________________
१३५
रविसंक्रमस्य वाहनादि] संक्रांतिप्रकरणम् ३ । ऽपि, क्रमादनिष्टः समः श्रेष्ठः स्यात् । अयमर्थः-सुप्तरविसंक्रमोऽर्धवर्षणधान्येष्वनिष्टः महार्घवृष्टयभावाखान्याभावकारको भवति । एवं निविष्टरवि. संक्रमोऽर्घवर्षणधान्येषु समो न शुभो नाप्यशुभः । तथोर्ध्वरविसंक्रमो. ऽर्धवर्षणधान्येषु श्रेष्ठः समर्घवृष्टिबाहुल्यधान्यबाहुल्यकारक इति । उक्तं च नारदेन-निविष्टो वणिजे विष्ट्यां बालवे च बवे गरे । कौलवे शकुनी भानुः किंस्तुन्ने चोर्ध्वसंस्थितः ॥ चतुष्पातैतिले नागे सुप्तः क्रांति करोति सः । धान्यावृष्टिषु समं श्रेष्ठं हीनं भवेत्क्रमात् ॥' क्रांति संक्रांतिम् । रत्न. मालायामपि-'चतुष्पदे तैतिलनागयोश्च सुप्तो रविः संक्रमणं करोति । विष्ट्यां बवाख्ये च गराह्वये च सबालवाख्ये वणिजे निविष्टः ॥ किंस्तुघ्ननानि शकुनावपि कौलवाख्ये चोर्ध्वस्थितस्य खलु संक्रमणं रवेः स्यात् । धान्यार्ष. वृष्टिषु भवेत्क्रमशस्त्वनिष्टमध्येष्टतेति मुनयः प्रवदंति पूर्वे ॥' इति । अस्यान्यदपि फलमने वक्ष्यति ॥ १३॥ ' अथ रविसंक्रांतेः करणपरत्वेन वाहनवस्त्रायुधभक्ष्यलेपनजातिपुष्पाणि स. फलानि शार्दूलविक्रीडितत्रयेणोपजातिकया चाहसिंहव्याघ्रवराहरासभगजावाहद्विषद्घोटकाः
श्वाजो गौश्वरणायुधश्च बवतो वाहा रवेः संक्रमे । - वस्त्रं श्वेतसुपीतहारितकपाण्ड्वारक्तकालासितं ।
चित्रं कंबलदिग्घनाभमथ शस्त्रं स्याद्भुशुंडी गदा ॥१४॥ खड्गो दंडशरासतोमरमथो कुंतश्च पाशोऽङ्कुशो____ऽखं वाणस्त्वथ भक्ष्यमनपरमान्नं भैक्षपक्कानकम् । दुग्धं दध्यपि चित्रितानगुडमध्वाज्यं तथा शर्करा_ ऽथो लेपो मृगनाभिकुंकुममथो पाटीरमृद्रोचनम् ॥१५॥ यावश्चोतुमदो निशांजनमथो कालागुरुश्चंद्रको
जातिर्दैवतभूतसर्पविहगाः पश्वेणविप्रास्ततः । क्षत्तावैश्यकशुद्रसंकरभवाः पुष्पं च पुन्नागकं
जातीबाकुलकेतकानि च तथा बिल्वार्कांबुजम् ॥१६॥ सान्मल्लिका पाटलिका जपा च संक्रांतिवस्त्राशनवाहनादेः। नाशश्व तद्वृत्त्युपजीविनां च स्थितोपविष्टखपतां च नाशः ॥१७॥
सिंहेति ॥ खनेति ॥ यावश्चेति ॥ स्यान्मल्लिकेति ॥ बवतो ल्यब्लोपे पंचमी । बवमारभ्य सप्त चरकरणानि स्थिराणि चत्वारि शकुन्यादीनि एते. ध्वेकादशसु करणेषु क्रमेण वाहनानि वस्त्राणि तथाऽऽयुधानि भक्ष्याणि लेप