________________
१४१
महाणां स्थानफलानि] गोचरप्रकरणम् ४ । ज्ञेय इति वचनादाहोरप्येवमेवैष विचारः । राहोरुपलक्षणत्वात्केतोरपि । उक्तं च शार्ङ्गधरेण-'राहुकेतुफलं सर्व मंदवत्कथितं बुधैः । वेधोऽपि तद्वदेवोह्यो वामवेधस्तथैव च ॥ अथ चंद्र इति । जन्मराशितः अंबराब्धौ दशमचतुर्थयोः गुणनंदयोस्तृतीयनवमयोः लामाष्टमे एकादशाष्टमयोः आद्यशरे प्रथमपंचमयोः रसांत्ये षष्ठद्वादशस्थानयोः नगद्वये सप्तमद्वितीययोः स्थानयोश्चंद्रः क्रमाच्छुभो विद्धश्च ज्ञेयः। परंतु चंद्रस्य बुधवेधो नास्ति । उक्तं च नारदेन-'विध्यते जन्मतो नेंदुचूनाद्यायारिखत्रिषु । स्वेष्वष्टांत्यांबुधर्मस्थैविबुधैर्जन्मतः शुभः ॥' इति ।ज्ञ इति। जन्मराशेः द्विशरे द्विपंचमयोः अब्धिरामें चतुर्थतृतीययोः रसांकयोः षष्ठनवमयोः नागविधौ अष्टमप्रथमयोः खनागे दशमाष्टमयोः लाभव्यये एकादशद्वादशयोः स्थानयोझै बुधः क्रमाच्छुभो विद्धश्च ज्ञेयः । परं त्वत्र चंद्रवेधो नास्ति । यदाह नारदः-'ज्ञः स्वाब्ध्यर्यष्टखायेषु जन्मतश्चेन्न विध्यते । सुतळ्यकाद्याष्टमांत्यसंस्थितैरिंदुजः शुभः॥' इति । देवगुरुरिति । जन्मराशितः शराब्धौ पंचमचतुर्थयोः यंत्ये द्वितीयद्वादशस्थानयोः नवांशे नवमदशमयोः अद्विगुणे सप्तमतृतीययोः शिवाही एकादशाष्टमयोः स्थानयोः देवगुरुव॒हस्पतिः क्रमाच्छुभो विद्धश्च ज्ञेयः । उक्तं च नारदेन–'जन्मतः स्वायगोध्यद्रिष्वंत्याष्टखजलत्रिभैः । जन्मराशेर्गुरुः श्रेष्ठो ग्रहैयदि न विध्यते ॥' इति । धीः पंचमं । शुक्र इति । जन्मराशेः कुनागे प्रथमाष्टमयोः द्विनगे द्विसप्तमयोः अग्निरूपे तृतीयप्रथमयोः वेदांबरे चतुर्थदशमयोः पंचनिधौ पंचमनवमयोः गजेषौ अष्टसंपंचमयोः नंदेशयोनवमैकादशयोः भानुरसे द्वादशषष्ठयोः शिवाग्नौ एकादशतृतीययोः स्थानयोः शुक्रः क्रमाच्छुभो विद्धश्च ज्ञेयः। यदाह नारद:-'जन्मभादासुताष्टांकात्यायेष्विष्टो न विध्यते । भार्गवो मृत्युसप्ताद्यखांकेष्वायारिपुत्रिगैः ॥' इति । मासुतेत्यभिविधावाङ् । 'सह तेनेत्यभिविधि'रिति । तेन प्रथमद्वितीयतृतीयचतुर्थपंचमानां ग्रहणमित्यर्थः । इदमत्राकृतम्-'सूर्यो रसांत्ये' इत्यादौ प्राक्पठितेषु स्थानेषु विद्यमानः स ग्रहः शुभदः। शुभस्थानव्यतिरिक्ताखिलस्थानेषु विद्यमानः स स ग्रहोऽशुभफलदाता। अत एवाह श्रीपतिः'सर्वे लाभगृहस्थितास्त्रिखरिपुष्वर्कः कुजार्की विषप्राप्ती व्याद्यखमन्मथारिषु शशी खास्तारिवज्यं भृगुः । धीधर्मास्तधनेषु वाक्पतिररिस्वाष्टांबुखस्थो बुधः श्रेष्ठो जन्मग्रहाद्धि गोचरविधौ विद्धो न चेत्स्याङ्कहैः ॥' इति । अर्थादेवानुक्तस्थानेष्वशुभः स स ग्रहः । अत्र ग्रहाणां विहितनिषिद्धस्थानफलानि विधिरत्नेस्थानं जन्मनि नाशयेद्दिनकरः कुर्याद्वितीये भयं दुश्चिक्ये श्रियमातनोति हिबुके मानक्षयं यच्छति । दैन्यं पंचमगः करोति रिपुहा षष्ठोऽर्थहा सप्तमे पीडामष्टमगः करोति परुषां कांतिक्षयं धर्मगः॥ कर्मसिद्धिजनकस्तुकर्मगो वित्तलाभकृदथायसंस्थितः। द्रव्यनाशजनितां महापदं यच्छति व्ययगतो दिवाकरः॥' -इति रविः । 'जन्मन्यन्नं दिशति हिमगुर्वित्तनाशं द्वितीये दद्याद्रव्यं सहजभवने कुक्षिरोगं चतुर्थे । कार्यभ्रंशं तनयगृहगो वित्तलाभं च षष्ठे छूने द्रव्यं युवतिसहितं मृत्युसंस्थोपमृत्युम् । नृपभयं कुरुते नवमः शशी दशमधामगतस्तु महत्सु