________________
१५१
महदीध्ये नवरत्नधारण ] गोचरप्रकरणम् । पक्षः शुभः । असितादौ कृष्णपक्षप्रतिपदि चंद्रे दुष्टे सति संपूर्णः कृष्णपक्षः शुभः। व्यत्यासे च पूर्वोक्तादर्थाद्वैपरीत्ये द्वावपि पक्षावनिष्टौ। यदा शुक्लपक्षप्रतिपदि चंद्रो दुष्टश्वेत्तदा सकलः शुक्लपक्षोऽनिष्टः। यदा कृष्णपक्षप्रतिपदि चंद्रः शुभश्चेत्तदा संपूर्णः कृष्णपक्षोऽनिष्ट इति । उक्तं च रत्नमालायाम्-'वलक्षपक्षादिगते हिमांशौ शुभे शुभं पक्षमुदाहरति । सितेतरादा बशुभे शुभं च पक्षावनिष्टौ भवतोऽन्यथा तौ ॥' कश्यपोऽपि-'मासादींदुः शुभो यस्य तत्पक्षस्तस्य शोभनः । कृष्णादींदौ त्वशुभदे शुभं तब्यत्ययेऽन्यथा ॥' इति । इदमेतादृशमजबलं, चंद्रबलं तु संकटे विवाहयात्रादाववश्यकर्तव्ये तात्कालिकचंद्रबलाभावे एव ग्राह्यं नान्यथेत्यर्थः ॥ ८ ॥
अथ ग्रहाणां दौष्टयपरिहारपूर्वकं तुष्टिसंपादनार्थ नवरत्नसमुदायधारणं मालिन्याहवजं शुक्रेऽब्जे सुमुक्ता प्रवालं भौमेगौ गोमेदमाकौ सुनीलम् । केतौ वैडूर्य गुरौ पुष्पकं ज्ञे पाचिः प्रामाणिक्यमर्के तु मध्ये ॥९॥
वजं शुक्र इति ॥ भत्रैका सुवर्णमुद्रिकां कृत्वा तत्र दृश्यभागे वर्तुलाकारे नवधा विभक्ते प्रागादिक्रमेण नवरत्नानि दृढं निधेयानि । तत्र प्रागिति पंचम्यन्तमव्ययम् । पंचमी चेयं ल्यब्लोपे । अतः प्रागादिदिक्षु इत्ययमों जातः । तत्र शुक्रप्रीतये पूर्वस्यां दिशि वज्रकं हीरकं निधेयम् । एवं चंद्रप्रीत्यर्थ शोभनं मुक्ताफलमाग्नेय्याम् । भौमप्रीत्यर्थं प्रवालं दक्षिणस्याम् । अगौ गहुप्रीत्यर्थ गोमेदं नैर्ऋत्याम् । आकौं शनिप्रीतये शोभनं नीलं पश्चिमान याम् । केतुप्रीतये वैडूर्य वायव्याम् । गुरुप्रीतये पुष्पकं पुष्परागं उत्तरसाम् । बुधप्रीतये पाचिः गरुडपाचिरैशान्याम् । सूर्यप्रीतये माणिक्यं मध्यम कोष्ठे इति ॥ ९॥ .. अथ सति द्रव्यसामर्थे नवरत्रसमुदायधारणस्य शक्यत्वात्तदुक्त्वेदानीमसति व्यसामर्थ्य यगृहकृतं दौष्ट्यं तद्हरनधारणमिंद्रवज्रयाहमाणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं पुष्पकवज्रनीलम् । गोमेदवैडूर्यकमर्कतः स्यू रत्नान्यथो ज्ञस्य मुदे सुवर्णम् ॥१०॥
माणिक्येति ॥ सूर्यप्रीत्यर्थ माणिक्यं धार्य, एवं चंद्रस्य मुक्ताफलं, भौमस्य विद्रुमं, बुधस्य गारुस्मतं गरुडपाचिः, गुरोः पुष्पकं पुष्परागः, शुक्रस्य वज्रं, अनेर्नीलं, 'लहसुनिया' इति कान्यकुब्जभाषयाहुः ।राहोर्गोमेदं, केतोवैडूर्यम् ; इत्येवमर्कतोऽर्कादीनां ग्रहाणां रत्नानि धार्याणि स्युः । तत्र यगृहकृतं दौष्टयं तस्य ग्रहस्य तुष्ट्यै तगलं धार्यमित्यर्थः । यदाह कश्यपः-'सूर्यादीनां च संतुष्ट्यै माणिक्यं मौक्तिकं तथा । सुविद्रुमं मरकतं पुष्परागं च वज्रकम् ॥ नीलगोमेदवैडूर्य धार्य स्वस्वदृढक्रमात् ॥' अथो ज्ञस्य मुदे सुवर्णमित्यस्याग्रिमलोकेन संबंधः ॥ १०॥