________________
ग्रहणे नानदानादिविचारः] ' गोचरप्रकरणम् ।
१४७ लोकानां धर्मो महिषवाहनः । यमचंद्रोपरागोत्थग्रहपीडां व्यपोहतु ॥ रक्षोगणाधिपः साक्षात्प्रलयानलसंनिभः । खड्गव्यमोऽतिकायश्च रक्षःपीडां व्यपोहतु ॥ नागपाशधरो देवः सदा मकरवाहनः। वरुणोंऽबुपतिः साक्षात् ग्रहपीडां व्यपोहतु ॥ प्राणरूपो हि लोकानां सदा कृष्णमृगप्रियः । वायुश्चंद्रोपरागोत्यां पीडामत्र व्यपोहतु ॥ योऽसौ निधिपतिर्देवः खगशूलगदाधरः। चंद्रोपरागकलुषां पीडां चापि व्यपोहतु ॥ योऽसाविंदुधरो रुद्रः पिनाकी वृषवाहनः । चंद्रोपरागपापानि स नाशयतु शंकरः ॥ त्रैलोक्ये यानि भूतानि चराणि स्थावराणि च । ब्रह्मविष्ण्वकयुक्तानि तानि पापं दहंतु मे ॥ आमंत्रणे लेखनोक्तास्त्वेते वै नवमंत्रकाः । अर्चयित्वा पितॄन्देवान्गोभूस्वर्णाबरादिभिः ॥ अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् । न तस्य ग्रहपीडा स्याद्यानबंधुधनक्षयः ॥ परमां सिद्धिमानोति पुनरावृत्तिदुर्लभाम् । सूर्यग्रहेऽप्येवमेव सूर्यनाना विधीयते ॥' इति वृद्धवसिष्ठप्रोक्ता ग्रहणशांतिः॥ अत्र यद्यपि 'जन्मराशौ धनक्षय' इत्युक्तं तत्र च दोषाल्पताप्रतिभानेन शांतेरकर्तव्यता प्रतीयते, तथापि प्राग्विलिखितबहुवचस्सु विरुद्धफलाभिधानादवश्यं जन्मराशावपि ग्रहणे शांतिर्विधेया । उभयानुवादेन शायभिधानात् । उक्तं च मत्स्यपुराणे-'यस्य राशि समासाद्य भवेद्रहणसंभवः । तस्य शांतिं प्रवक्ष्यामि मंत्रौषधिविधानतः ॥' इति । अतो जन्मनक्षत्रजन्मराशिव्यतिरिक्त विरुद्ध ग्रहणे शांतिन विधेया, वचनाभावात् ; किंतु स्वविभवरूपं दानादि विधेयमिति तात्पर्यार्थः । सूर्यग्रहेऽप्येवमेवेति-'योऽसौ वज्रधरो देव आदित्वानां प्रभुर्मतः । सहस्रनयनः सूर्यग्रहपीडां व्यपोहतु ॥' इत्युक्तदिशा चंद्रपदस्थाने सूर्यपदं पूर्वमंत्रश्लोकेषु प्रयोज्यमित्यर्थः ॥ अथेदं ग्रहणं स्थानविशेषेणानिष्टजनकमित्युक्तं तत्र किं ग्रहणं दृष्टमदृष्टमित्याह-अथो इति । उक्तं च-'जन्मसप्ताष्टरिःफांकदशमस्थे निशाकरे । दृष्टोऽनिष्टप्रदो राहुर्जन्म: निध. नेऽपि च ॥' इति । जन्मक्षं जन्मनक्षत्रं, निधनं वधतारा सप्तमी । अत्र दृष्ट इति पदश्रवणाद्दुष्ट स्थानावस्थितो राहुः दृष्टश्चेत् पुंसां दोषजनकः । यदा तु मेघायावरणेन गृहमध्यावस्थित्या वा चक्षुष्मतोऽपिपुंसो राहुदर्शनाभावेन सत्यप्यरिष्टेऽरिष्टं नास्ति इति । एवं चांधस्य यत्र कुत्राप्यवस्थितस्य गृहाबहिर्गतुमशक्कुवतो वृद्धातुरादेश्च सर्वथाऽरिष्टं स्नानादि वा नास्ति इति तेषां नाशयः ॥ अत्रेदं चिंत्यते-किमिदं ग्रहणं दृष्टमेव स्नानाद्यधिकारसंपादकम् , उत मेघाद्यावर
नादृष्टमपि ? कुतः ? उभयथा वचनोपलब्धेः । तथा हि-वृद्धवसिष्ठः'सर्वेषामेव वर्णानां सूतकं राहुदर्शने । सचैलं तु भवेत्नानं सूतकानं विव. जयेत् ॥' इति । षट्त्रिंशन्मते-'सर्वेषामेव वर्णानां सूतकं राहुदर्शने। स्नात्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेत् ॥' इति । शृतं-पकम् । 'शृतं पाके' इति निपातनात् । यद्यपि तस्मिन् सूत्रे क्षीरहविषोरेवेति महाभाष्यकृतोक्तम् , तथापि महामुनिप्रयोगादन्यस्मिन्नपि द्रव्य ओदनादौ पाकसामान्यवदृत्तिः । विष्णुः-'राहुदर्शनदत्तं हि श्राद्धमाचंगतारकम्' इति । शातातपः-'मान