________________
१३४
मुहूर्तचिंतामणिः। [रविसंक्रमफलविचारः जघन्यभ इति ॥ जघन्यनक्षत्रे यदि संक्रमणं तदा शरेंदवः पंचदश मुहूर्त क्षेयाः । बृहनक्षत्रे संक्रमणे सति बाणकृताः पंचचत्वारिंशन्मुहूर्ता ज्ञेयाः। समनक्षत्रे संक्रमणे सति खरामसंख्यात्रिंशन्मुहूर्ता ज्ञेयाः । उक्तं च नारदेन-'तासां प्रमाणं घटिकास्त्रिंशनवतिषष्टयः' इति । अत एव त्रिंशद्धटिकाः पंचदशमुहूर्ताः, नवतिघटिकाः पंचचत्वारिंशन्मुहूर्ताः, षष्टिघटिकारिंशन्मुहूर्ताः स्युरित्यर्थः । अथास्य फलमुच्यते-महार्घसमर्घसाम्यमिति । यदा पंचदशमुहूर्ता संक्रांतिस्तदा सर्वमन्नं महार्य दुर्लभं भवति । यदा पंचचत्वारिंशन्मुहूर्ता संक्रांतिस्तदा समर्घ सुलभमन्नम् । यदा तु त्रिंशन्मुहूर्ता संक्रांतिस्तदा साम्यं न महा न समर्घ किंतु यथास्थितमित्यर्थः । इदं तु मुहूर्तानां न्यूनाधिकसमभावाजायते । उक्तं च संवित्प्रकाशे-'मुहूर्ताः पंचभूतुल्या जघन्यानां परामिधा । बृहतां पंच वेदास्ते समानां ते खवह्वयः॥ पंचेंदुषु मुहूर्तेषु दुर्भिक्षं रविसंक्रमे । पंचाब्धिषु समर्घ स्याधिशसु समता मता ॥' इति । अथ विधुदर्शनेऽपीति । चंद्रदर्शनेऽप्येवमेव फलं वाच्यम् । अयमर्थः-यदि जघन्यनक्षत्रे चंद्रोदयस्तदा महाघम् । बृहनक्षत्रे चंद्रोदयस्तदा समर्धम् । समनक्षत्रे चंद्रोदयस्तदा साम्यमन्नस्य । उक्तं च रत्नमालायाम्-'बृहत्सु धान्यं कुरुते समर्घ जघन्यधिष्ण्याभ्युदितो महाघम् । समेषु धिष्ण्येषु समं हिमांशुर्वदंत्यसंदिग्धमिमं महांतः ॥' वसिष्ठोऽपि-'ज्ञात्वैवमेवं मणिजीवधातुमूलोणकर्पूररसादिकानाम् । अर्घ वदेज्योतिषिकः प्रजानां समर्घवस्तूत्तमसंग्रहार्थम् ॥' इति ॥ ११ ॥ अथ प्रसंगात्कर्कसंक्रांतावब्दविंशोपकाननुष्टुभाहअर्कादिवारे संक्रांती कर्कस्याब्दविंशोपकाः । दिशो नखा गजाः सूर्या धृत्योऽष्टादश सायकाः॥१२॥
अर्कादिवारे इति ॥ कर्कसंक्रांती सूर्यादिवारे सत्यामेते वक्ष्यमाणा अब्दविंशोपका ज्ञेयाः । तद्यथा-रविवारे दश, सोमवारे विंशतिः, भौमेऽष्टौ, बुधे द्वादश, गुरौ धृत्योऽष्टादश, शुक्रेऽप्यष्टादश, शनिवारे कर्कसंक्रांती सत्यामब्दसर्वशोपकाः पंचेत्यर्थः ॥ १२॥ __ अथ कीदृशस्य रवेः संक्रमो जातस्तं सफलमिंद्रवज्रयाहस्यात्तैतिले नागचतुष्पदे रविः सुप्तो निविष्टस्तु गरादिपंचके । किंस्तुघ्न ऊवं शकुनौ सकौलवेऽनिष्टः समः श्रेष्ठ इहार्धवर्षणे १३
स्यादिति ॥ करणानि भद्राव्याख्याने मयोक्तानि । तत्र रविः तैतिलनागचतुष्पदाख्यकरणेषु सुप्तः सन् संक्रमितः स्यात् । गरादिपंचके गरवणिजभद्राबवबालवाख्यकरणेषु निविष्ट उपविष्टः सन्संक्रमितः स्यात् । किंस्तुघ्नशकुनिकौलवाख्यकरणेषु ऊर्ध्वमूर्ध्वस्थितः सन् संक्रमितः स्यात् । इह करणाधिकरणकसंक्रांतौ रविः अर्धवर्षणे अर्धे मूल्ये वर्षणे वृष्टौ अनयोरुपलक्षणत्वाद्धान्ये