________________
। मुहूर्तचिंतामणिः। [राहुदर्शनशब्दनिरुक्तिः दानतपःश्राद्धमनंतं राहुदर्शने' इति । एवमादीनि वांसि दर्शनपदसहितान्युपलभ्यन्ते । अन्यथापि वसिष्ठः-'ग्रहणे संक्रमे वापि न सायाद्यदि मानवः । सप्तजन्मसु कुष्ठी स्याहुःखभागी च जायते ॥' इति । लिङ्गपुराणेऽपि-'चंद्रसूर्यग्रहे स्नायात्सूतके मृतकेऽपि च । अस्नायी मृत्युमामोति स्नायी पापं न विंदति ॥' इति । एवमादीनि दर्शनपदानाक्रांतानि वचांस्युपलभ्यते। तत्र दर्शनवादिन आहुः-दर्शनपदानाक्रांतेषु वचस्सु ग्रहणस्य निमित्तत्वं च प्रतिपाद्यते, 'ग्रहणे संक्रमे वापि' इति निमित्तसप्तम्युपलंभात् । ज्ञातमेव च ग्रहणं स्नानदानादिकं प्रति निमित्तं भवति, तज्ज्ञानापेक्षायां च राहुदर्शनपदोपेतवचनालोचनेन चाक्षुषज्ञानस्यैव निमित्तत्वम् । यतश्चाक्षुष एव ज्ञाने दर्शनमुख्यत्वं, ज्योतिःशास्त्रीयज्ञाने तु लक्षणाप्रसक्तिः । एवं सति मेघाच्छन्नग्रहणदिवसजातचंद्रग्रहणरात्रिभवसूर्यग्रहणेषु न सानदानादावधिकारः । तस्माद्रहणं दृष्ट्वा स्नानदानादिकं विधेयमित्यर्थः संपन्नो भवति । नैतत्सहृदयहृदयंगमम् । यतो वचनेषु राहुदर्शन-ग्रहपदयोः समानार्थकता नास्ति । कथम् ? 'अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । शीघ्रमंदोच्चपाताख्या ग्रहाणां गतिहेतवः ॥' इति सूर्यसिद्धांते चंद्रादिग्रहपातानामदृश्यतोक्ता । पातो राहुश्च पर्यायः । उक्तं च तत्रैव-'दक्षिणोत्तरयोरेवं पातो राहुश्च रहसा। विक्षिपत्येष विक्षेपश्चंद्रादीनामपक्रमात् ॥' इति । केशवाणाप्युक्तम्'पर्यायेण ननु राहुपातयो मनी विदधुरेव तांत्रिकाः ॥' इति । अतो राहुदर्शनमेव गगनकुसुमायमानम् । ननु ग्रहणे सूर्यचंद्रयोश्छादको राहुद्देश्यत एव । अत एव 'राहुप्रस्ते निशाकरे' इत्यादिपुराणोक्तिः साधीयसीति चेन । 'भानोर्भार्घमहीच्छाया तत्तुल्येऽर्कसमेऽपि वा । शशांकपाते ग्रहणं कियदागाधिकोनके ॥' इत्युपक्रम्य,-'छादको भास्करस्येंदुरधःस्थो घनवद्भवेत् । भूच्छायां प्राङ्मुखश्चंद्रो विशत्यस्य भवेदसौ ॥' इति । असौ भूच्छायाऽस्य चंद्रस्य च्छादको भवेदित्यर्थः । इति सूर्यसिद्धांतोक्तः स्पष्ट एव छायाच्छादकभावोऽभिहितः । पुराणेन सह विरोधपरिहारस्तु-'दिग्देशकालावरणादिभेदान्न च्छादको राहुरिति ब्रुवंति । यन्मानिनः केवलगोलविद्यां स्वसंहितावेदपुराणवाक्यम् ॥' इति पूर्वपक्षं विधाय ततो 'राहुः कुभामंडलगः शशांक शशांकगच्छादयतीनबिंबम् । तमोमयः शंभुवरप्रदानात् सर्वागमानामविरुद्धमेतत्' इति भास्कराचा रेवोक्तः । तस्मिन्काले सान्निध्यमस्य तेनोपचर्यते राहुरिति वराहेणाप्युक्तम् । तस्मादाहुदर्शनं तु नास्त्येव । भवन्मते दर्शनं चाक्षुषमेवोच्यते नान्यत् । एवं सति राहोर्दर्शनं राहुदर्शनमिति तत्पुरुषोऽनुपपन्नः । अथ तु समीपलक्षकदर्शनशब्दमंगीकृत्य चेदर्थः क्रियते, तथापि यस्य स्वरूपमेवानुपपन्नं तस्य सामीप्यं तु सुतरामिति बालैरप्येतद्बुध्यते। तस्माद्दर्शनशब्देन नोपरागो लक्ष्यते, राहुदर्शनं राहूपरागस्तस्मिन् राहुदर्शने इति । अयमर्थः-राहु म पातः, तस्य तत्संबंधेन दर्शनमुपराग इति । नच राहुरेव लक्षणयोपरागपरस्तस्य दर्शनमिति पूर्वपक्षाभिमतार्थसिद्धिरिति वाच्यम्।