________________
१४०
मुहूर्तचिंतामणिः।
[ग्रहाणां गोचरफलम्
गोचरप्रकरणम् ४।
. . विघ्नराजमभिवंद्य सिद्धिदं नीलकंठतनयेन धीमता ।
शिष्यमोहविनिवृत्तिकारणं गोचरप्रकरणं विविच्यते ॥ अथ गोचरप्रकरणं व्याख्यायते । तत्र जन्मराशितः प्रोक्तनिषिद्धस्थानस्थितेदानींतनग्रहवशेन शुभाशुभनिरूपणं गोचर इत्युच्यते । तत्र ग्रहाणां गोचरफलं शुभाशुभरूपमुपजातिकाद्वयेनेंद्रवज्रयोपजातिकापूर्वार्धेन चाहसूर्यो रसांत्ये खयुगेऽग्निनंदे शिवाक्षयोभॊमशनी तमश्च । रसांकयो भशरे गुणांत्ये चंद्रोऽम्बराब्धौ गुणनंदयोश्च ॥१॥ लाभाष्टमे चायशरे रसांये नगद्वये ज्ञो द्विशरेऽब्धिरामे । रसांकयोनागविधौ खनागे लाभव्यये देवगुरुः शराब्धौ ॥२॥ यंत्ये नवांशेऽद्रिगुणे शिवाही शुक्रः कुनागे द्विनगेऽग्निरूपे । वेदांबरे पंचनिधौ गजेषौ नंदेशयोभानुरसे शिवानौ ॥३॥ क्रमाच्छुभो विद्ध इति ग्रहः स्यापितुः सुतस्यात्र न वेधमाहुः ।
सूर्य इति ॥ लाभाष्टमे इति॥ यंत्ये इति॥क्रमादिति ॥ 'सूर्यो रसांत्ये' इत्यादौ 'सर्वो द्वंद्वो विभाषयकवद्भवति' इति समाहारद्वंद्व एकवचनांतः । शिवाक्षयोरित्यादावितरेतरयोगद्वंद्वः। अंबराब्धावित्यादिषु तु 'अनित्यमागमशासनम्' इति नुमभावो ज्ञेयः। एवं सर्वत्र व्याख्येयम् । अत्र चतुर्थश्लोकेनान्वयः। स्वजन्मराशेरिति पंचमश्लोकस्थपदमत्राध्याहार्यम् । तत्र सूर्यो ग्रहः स्वजन्मराशेः रसांत्ये क्रमाच्छुभो विद्धश्च स्यात् । सूर्यः स्वजन्मराशेः सकाशाद्यदि षष्ठस्थाने तदा शुभः, तत एव जन्मराशे दशस्थानस्थिताश्चेदन्ये ग्रहाः स्युस्तदा विद्धः । शुभोऽप्यशुभफलदाता। अत्र शनैश्चरस्य सूर्यपुत्रत्वात्तद्वेधो नांगीकार्यः। यतः पितुर्जनकस्य सुतसंबंधिनं वेधं नाहुः । सुतस्यापि पितृसंबंधिवेधं नाहुः । तथा खयुगे जन्मराशेर्दशमे सूर्यः शुभश्चतुर्थस्थानस्थिताश्चेदन्ये ग्रहाः शनिवर्जिताश्च स्युस्तदा विद्ध इत्येवं श्लोकत्रयं सम्यग्व्याख्येयं । तथा अग्निनंदे तृतीयनवमयोः शिवाक्षयोरेकादशपंचमयोः सूर्यः क्रमाच्छुभो विद्धश्च ज्ञेयः। उक्तं च नारदेन-'शुभोऽकों जन्मतस्यायदशषट्सुन विध्यते। जन्मतो नवपंचांबुव्ययगैार्किभिस्तदा ॥' अथ भौमेति । भौमशनी तमो राहुश्चैते ग्रहाः स्वजन्मराशितः रसांकयोः षष्ठनवमस्थानयोः लाभशरे एकादशपंचमयोः गुणांत्ये तृतीयद्वादशयोः क्रमाच्छुभा विद्धाश्चेत्यर्थः, परंतु शनेः सूर्यवेधो नास्तीत्युक्तमेवेति । यदाह वसिष्ठः-'त्रिषडेकादशसहितो धरासुतो रिःफधर्मसुतसंस्थैः । दिनकरतनयोऽपि शुभो न विध्यते खेचरैर्विनोष्णकरम् ॥' इति । शनिवद्राहु