SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ग्रहणीयनक्षत्रादिफलानि ] गोचरप्रकरणम् । . जन्मः इति ॥ अत्र ग्रहणीयनक्षत्रनिषेधस्तावदुच्यते । यस्य पुंसो जन्मनक्षत्रे ग्रहो ग्रहणं 'उपरागो ग्रहो राहुग्रस्ते त्विदौ च पूणि चे'त्यमरः। तस्मिन्ग्रहणे सति निधनं मृतिः स्यात् । यदाह वसिष्ठः-'यस्यैव जन्मनक्षत्रे अस्येते शशिभास्करौ । तस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः' इति । ज्योतिर्निबंधे फलप्रदीपे-'ग्रहणं जन्मनक्षत्रे जायते शशिसूर्ययोः। यस्य तस्याशुभं हानि?ररोगोऽपि संभवेदिति । ज्योतिःपराशरः-'यन्नक्षत्रगतो राहुर्घसते शशिभास्करौ । तजातानां भवेत्पीडा ये नराः शांतिवर्जिताः' इति ॥ भार्गवीये विशेषोऽपि-'यस्य राज्यस्य नक्षत्रे स्वर्भानुरुपरज्यते ।राज्यभंगं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥' इति ॥ राज्यस्य नक्षत्रे-अभिषेकनक्षत्रे। यदा कदाचिद्गाहुभुज्यमाननक्षत्रमुपरागनक्षत्रं चैकमेव तदाऽसंदिग्धः फलनिर्देशः । यदा तु नक्षत्रभेदस्तदोपरज्यमाननक्षत्रेणैव फलनिर्देशः। एवं राशिमेदेऽप्युपरज्यमानराशिनैव जायते। अस्मन्मते राहोर्दिग्देशकालावरणादिभेदाद्वेधकत्वमेव नास्ति। तदुक्तं सिद्धांतशिरोमणी-'दिग्देशकालावरणादिभेदे न वेधको राहुरिति बुवंति ।' एतदुपपत्तिर्भास्करेण स्वपथैरेव निरूपिता। पितृचरणैश्च तोडरानंदे राहुचारविलासे प्रपंचेनाभ्यधायि । परंतु राहुसाहित्यं विना ग्रहणानयनस्य शरसंस्कृतिमानैक्यखंडाद्यानयनविशिष्टस्यासुकरत्वादिति साहित्यविवक्षयैव राहोरुपरक्तत्वमुच्यते । अत एवोक्तं वराहेण-तस्मिन्काले सानिध्यमस्य तेनोपचर्यते राहुः । याम्योत्तरा शशिगतिर्गणिते ह्युपचर्यते तेन ॥' इति ॥अथ राशिकलमुच्यते-जनिभत इति । पंचम्यास्तसिल । जन्मराशेरारभ्य द्वादशसु राशिषु ग्रहणे सति क्रमादनुक्रमेण घातादिफलं भवति । यथा जन्मराशौ ग्रहणे सति घातः शरीरपीडा, द्वितीयराशौ क्षतिः द्रव्यनाशः, तृतीयराशौ श्रीः लक्ष्मीः, चतुर्थराशौ शरीरपीडा, पंचमराशौ चिंता पुत्रादीनां, षष्ठराशौ सौख्यं, सप्तमराशौ कलत्रदौःस्थ्यं स्त्रीमरणं, अष्टमराशौ मृतिमरणं, नवमराशौ मान. .नाशः, दशमराशौ सुखं, एकादशराशौ लाभः, द्वादशराशौ अपायो नाशः । मात्मन इति केचित् । दुव्यस्येत्यपरे । इदं च फलं षण्मासपर्यंतमित्यनुक्तमपि ध्येयम् । तदुत्तरं हि ग्रहणांतरसंभवात् । उक्तं दैवशमनोहरे-'घातं हानिमथ त्रियं जननभावस्तिं च चिंता क्रमात्सौख्यं दारवियोजनं च कुरुते व्याधि च मानक्षयम् । सिद्धिं लाभमपायमर्कशशिनोः षण्मासमध्ये ग्रहः' इति । क्वचित्तु स्थानान्येव शुभमध्यमाधमान्युक्तानि । तदुक्तं दैवक्षमनोहरे-'पासात्तृतीयोऽष्टमगश्चतुर्थस्तथायसंस्थः शुभदः स्वराशिः । नवांत्यधीसप्तमगश्च मध्योऽपूज्यो द्विषदगो दशमाद्यसंस्थः॥' इति । अत्र वाक्ये ग्रासराशेर्गणनोक्ता। कचित् स्वराशेरपि। तद्वाक्यं च-'विषददशायोपगतं नराणां शुभप्रदं स्थाद्रहणं रवींद्वोः। द्विसप्तनंदेषु च मध्यम स्याच्छेषेष्वनिष्टं मुनयो वदंति ॥' इति । अत्रावध्यपेक्षायां स्वजन्मराशेरित्यध्याहार्यमेव । अत्र ग्रहणीयराशेर्देशविशेषेणाशुभफलानि वराहसंहितायाममिहितानि । 'तथा च भफलं कूर्मोपदेशाद्वदेदिति वराहोक्तेअहणीयनक्षत्राशुभफलानि स्वरोदयाभिहितकर्मचक्रे पराशरसंहितायां चाभिहितानि, तथा मंडलभेदेनाप्यशुभफलानि. गर्गसंहितायामभिहितानि, तानि मु. चि० १३
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy