________________
मुहूर्तचिंतामणिः । [ ग्रहणनक्षत्रादिफलानि
स्वजन्मेति ॥ इह द्विविधवेधविधावन्ये नारदादयः स्वजन्मराशेः सकाशाद्विविधं वेधं क्रामिकं वेधं वामवेधं चाहुः । तथा चोभयत्रापि नारदेन जन्मत इत्युक्तम् । अथ कश्यपादिमतमुच्यते । स पुनर्द्विविधोऽपि वेधो ग्रहाधिष्ठितराशितो ज्ञेयः । यथा सूर्यो जन्मराशेः सकाशात्षष्ठस्थितः शुभः स सूर्यः स्वाक्रांतराशितो द्वादशस्थानस्थितैः शनिवर्जितैर्ग्रहैर्न विद्ध:, तथा सूर्यो जन्मराशेर्द्वादशस्थोऽनिष्टः, स सूर्यः स्वाक्रांतराशिषष्ठस्थित्यैव शनिवर्जितैर्ग्रहैर्विद्धश्चेत्तदा शुभफलद इत्यर्थः । अथैतस्य द्विविधवेधस्य देशविशेषविषयत्वमुच्यते । हिमाद्रिविंध्यनामानौ पर्वतौ प्रदेशविशेषावस्थित्या प्रसिद्धौ, तयोरंतरालवर्तिन्येव देशे स द्विविधोऽपि वेधो ज्ञेयः, न सर्वदेशेषु । हिमाद्रिविंध्यांतरालबहिर्भूतसर्वदेशेषु द्विविधोऽपि वेधदोषो नास्तीति कश्यपस्य मुनेरुक्तिर्वचनमस्ति । यदाह कश्यपः - ' ज्ञातव्यं जन्मराशेस्तु निखिल यद्बलाबलम् । हिमाद्रिविन्ध्ययोर्मध्ये वेधजं तग्रहालयात् ॥' इति । वयं तु - 'सूर्यो रसान्त्ये' इति क्रामिको वेधो जन्मराशित एव ज्ञेयः, वामवेधस्तु अधिष्ठितराशितः - इति ब्रूमः । तदाह गुरुः - ' जन्मतः क्रमवेधः स्याद्वामवेधो ग्रहालयात् ॥' इदमपि हिमाद्रिविंध्यांतरविषयमेवेत्यन्ये । एतज्ज्ञानं दुर्घटमित्याहतुर्नारदकश्यपौ - 'अज्ञात्वा द्विविधं वेधं यो ग्रहज्ञो बलं वदेत् । स मृषावचनाभाषी हास्यं याति जनैः सदा ॥' इति । एवं प्रकारेण गोचरबलं ज्ञात्वा ग्रहदौष्ट्ये यात्रादिकं न कार्यम् । तदुक्तं श्रीपतिना - 'अकालचर्यां मृगयां च साहसं सुदूरयानं गजवाजिवाहनम् । गृहे परेषां गमनं विवर्जयेहेषु राजा विषमस्थितेषु हि ॥' अत एव तत्र ग्रहशान्तिरपि विधेया । यदाह नारदः - 'ग्रहेषु विषमस्थेषु शांतिं यत्वात्समाचरेत् । हानिवृद्धी ग्रहाधीने तस्मात्पूज्यतमा ग्रहाः ॥' इति । विपर्यये चानिष्टमित्याह वसिष्ठः – 'ग्रहेषु विषमस्थेषु यः शान्तिं न करोति सः । अर्थहानिं च मरणं चानुते सर्वसंकटम् ॥' इति । सा च शान्तिर्वसिष्ठसंहितोक्तप्रकारेण मत्स्यपुराणोक्तप्रकारेण वाऽनुष्ठेया । तत्र शान्तिकालमाह वसिष्ठः - 'मासि मास्ययने चैव चन्द्रसूर्यग्रहेऽपि वा । विषुवत्यर्कसंक्रांतौ व्यतीपाते दिनक्षये ॥' इति । कदाचिच्छांत्यविषयग्रहकृतशुभपापफलाभावोऽपि भवतीत्याह नारदः - 'सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः । निष्फलौ तौ ग्रहौ, स्वेन शत्रुणा चावलोकितः ॥ नीचराशिगतः स्वस्य शत्रुक्षेत्रगतोऽपि वा । शुभाशुभफलं नैव दद्यादस्तंगतोऽपि वा ॥' इत्येतादृशस्थले 'दुष्टत्वाभावादेव शान्त्यभावः निमित्तापाये नैमित्तिकस्याप्यपाय' इति न्यायात् । 'अनिमित्तकृता शांतिर्निमित्तायोपजायते' इति विपक्षबाधकस्मरणाच्चेति भावः ॥ ५ ॥
१४४
अथ गोचरप्रस्तावाग्रहणनक्षत्रफलं ग्रहणीयराहुकेतु गोचरफलं ग्रहणाशुभप्रतीकारं च दुष्ट ग्रहणदर्शननिषेधं च शार्दूलविक्रीडितेनाहजन्मर्थे निधनं ग्रहे जनिभतो घातः क्षतिः श्रीर्व्यथा चिंतासौख्यकलत्र दौःस्थ्यमृतयः स्युर्माननाशः सुखम् । लाभोsपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगो
दानं शांतिरथो ग्रहं त्वशुभदं नो वीक्ष्यमाहुः परे ॥ ६ ॥