________________
१४२
मुहूर्तचिंतामणिः ।
[ ग्रहाणां स्थानफलानि
खम् । विविधमासगतः कुरुते धनं व्ययगतस्तु रुजं धनसंक्षयम् ॥' - इति चंद्रः । 'प्रथमगृहगः क्षोणीसूनुः करोत्यरिजं भयं क्षपयति धनं वित्तस्थाने तृतीयगतोऽर्थदः । अरिभयमतः पातालेऽर्थान्क्षिणोति हि पंचमो रिपुगृहगतः कुर्याद्वित्तं रुजं मदनस्थितः ॥ जनयति निधनस्थः शत्रुबाधां धराजो दिशति नवमसंस्थः कायपीडामतीव । शुभमपि दशमस्थो लाभगो भूरिलाभं व्ययभवनगतोऽसौ व्याध्यनर्थार्थनाशान् ॥ ' - इति भौमः । 'बुधः प्रथमगो भयं दिशति बंधमर्थ धने धनं रिपुभयान्वितं सहजगश्चतुर्थोऽर्थदः । अनिर्वृतिकरो भवेत्तनयगोऽरिगः स्थानदः करोति मदनस्थितो बहुविधां शरीरव्यथाम् ॥ अष्टमे शशिसुतो धनवृद्धिं धर्मगस्तु महतीं तनुपीडाम् । कर्मगः सुखमथायगतोऽर्थ द्वादशे भवति वित्तविनाशः ॥ ' - इति बुधः । ' भयं जन्मन्यार्यो जनयति धनस्थोऽर्थमतुलं तृतीयेऽङ्गक्लेशं दिशति च चतुर्थेऽर्थविलयम् । सुखं पुत्रस्थाने रुजमपि च कुर्यादरिगृहे गुरुर्द्यूने पूजां धननिचयनाशं च निधने ॥ धर्मगतो धनवृद्धिकरः स्यात्माप्तिहरो दशमेऽमरपूज्यः । स्थानधनानि ददाति स चाये द्वादशगस्तनुमानसपीडाम् ॥' - इति गुरुः । 'जन्मन्यरिक्षयकरो भृगुजोऽर्थदोऽर्थे दुश्चिक्यगः सुखकरो धनदश्चतुर्थः । स्यात्पुत्र दस्तनयगोऽरिगतोsरिवृद्धिं शोकप्रदो मदनगो निधनेऽर्थदाता ॥ जनयति विविधांबराणि धर्मे न सुखकरो दशमस्थितस्तु शुक्रः ॥ धननिचयकरः स लाभसंस्थो व्ययभवनेऽपि धनागमं करोति ॥ ' - इति शुक्रः । 'वित्तभ्रंशं रुगाप्तिं दिनकरतनये जन्मराशि प्रपन्ने वित्तक्लेशं द्वितीये धनहरणकृतं वित्तलाभं तृतीये । पाताले शत्रुवृद्धिं सुतभवनगतः पुत्रभृत्यार्थनाशं षष्ठे स्थानेऽर्थलाभं जनयति मदने दोषसंघात - मार्किः ॥ शरीरपीडां निधने च धर्मे धनक्षयं कर्मणि दौर्मनस्यम् । उपांत्यगो वित्तमनर्थमंत्ये शनिर्ददातीत्यवदद्वसिष्ठः ॥ ' - इति शनिः । ' राहुर्जन्मगतो भयं च कलहं सौभाग्यमानक्षयं वित्तभ्रंशमहासुखं नृपभयं चार्थक्षयं यच्छति । संतापं कलहं च वित्तमधिकं शीघ्रं विनाशं नृणां केतुस्तत्फलमेव राशिषु वदेच्छं संति गर्गादयः ॥ ' - इति राहुः । एतच्च शुभाशुभफलं ग्रहा ऋक्षसंधिगतास्तथा राशिसंधिगता एप्यराशेः फलं ददति, वक्रिणस्तु प्राप्राशेरित्याह कमलासनः — 'ऋक्षसंधिगताः खेटा राशिसंधिगता ग्रहाः । एष्यराशेः फलं दद्युर्व तद्विपरीतगम् ॥' इति । राशिग्रहणं नक्षत्रस्याप्युपलक्षणम् । वसिष्ठोऽपि - 'भवनांत्यगताश्च यदा धिष्ण्यांतगताश्च गगनचराः । दधुः परभवनफलं प्राग्भवनफलं च वक्रिता ये च ॥' इति । अस्यार्थः - ऋक्षं नक्षत्रं तस्य संधिः एकस्मान्निर्गत्यापरत्र संक्रमणं संधिरेवं राशिसंधिश्च । तत्र संधिज्ञानम् - 'देवद्व्यंकर्तवोऽष्टाष्टौ नाड्योंकाः खनृपाः क्रमात् । वर्ज्याः संक्रमणेऽर्कादेः प्रायोऽर्कस्थातिनिंदिताः ॥' इति विवाहप्रकरणे वक्ष्यति ग्रंथकृत् । संक्रमणकाल एव संधिकालः, सर्वेषां ग्रहाणां ' षष्टिघ्नबिंबं ग्रहभुक्तिभक्तम्' इत्यादिना भास्करेणोक्तत्वात् । तदेतदस्माभिः संक्रांतिप्रकरणे सप्रपंचं निरूपितं तत एवावधार्यम् । तत्र सूर्यादिग्रहाः देवद्वयंकेतिपद्येोक्तार्धघटिकोपलक्षिते नक्षत्रांते १ प्रीतिहर इति पाठः ।