________________
कार्यविशेषे ताराबलादि] संक्रांतिप्रकरणम् ३ । मल्लिकाः । ततो भवेत्पाटलिकाजपा ततः पुष्पाणि सूर्यस्य बवादिषु क्रमात् ॥' शतपत्रं-कमलम् । क्वचिद्वयोऽप्युक्तम्-'शिशुः कुमारश्च गतालका युवा प्रौढा प्रगल्भा च ततश्च वृद्धा । वंध्यातिवंध्या च सुतार्थिनी च प्रवाजिका चेति बवादिकानाम् ॥ यद्यद्वयोनुरूपं स्यात्तस्य तस्य महद्भयम्' इति । क्वचिदवस्था अप्युक्ताः-'पंथाश्च भोगो रतिहास्यदुर्मुखी ज्वरान्विता भुक्तसुकंपिता मृता । ध्यानस्थिता कर्कशवृद्धरूपा बवाद्यवस्थाः कथिता मुनींद्रैः ॥' एवं च संक्रमकाले यानि वस्त्राशनवाहनादीन्यभिहितानि, आदिशब्देनायुधलेपनजातिपुष्पाणि, तेषां नाशो भवेत् । च पुनस्तद्वृत्युपजीविनां नाशो भवेत् । स्थितोपविष्टस्वपतां च 'स्यात्तैतिले' इत्यादिना सुप्तत्वादीन्युक्तानि तद्गुणविशिष्टानां नाशः स्यादित्यर्थः । उक्तं च नारदेन-'आयुधं वाहनाहारौ यजातीयं धनं च यत् । सुप्तोपविष्टतिष्ठंतस्ते लोकाः क्षयमाप्नुयुः ॥' इति ॥ १४-१७ ॥
अथ संक्रांतिवशेन प्रतिमनुष्यं शुभाशुभफलमुपजात्याहसंक्रांतिधिष्ण्याधरधिष्ण्यतस्त्रिभे स्वभे निरुक्तं गमनं ततोऽङ्गमे । सुखं त्रिभे पीडनमंगभेऽशुकं त्रिभेऽर्थहानी रसभे धनागमः॥१८॥
संक्रांतीति ॥ संक्रांतिर्यस्मिन्धिष्ण्ये नक्षत्रे स्यात्ततोऽधरधिष्ण्यं पूर्वनक्षत्रं तस्मात्स्वजन्मनक्षत्रं गण्यं, तञ्चत्प्रथमे त्रिभे भवति तदा गमनं यात्रा स्यात् । ततः प्रथमत्रिकादनंतरमंगभेषु षण्नक्षत्रेषु यदि स्वभं तदा सुखं स्यात् । ततस्त्रिभे स्वभे पीडनं शरीरपीडा, पुनरंगभे स्वभे अंशुकं वस्त्रादिप्राप्तिः स्यात् । ततस्त्रिभे स्वभेऽर्थहानिः द्रव्यनाशः । ततो रसभे षण्नक्षत्रे स्वभे धनागमो द्रव्यप्राप्तिः स्यादित्यर्थः । उक्तं च नारदेन–'संक्रांतर्ग्रहणक्षं वा जन्मन्युभयपार्श्वयोः । नेष्टं त्रयं षट् शुभदं पर्यायाच्च पुनः पुनः ॥ हानिर्वृद्धिः स्थानहानिस्तथा प्राप्तिरिति क्रमात् ॥' संक्रांतेर्यनक्षत्रं ग्रहणनक्षत्रं वा यदि जन्मभं भवेदथवा ताभ्यामुभयपार्श्वगतं जन्मभं भवेत्तदा अनिष्टमेव नक्षत्रअयं निषिद्धम् । ततो नक्षत्रषवं शुभं, ततस्त्रिकेऽर्थहानिः, ततः षढे वृद्धिः, ततस्निके स्थानहानिः, ततः षट्सु वृद्धिः (?) षदसु स्थानप्राप्तिरिति । अत एव पठंति दाक्षिणात्याः-'संक्रांत्यधरनक्षत्राद्गणयेजन्मभावधि । त्रिकं षटुं त्रिक षदं त्रिकं षट्कमिति क्रमात् । पंथा भोगो व्यथा वस्त्रं हानिश्च विपुलं धनम् ॥' इति । त्रिकमशुभं षवं शुभमिति फलितोऽर्थः । अत्राशुभफलदायां संक्रांती सत्यां दानमाह नारदः-'तिलोपरि लिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् । तत्र हेम विनिक्षिप्य दद्याद्दोषापनुत्तये ॥' इति । अत्र चक्राकृतिरियम् । एवं संक्रांतिसंबंधि फलमभिहितम् ॥ १८॥ " अथ कार्यविशेषे बलं सामान्यतः संक्रममाणग्रहबलं चोपजात्याहनृपेक्षणं सर्वकृतिश्च संगरः शास्त्रं विवाहो गमदीक्षणे रवेः । वीर्येऽथ ताराबलतः शुभो विधुर्विधोर्बलेऽर्कोऽर्कबले कुजादयः१९
१ वीर्येऽथ ताराबलतो विधुर्विधोर्बलाद्रविस्तद्वलतः शुभात्परे ॥' इति पाठो दृश्यते स एव टीकानुगुणो लिखितपुस्तकानुसारी चेति ज्ञेयम् ।