________________
ग्रहणे पुण्यकालः] गोचरप्रकरणम् ४ ।
१४९ लक्षणा त्वर्थातरासंभषे सति वक्तव्या, 'अत्यंतादर्शनं राहोस्तथा चात्यतदर्शने । प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैः ॥' इति विष्णुधर्मोत्तरादिवाक्येषु पदांतरासन्निधानादाहुशब्देनोपरागो लक्ष्यते । इह च राहोः पातनामकं ग्रहगतिहेतुरूपमर्थातरमस्तीत्यतो राहुदर्शन-ग्रहपदयोः समानार्थकताऽस्तीत्येव सिद्धमिति प्रागुक्तानां सर्ववचसां ग्रहणे नायादित्येव वाक्यार्थः फलितो भवति । किंच ग्रहणे चाक्षुषमेव दर्शनं विवक्षितं चेत्तदा 'नेक्षेतोद्यतमादित्यं नास्तं यन्तं कथंचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥' इति मनतोपरक्तसूर्यदर्शननिषेधो नोपपद्येत । नन्वयं निषेधः सूर्योपरागदर्शन एव, न चंद्रोपराग इति चेन्न । 'नाशुची राहुतारक' इत्यत्र राहुमात्रग्रहणाद्रविचंद्रोपरागद्वयविषयकोपसंहारस्य युक्तत्वात् । अशुचे रजस्वलापतितादेग्रहणं तु दोषाधिक्यसूचनार्थम् । यथा श्राद्ध कुलीनानां ब्राह्मणानामामंत्रणे उक्ते अन्येषां निषिद्धत्वादेव कुंडगोलकब्राह्मणानामामंत्रणेऽसिद्धे पुनर्निषेधो दोषाधिक्यार्थमेव । 'भास्करालोकनाश्लीलपरिवादं विवर्जयेत्' इति स्मृतिवाक्यस्य तूद्यदस्तगाम्यादित्यदर्शनपरतया व्याख्यानस्य युक्तत्वात् । केचित्तु दर्शनादर्शनविषयकयोर्विध्योस्तुल्यबलत्वात्सकृद् दृष्ट्वा स्नायादिति व्याचख्युः । तञ्चित्यम् । 'जन्मसप्ताष्टरिःफांक-' इत्यादिना सामान्यतो निषिद्धस्योपरक्तदर्शनस्य पुनर्निषेधात् । प्रागुक्तदिशा राहुदर्शनपदस्य राहूपरागलक्षकत्वेन तुल्यबलत्वाभावाच्च । तस्मादुपरक्तयोः सूर्याचंद्रमसोर्यस्य कस्यापि दर्शननिषेधसत्त्वात् ग्रहणे च स्नानदानाद्युक्तेस्तज्ज्ञानं च ज्योतिःशास्त्रैकदेशगणितग्रंथेभ्यो बुद्धा तस्मिन्काले. स्नानदानादि विधेयमिति सिद्धांतः।अत एव मेघाद्यावृतेऽप्युपरागे स्नानादिकं विधेयमेव । ननु गणितग्रंथाधीनमुपरागज्ञानमेव चेत्स्नानादिप्रयोजकं तदा रात्रौ सूर्यग्रहणस्य दिवा चंद्गग्रहणस्य जायमानत्वात्तदापि नानादिकं स्यात् । सत्यमेवैतत् । वचनात्त तथा न क्रियते । तदुक्तं निगमे–'सूर्यग्रहो यदा रात्री दिवा चंद्रग्रहो यदि । तत्र स्नानं न कुर्वीत दद्यादानं न च क्वचित् ॥' इति । अत एव तादृशे ग्रहणे दृष्टेऽपि दौष्ट्यं नास्तीत्यपि सूच्यते । न चैतदभागिप्रतिषेधादित्यधिकरणेन पृथिव्यामग्निश्चेतव्यो नांतरिक्षे न दिवीत्युदाहृतवाक्यवन्नित्यानुवाद इति वाच्यम् । विधिशेषत्वाभावात् । यथा पृथिव्यामग्निर्न चेतव्य इति निषेधविधिरस्ति तत्र नांतरिक्षे न दिवीति दृष्टांतो निषेधविधेः शेषस्तथात्र सूर्यग्रहो यदा रानावित्येतद्वाक्यं कस्य विधेः शेष इति । किंचैवं ब्रुवतस्तव मतेऽनर्थकमेव वाक्यं स्यात् ? नचैतधुक्तम् । अत एवाह जाबालि:-'संक्रांतेः पुण्यकालस्तु षोडशोभयतः कलाः । चंद्रसूर्योपरागे तु यावद्दर्शनगोचरः ॥' इति । ग्रस्तस्यास्तमनपर्यंत दर्शनगोचरत्वात्तावान्कालः पुण्यकालो भवतीति माधवो व्याचख्यौ । तदुक्तं विश्वरूपनिर्णये-'दिवा चंद्रग्रहो रात्रौ सूर्यपर्व न पुण्यदम् । संधिस्थं पुण्यवज्ज्ञेयं यावद्दर्शनगोचरम् ॥' इति । अन्ये तु मेघावृते तदनावृते. चोपरागे गणितागतस्थितिघटिकाः पुण्यकाल इत्याहुः ।