शेषु 'अश्विनीपुष्यहस्ताः' इति पाठो लभ्यते, अत एवाग्रे - ' एतानि पंचदश भानि समसंज्ञानि ' इति टीकाकृद्भिरभिजिन्नक्षत्रविरहितैव गणनान्यत्रवदत्राप्यु'ति युज्यते । १२ मु० चि०