________________
क्षयमासे विहितकार्यादि] संक्रांतिप्रकरणम् ३ । संक्रांत्या विहीनो रहितो भवेत्तदाधिकमास उक्तः । उक्तं च ब्रह्मसिद्धांते'चांद्रो मासो ह्यसंक्रांतों मलमासः प्रकीर्तितः।" इति । तुर्विशेषे कदाचिच्छब्दापरपर्यायः । कदाचित्स चांद्रो मासो द्विसंक्रमः द्वौ संक्रमौ सूर्यसंक्रमौ यस्मिन्नसौ द्विसंक्रमः स्पष्टसूर्यसंक्रांतिद्वययुतः क्षयमास उक्तः । यदाह वसिष्ठः-'यस्मिन्दर्शस्यान्तादगेवापरं दर्शम् । उल्लंघ्य भवति भानोः संक्रांतिः सोऽधिमासः स्यात् ॥ आद्यंतदर्शयोर्मध्ये भानोरेवं तयोर्यदा। संक्रांतिद्वितयं स्याञ्चेश्यूनमासः स उच्यते ॥' एतौ चाधिमासक्षयमासौ स्पष्टमानेनैव ज्ञेयौ । तदाह कश्यपः-'यस्मिन्मासेऽर्कसंक्रांतिदर्शान्तात्प्राक् पुनः परम् । दर्शमुलंघ्य भवति स संसोऽधिमासकः ॥ आरभ्य शुक्लप्रतिपत्प्र. वेशात्संक्रमद्वयम् । आगामींदुक्षयस्यांतात्प्राङ्न्यूनाख्यस्त्वहर्पतिः। स्फुटाकेसंक्रमाद्विद्याम्न्यूनमासाधिमासकौ । मासौ न्यूनाधिकौ तौ तु सर्वकर्मबहिस्कृतौ ॥' इति । सिद्धांतशिरोमणावपि-असंक्रांतिमासोऽधिमासः स्फुटः स्थाद्विसंक्रांतिमासः क्षयाख्यः कदाचित्' इति । स्फुटः स्फुटेंदुमासः । स्फुटत्वमपि तत्रैव-'स्पष्टोऽधिमासः पतितोऽप्यलब्धो यदा यदा वाऽपतितोऽपि लब्धः । सैकैर्निरेकैः क्रमशोऽधिमासैस्तदा दिनौधः सुधिया प्रसाध्यः ॥' इति । इदमग्रे स्पष्टं व्याख्यास्यते। अत्राधिमासक्षयमासलक्षणप्रयोजनं नोक्तम् , माघप्रकरणे (श्लो०४७) 'वृद्धत्वास्तशिशुत्व इज्यसितयोन्यूनाधिमासे तथा' इत्यादिनोक्तत्वात् । क्षयमासे परः कश्चिद्विशेषो वक्तव्योऽस्ति, सोऽत्रैवाभिधातुमुचित इत्याह-तत्रति । तत्र क्षयमासे मासद्वयसंज्ञा शुक्ल-कृष्णपक्षभेदेन । तस्याः सप्रयोजनविषयकल्पनोच्यते । विभागयोरिति । तत्र क्षयमासे जातानां वर्धापने मृतानां श्राद्धे च तिथेर्विभागयोः पूर्वोत्तरदलयोः संबंधेन प्रथमांत्यसंज्ञौ मासौ स्तः स्याताम् । तिथिपूर्वार्धे जातानां मृतानां च पूर्वमासे वर्धापनं श्राद्धं च विधेयम् । तिथेरुत्तरार्धे जातानां मृतानां चोत्तरमासे वर्धापनं श्राद्धं च विधेयम् । तदुक्तम्-तिथ्यर्धे प्रथमे पूर्वोऽपरस्मिन्नपरस्तथा। मासाविति बुधैश्चित्यौ क्षयमासस्य मध्यगौ ॥' इति । एवं यथाश्रुतोऽर्थो व्याख्यातः । तत्र न्यूनाधिमासविषयको भूयान् विचारो वक्तव्योऽस्ति । सोऽस्मत्पितृचरणैस्तोडरानंदे कालशुद्धिसौख्ये सप्रपंचं निरूपितस्तत एवाऽवधार्यः । इह तु ग्रंथगौरवभयाप्रस्तुतविचारानहत्वाञ्च नामाभिरुक्त इति शिवम् ॥ इति श्रीदेवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ
संक्रांतिप्रकरणं समाप्तम् ॥३॥ स्पष्टार्थम् । 'ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने खलु संक्रमप्रकरणं संपूर्णतामध्यगात् ॥ १॥' इति श्रीविद्वहैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्त चिंतामणिटीकायां पीयूषधाराभिधायां संक्रांतिप्रकरणं समाप्तम् ॥ ३ ॥