________________
मुहूर्तचिंतामणिः । [ क्षयाधिमासयोर्लक्षणं
नृपेक्षणमिति ॥ रवेरिति ल्यब्लोपे पंचमी, रविमारभ्येत्यर्थः । रवेः सूर्यस्य वीर्ये बले सति सूर्यवारे वा नृपेक्षणं राजदर्शनं विधेयम् । एवं चंद्रादावपि व्याख्येयम् । ततश्चंद्रे सर्वकृतिः सर्वकृत्यानि, भौमे संगरो युद्धं, बुधे शास्त्रमध्येतव्यमध्याप्यं वा, गुरौ विवाहः, शुक्रे गमो गमनं, शनी दीक्षणं यागादिदीक्षा विधेयेत्यर्थः । उक्तं च श्रीपतिना - 'रविर्नृपविलोकने सुरगुरुविवाहोत्सवे रणे धरणिनंदनो भृगुसुतः प्रयाणे बली । शनिश्च मखदीक्षणे सकलशास्त्रबोधे बुधः शशी सकलकर्मसु ध्रुवमुदाहृतः सूरिभिः ॥' वसिष्ठेनापि - 'राजालोकनसमये रविरार्यः करतलग्रहे सुबली । रणसमये धरणिसुतः प्रयाणसमये सितोऽतिबली ॥ दीक्षणसमयेऽर्कसुतः शशितनयो ज्ञानशिल्पविधौ । निखिलेष्वपि कार्येषु च चंद्रबलं मुख्यमखिलनृणाम् ॥' इति । एतान्यपि कार्याणि सबलग्रहवारे क्रियमाणानि सिध्यतीत्याह वसिष्ठः – 'बलप्रदस्य ग्रहवासरे यद्यच्चोपदिष्टं समुपैति सिद्धिम् । सुदुर्बलस्य ग्रह वासरे तत्प्रयत्नपूर्व त्वपि नैव साध्यम् ॥' इति । ग्रहेति लुप्तषष्ठीकं पृथक्पदं ग्रहस्येत्यर्थः । बलप्रदत्वदुर्बलत्वे गोचरप्रकरणोक्तविहितानुक्तस्थानवशेन ज्ञेये । तदाह श्रीपतिः - 'वारे ग्रहस्योपचयावहस्य कार्य यथोद्दिष्टमुपैति सिद्धिम् । भवेत्तदेवापचयावहस्य प्रयत्नतो निर्मितमप्यसाध्यम् ॥' इति ॥ अथेति । ताराबलतो विधुः शुभो ज्ञेयः । यदा चंद्रसंक्रमणं स्यात्तत्र ताराबलं चेत्स्यात्तदा सपाददिनद्वयं चंद्रोऽशुभोऽपि शुभः । तारादौष्ट्ये तु शुभोऽप्यशुभ इत्यर्थः । एवं विधोर्बलाद्रविः संक्रमणेऽशुभोऽपि मासपर्यंतं शुभः, शुभस्तु सुतरां समीचीन एव, चंद्रदौष्ट्ये तु शुभोऽप्यशुभ इत्यर्थः । परे भौमादयः संक्रांतिं चिकीर्षतः संतः तद्वलतः सूर्यबलादशुभा अपि शुभा ज्ञेयाः । स्वराशिभोगकालावधिरविदौष्ट्ये तु शुभा मप्यशुभा इत्यर्थः । यदाह कश्यपः - बलेन शीतांशुर्बलवांस्तद्वशाद्रविः । बली संक्रममाणस्य वशात्खेटा बलाधिकाः ॥ यादृशेनेंदुना भानोः संक्रांतिस्तादृशं फलम् । नरः प्राप्नोति तद्वाशेः शीतांशोः साध्वसाधुते ॥' इति । संक्रममाणस्य रवेरित्यध्याहारः । यत्तु दीपिकायाम् – 'याशेन शशांकेन ग्रहः संचरते नृणाम् । तादृशं फलमामोति शुभं वा यदि वाऽशुभम् ॥' इति चंद्रवशेनैवाखिलग्रह संबंधि शुभाशुभत्वमुक्तम् । तत्र ग्रह इत्येकवचननिर्देशाल्लिखितकश्यपवाक्यस्वरसाच्च सूर्य एव ग्रा नान्य इति तट्टीकाकारो व्याख्यत् । अन्यथा 'संचरेयुर्ब्रहा नृणाम्' इत्यवक्ष्यत् ॥ १९ ॥
- 'तारा
१३८
अथाधिमा सक्षयमासयोः संक्रांत्यधीनत्वात्तयोर्निर्णयः प्रस्तूयते, तत्र तलक्षणमुपजात्याह
-
स्पष्टार्कसंक्रांतिविहीन उक्तो मासोऽधिमासः क्षयमासकस्तु । द्विसंक्रमस्तत्र विभागयोः स्तस्तिथेर्हि मासौ प्रथमांत्य संज्ञौ ॥२०॥
स्पष्टार्केति ॥ शुक्लपक्षप्रतिपदादिदर्शातश्चांद्रो मासः स चेत्स्पष्टसूर्य