________________
१३६
मुहूर्तचिंतामणिः। [रविसंक्रमस्य वाहनादि नानि जातयश्च पुष्पाणि च ज्ञेयानीत्यर्थः। तत्र वाहनानि-सिंहव्याघ्रौ प्रसिछौ, वराहः शूकरः, रासभो गर्दभः, गजो हस्ती, वाहद्विषत् महिषः, 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । घोटकोऽश्वः, श्वा कुक्कुरः, अजो मेषः, गौषः, चरणायुधः कुक्कुटः; एतान्येकादशकरणेषु वाहनानि । एवं वस्त्रादीन्यपि व्याख्येयानि । तदाह कश्यपः-'सिंहशार्दूलवाराहखरकुंजर. माहिषाः । तुरगवाजवृषभकुक्कुटाश्च बवादिषु ॥ तिथ्यर्धजेषु संक्रांतिवाहनानि यथाक्रमात् ॥' तिथ्य करणं । नारदेन तु विशेषोऽभिहितः-'खशबाहीकवंगेषु संक्रांतेर्धिष्ण्यवाहनम् । अन्यदेशेषु तिथ्यर्धवाहनाः स्युर्बवादयः ॥' इति । यदि संक्रांतिरश्विन्यां तदाऽश्विन्या योनिरश्वस्तद्वाहनं स्यात् खशबाहीकबंगदेशेषु । एवं सर्वनक्षत्रेषु ध्येयम् । अमुमर्थं स्पष्टमाह कश्यपः-'भयोनिकाहनं वंगबाहीकविषये खशे।' इति । अतोऽन्यदेशेषु करणैरेव वाहननिर्णय इत्यर्थः ॥ अथ वस्त्रमुच्यते-श्वेतं शुभ्रं, सुपीतं प्रसिद्धं, हारितकं नीलवर्ण, प्रांडु अरुणवर्ण, आरक्तमलतकवणं, कालं श्यामवर्ण, असितं कजलवर्ण, चित्रमनेकवर्ण, कंबलः प्रसिद्धः, दिक् वस्नाभाका, नग्नत्वमित्यर्थः । घनाभं मेघवर्णम् । उक्तं च-श्वेतपीतहरितपांडुररक्तं श्यामवर्णमसितं बहुवर्णम् । कंबलो विवसनांबुदवर्णान्यंशुकानि च रवेः करणेषु ॥ ॥ अथ शस्त्रमुच्यतेतत्र भुशुंड्यादीन्येकादशायुधानि प्रसिद्धानि । शरासः धनुः । यदाहतुनारदकश्यपौ-'भुशुंडीभिदिपालासिदंडकोदंडतोमरान् । कुंतपाशांकुशास्त्रेषून्बिभर्ति करणेष्विनः ॥' भिंदिपालं गदा, इषुर्बाणः ॥ अथ भक्ष्यमुच्यतेतत्रानं मोदकादि, परमानं पायसं, भैक्षं भिक्षाणां समूहो भैक्षम्, 'भिक्षादिभ्योऽण्' इत्यण् । संन्यासिवद्गहे गृहे गत्वा यत्किंचिदत्रं प्राप्यते तद्वेक्ष. मुच्यते । पक्कानकं अपूपादि, दुग्धं दधि च प्रसिद्धमेव, चित्रितानं बहुभिस्तंदुलमुद्गमसूरिकाहरिद्रादिभिः पक्कमन्नं, गुडमध्वाज्यशर्कराः प्रसिद्धाः। उक्तं च नारदेन 'अन्नं च पायसं भैक्ष्यमपूपं च पयो दधि । चित्रानगुडमध्वाज्यशर्करा च बवादविः ॥ ॥ अथ लेपो विलेपनमुच्यते-तत्र मृगनाभिः कस्तूरी, कुंकुमं प्रसिद्धं, पाटीरं रक्तचंदनं, मृत् प्रसिद्धा, रोचनं गोरोचनं, यावोऽलक्तकः, ओतुमदो मार्जारधर्मः, दक्षिणदेशभाषया 'जवादी'त्युच्यते, निशा हरिद्रा, अंजनं स्रोतोंजनं, 'सुरमे ति भाषायां, कालागुरुः अगरुविशेषः, चंद्रकः कर्पूरः । उक्तं च-'कस्तूरिकाकुंकुमचंदनं मृद्गोरोचनं यावक ओतुधर्मः। निशाजनं चागुरुरिंदुरेभिर्विलेपनं संक्रमणे बवात्स्यात् ॥' अथ जातिरुच्यतेदैवतांदयो दश प्रसिद्धाः, संकरभवाः अनुलोमजाः प्रतिलोमजाश्च । उक्तं च-'देवभूताहिविहगाः पशवो मृग एव च । ब्राह्मणक्षत्रियौ वैश्याः शूद्रा मिश्रा बवादिषु ॥ तज्जातीया विनश्यति षण्मासाभ्यंतरे ध्रुवम् ॥' इति ॥ अथ पुष्पाण्युच्यते-पुन्नागकं नागकेसरवृक्षस्य पुष्पं, जात्यादीन्यंबुजांतानि प्रसिद्धानि, मल्लिका वेलिः, पाटलिका पाटलिः, जपा ओंडूपुष्पम् । उक्तं च-पुन्नागजातीबकुलाः सुकेतकीबिल्वार्कदूर्वाशतपत्र
IHHTHHTHHHHI