________________
११६
मुचितामणिः। [जन्मराशिग्रहणे शांतिः सर्वाण्यपि पितृवरणकृततोडरानंदेराहुचारविलासतोऽवधार्याणि । नात्रामस्तुतत्वाद लिख्यतेऽस्माभिः ॥ भयाशुभसूचकग्रहणप्रतीकारमाह-तदशुमेति । लस्य सूर्यचंद्रयोहणस्य संबंधि यदशुभं दुष्टफलं तस्य ध्वस्त्यै नाशाय जपः स्वर्णगोदानम्।जपो गायत्र्यादीनां मंत्राणां, स्वर्ण प्रसिद्धं, गौः प्रसिद्धा, भूमि; उपलक्षणत्वादन्येषां रूप्यादीनां यथाशक्ति दानं कार्यमिति शेषः । उक्तं च दैव
मनोहरे-'तद्दौःस्थ्यप्रणुदुक्तवजपविधिः स्वर्णादिदानं भवेदिति। ज्योतिनिबंधे कालनिर्णये-'यस्मिन राशौ तपनशशिनोः सैहिकेयावमर्दस्तद्राश्यानां भवति नियतं ग्रासपुंसां विनाशः । तस्माच्छांतिं मुनिमिरुदितां तत्तदालोकपूर्वा कुर्याद्दानादिभिरिह नृणां नाशमायात्यरिष्टम् ॥' इति । दानमपि तत्रैव-'सुवर्णनिर्मितं नाग सतिलं ताम्रभाजनम् । सदक्षिणं सवस्त्रं च श्रोत्रियाय निवेदयेत् ॥ सौवर्ण राजतं वापि बिंबं कृत्वा स्वशक्तितः । उपरागोद्भवक्लेशच्छिदे विप्राय कल्पयेत् ॥' दानमंत्रश्च-'तमोमय महाभीम सोमसूर्यविमर्दन । हेमनागप्रदानेन मम शांतिप्रदो भव' इति ॥ स्कंदपुराणे-'गोदानं भूमिदानं च स्वर्णदानं विशेषतः । ग्रहणक्लेशनाशाय दैवज्ञाय निवेदयेत् ॥' इति । किंचात्र देशविशेषः पात्रविशेषो द्रव्यविशेषश्च नापेक्षित इत्याह व्यासः-- 'सर्व गंगासम तोयं सर्वे ब्रह्मासमा द्विजाः । सर्वा भूमिः कुरुक्षेत्र ग्रहणे चंद्रसूर्ययोः ॥' इति । तत्र स्नानदानादिकं कस्मिन्काले कर्तव्यमित्याह माधवः'प्रस्यमाने भवेत्स्वानं ग्रस्ते होमो विधीयते । मुच्यमाने भवेद्दानं मुक्ते स्नानं विधीयते ॥' इति । तस्मिन्काले जपादिकमपि विधेयम् । 'सूर्येन्दुग्रहणं याव'त्तावत्कुर्याजपादिकम्' इति शिवरहस्योक्तेः । आदिशब्दात्सुरार्चनमपि । अत्र जन्मनक्षत्रजन्मराश्योहणे शांतिमाह वसिष्ठः-'यस्यैव जन्मनक्षन्ने अस्येते शशिभास्करौ। तस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः ॥ द्रव्यमंत्रविधानेन तस्य दोषापनुत्तये। उपरागस्नानविधि सम्यग्वक्ष्ये समासतः॥ मंडलं चतुरस्रं तु गोमयेन विलेपयेत् । ग्रहस्येशानदिग्भागे वर्णकैः समलंकृते ॥ स्थापयेच्चतुरः कुंभांस्तत्र तान्सागरात्मकान् । सर्ववेदात्मकान्स्मृत्वा सर्वतीर्थात्मकान्शुभान् ॥ पंचत्वपल्लवोशीरशतोषधिसमन्वितान् । मृत्तिकाहेमरत्नेभदंतगुग्गुलुचंदनैः॥ पंचगव्यामृतनाजत्स्फटिकैः सर्पपांबरैः । शंखकुंकुमतीर्थाम्बुरोचकैः पनकैर्युतान् ॥ चत्वारः प्राङ्मुखा विप्राः प्रार्थयेयुः पृथक् पृथक् ॥ आलिगैर्वारुणैः सूक्तैः स्वस्तिवाचनपूर्वकम् ॥ तिलहोमं चाहुतिभिः सहस्रं चाष्टसंयुतम् । एवं कृत्वा प्रयत्नेन स्नानकर्म समाचरेत् ॥ आमंत्र्य नवभिमत्रः कुंभान्संकल्पपूर्वकान् । एतानेव ततो मंत्रान्स्वर्णपट्टे च संलिखेत् ॥ कर्तुः शिरसि तं बध्वा चालिगैर्वेदमंत्रकैः । सुमंत्रितैः कुंभजलैः साप्य नीराजयेत्ततः ॥ दद्यात्पदं ग्रहशेभ्यः शुक्लमाल्यांबरः शुचिः । ऋत्विग्भ्यो दक्षिणां दद्याच्छिष्टेभ्यश्च स्वशक्तितः ॥ योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः । सहस्रनयनश्चंद्रग्रहपीडां व्यपोहतु ॥ मुखं यः सर्वदेवानां सप्ताचिरमितद्युतिः । चंद्रोपरागसंभूतामग्निः पीडां व्यपोहतु ॥ यः कर्मसाक्षी
१ सर्व भूमिसमं दानमित्येव पाठः प्रायो लिखितपुस्तकाद्यनुगुणः ।