________________
द्विविधवेधे मतद्वयम् ] गोचरप्रकरणम् ४ ।
१४३ राश्यते वा स्थिता जिगमिषितस्य नक्षत्रस्य राशेर्वा फलं प्रयच्छंति । वक्रिणस्तु पूर्वोक्तलक्षणोपलक्षिते नक्षत्रादौ राश्यादौ वा स्थिता भुक्तस्य नक्षत्रस्य राशेर्वा फलं ददति । तत्र भौमाद्या ग्रहाः वक्रातिचारयोः प्रामाशिफलं कियंति दिनानि प्रयच्छंतीत्याह वसिष्ठः-'दशदिवसं पंचदिनं त्रिपक्षमतिचारर्वक्रयोदंद्युः । भौमायाः पंच दिन प्रामाशिफलं च पंचमासांश्च ॥' इति । भौमाद्याः स्वगत्या यावता कालेन राशिं जहति न ततोऽल्पन्यूनाधिकभावेन स्पष्टगत्या राशि जहति स चारः । यदा स्वसमये एव राशिं जहति सोऽतिचारः । वक्र प्रसिद्धमेव ॥ १-३॥
अथ वामवेधं शुक्लपक्षे चंद्रबलं चोपजात्युत्तरार्धेनाहदुष्टोऽपि खेटो विपरीतवेधाच्छुभो द्विकोणे शुभदःसितेऽजः॥४॥
दुष्टोऽपीति ॥ दुष्टोऽपि स्वजन्मराशेः सकाशादनिष्टस्थानस्थितोऽपि खेटो ग्रहो विपरीतवेधात् वामवेधाच्छुभः शुभफलदाता।अयमर्थः-तेषु षष्ठदशमतृतीयैकादशेषु स्थितः सूर्यः शुभफलदाता तद्भिन्नान्यष्टौ स्थानान्यशुभान्येव । तत्र द्वादशचतुर्थनवमपंचमाख्येष्वनिष्टस्थानेषु स्थितः सूर्यस्तदैवानिष्टफलद: स्थायदा प्राक् पठितैः क्रमेण षष्ठादिस्थानस्थितैः शनिवर्जितैर्ग्रहैन विद्धः । यदा तु विद्धस्तदाऽशुभफलदोऽपि षष्ठादिस्थानशुभफलदातैव स्यात् । अन्येषु स्थानेषु प्रयमद्वितीयसप्तमाष्टमेषु स्थितः सूर्योऽनिष्फलदातैव । एवं चंद्रबुधयोः षडेव विरुद्धस्थानानि षडेव शुभस्थानानीति क्रमवेधवामवेधौ स्याताम् । भौमस्य तु त्रीण्येव शुभस्थानानीतराण्यशुभान्येव,तत्र नवमपंचमद्वादशस्थानस्थितभौमस्थाशुभस्य क्रमेण षष्ठैकादशतृतीयस्थानस्थैर्ग्रहैर्वामवेधेन शुभत्वमेव । अन्येष्वशुभस्थानेष्वशुभ एवं भौमः। एवं शनिराहुकेतवो ध्येयाः। गुरोरप्येवमेव । तत्र तु प्रथमषष्ठस्थानस्थो गुरुरशुभ एव । शुक्रस्य तु नवस्थानानां शुभत्वात्तद्यतिरिक्तानि त्रीणि षष्ठसप्तमदशमस्थानान्यशुभानि, तेषामेव क्रमेण द्वादशद्वितीयचतुर्थस्थानस्थग्रहजनितवामवेधेन शुभत्वमेव । अन्येषां तूत्तरपठितस्थानानां शुभत्वादेव न वामवेधविचारार्हत्वमिति परिच्छिन्नोऽर्थः । यदाह कश्यपः–'अपि विद्धो ग्रहः कश्चिन्न ददाति शुभं फलम् । वामवेधविधानेन त्वशुभोऽपि शुभप्रदः । अतस्तद्विविधं मूलं विचार्यैव फलं वदेत् ॥' इति । वसिष्ठोऽपि-वेधसमन्वितखचरा न नृणांप्रदिशंति सत्फलं किंचित् । व्यत्ययवेधविधानादप्यशुभास्ते शुभप्रदाः सततम् ॥' इति । व्यत्ययवेधः वामवेधः। द्विकोण इति । सिते शुक्लपक्षेऽनश्चंद्रो द्विकोणे द्वितीयनवमपंचमस्थानेषु स्थितः शुभदः । अत्रापि क्रमेण षष्ठाष्टमचतुर्थस्थानस्थितैर्बुधवर्जितैर्ग्रहैयदि न विद्ध इत्यपि ध्येयम् । उक्तं च नारदेन-'शुक्लपक्षे शुभश्चंद्रो द्वितीयनवपंचमैः । रिपुमृत्यंबुसंस्थै श्चेन्न विद्धो गगनेचरैः ॥' इति । यदि विध्यते तदाशुभफलद एव ॥४॥
मथ द्विविधवेधे मतद्वयमुपजात्याहखजन्मराशेरिह वेधमाहुरन्ये ग्रहाधिष्ठितराशितः सः। हिमाद्रिविंध्यांतर एव वेधो न सर्वदेशेष्विति कश्यपोक्तिः ॥५॥