________________
१५०
मुहूर्तचिंतामणिः ।
[ चंद्रबले वैशिष्ट्यं
1
दर्शने त्वेवंविधे निर्णये भूजवृत्तादुपरिस्थितत्वमेव विवक्षितम् । तदाह वसिष्ठः स्वसिद्धांते - 'सूर्यस्यादर्शनं रात्रिर्दिनं तद्दर्शनात्मकम् । भूजवृत्तादुपरि च स्थितोsssदर्शनं स्मृतम् ॥' इति । अर्क इत्युपलक्षणं चंद्रादिग्रह-. नक्षत्राणाम् । आकाशप्रदेशः समंताद्भूसंलग्न इव यत्र भाति स प्रदेशो भूजशब्दवाच्यः । अत एव विष्णुधर्मोत्तरे - 'अहोरात्रं न भोक्तव्यं सूर्यचंद्रग्रहो यदा । मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततः परम् ॥' इति । ग्रस्तास्ते भृगुः - 'प्रस्तावेवास्तमानं तु रवींदू प्रामुतो यदि । तयोः परेद्युरुदये स्नात्वाभ्यवहरेन्नरः ॥' इत्यनयोर्वाक्ययोर्दर्शनोदयशब्दौ भूजवृत्तोपरिस्थितत्वोपलक्षकौ । अन्यथा मेघाद्यावरणेन परदिवसेऽपि दर्शनाभावे उपवासः प्रसज्येत । तथा च यत्र स्पर्शकाले ग्रहणं दृष्ट्वा स्नानं विहितं तत्रांतरा मेघाद्यावरणात्सूर्यचंद्रयोर्दर्शनाभावो दिवसद्वयं त्रयं वा स्यात्तत्राप्युपवासप्रसंग: । न च सर्वे शिष्टास्तथाचरंति । तस्माददर्शनार्थमभ्युपेत्य शास्त्रीयज्ञानपरतैव कर्तव्या । तस्यां च सत्यां पूर्वोक्तरीत्या च मेघानावृतेऽप्युपरागे तमदृद्वैव प्रशस्तचक्षुषा अंधेन च गंतुमशक्नुवद्भिर्वृद्धातुरैश्च स्नानदानादिकं विधेयमिति - फलितोऽर्थः । अत एव भागवते रविग्रहे कुरुक्षेत्रे स्नानाद्यर्थं मिलितानां पांडवीयलोकानां मध्ये धृतराष्ट्रोऽपि परिगणित इति, शिष्टाचारोऽप्यस्ति । एवं च सत्यरिष्टजनकत्वाभावेऽपि ग्रहणदर्शननिषेधः किं पुनररिष्टजनकत्वे । तस्मात् 'जन्मशशांके'त्यादिपद्यं निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यम् । प्रत्यक्षोपलभ्यमानवसिष्ठमत्स्यपुराणादिवाक्येषु दर्शनपदाभावाच्च । अत एव मूले परे इति पदं प्रयुक्तम् । शांतिस्तु दर्शनाभावेऽपि विधातुमुचिता, यतोऽरिष्टयोगानां स्वरूपसतामेवारिष्टजनकत्वमस्ति । अन्यथा ग्रहवैषम्योत्पातादिसूचिताऽरिष्टनिवृत्तिहेतु: शांतिर्दर्शनाभावे न विधीयेतेत्यलमतिप्रसक्तानुप्रसक्तेन ॥ ६ ॥ अथ चंद्रबले विशेषमनुष्टुभाह
पापांतः पापयुग्यूने पापाच्चन्द्रः शुभोऽप्यसन् ।
शुभांशे चाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सन् ॥ ७ ॥ पापांत इति । शुभोऽपि शुभफलदोऽपि चंद्रः पापांतः पापयुक् द्यूने । कोऽर्थः ? पापद्वयमध्यवर्ती पापग्रहयुक्तः पापात् द्यूने सप्तमस्थाने वर्तमानश्चेत्स्यात्तदाभसन्नशुभ एव । यदा त्वशुभोऽप्यशुभफलदातापि चंद्रः शुभांशे सौम्यग्रहनवांशे स्यादथवाऽधिमित्रस्य नवांशे स्यात्तथा गुरुणा बृहस्पतिना दृष्टः सन् शुभफल - दाता भवेत् । यदाह राजमार्तड : - 'पापग्रहेण संयुक्तः पापजामित्रसंस्थितः । पापद्वयान्तरगतः शुभोऽप्यशुभदः शशी ॥ भनिष्टस्थानसंस्थोऽपि भवेच्छुभ-करः शशी । सौम्यभागेऽधिमित्रांशे गुरुणा वापि वीक्षिते ॥' इति ॥ ७ ॥ अथ चन्द्रबलस्य विधानांतरमनुष्टुभाह
सितासितादौ सदुष्टे चन्द्रे पक्षी शुभावुभौ ।
व्यत्यासे चाशुभौ प्रोक्तौ संकटेऽब्नबलं त्विदम् ॥ ८ ॥ सितेति ॥ सितादौ शुक्लपक्षप्रतिपदि समीचीने चंद्रे सति संपूर्णः शुक्ल