________________
१५२
मुहूर्तचिंतामणिः। ताराणां बलसंज्ञादि __अथ महामूल्यरत्नधारणे यस्य सामर्थ्याभावस्तदर्थमल्पमूल्यानि रवानि ताराबलं च शालिन्याहधार्य लाजावर्तकं राहुकेत्वो रौप्यं शुक्रेद्वोश्च मुक्ता गुरोस्तु । लोहं मंदस्यारभान्वोः प्रवालं ताराजन्मांत्रिरावृत्तितः स्यात् ११
धार्यमिति ॥ अथो ज्ञस्य बुधस्य मुदे संतोषार्थ सुवर्ण यथाशक्ति धार्य, राहुकेत्वोः प्रीत्यै लाजावर्तकं मणिविशेषो धार्यः, एवं शुक्रेद्वोस्तुष्टयै रौप्यं, गुरोस्तुष्टयै मुक्ता, मंदस्य शनेस्तुष्टयै लोहं, भारभान्वोमंगलसूर्ययोः प्रीत्यै प्रवालं धार्यम् । उक्तं च श्रीपतिना-'धार्य तुष्ट्यै विद्रुमं भौमभान्वो रूप्यं शुक्रंदोश्च हेमेंदुजस्य । मुक्ता सूरेलॊहमर्कात्मजस्य लाजावर्तः कीर्तितः शेषयोश्च ॥' इति । सूरेः सुरगुरोः। शेषयोः राहुकेत्वोः। दीपिकाकारस्तु औषधीमूलानि धार्याणीत्याह-'मूलं धार्य त्रिशूल्याः सवितरि विगुणे क्षीरिकामूलमिंदौ जिह्वाहेभूमिपुत्रे रजनिकरसुते वृद्धदारोश्च मूलम् । भाी जीवेऽथ शुक्र भवति शुभकर सिंहपुच्छस्य मूलं विच्छोलं (!) चार्कपुत्रे तमसि मलयजं केतुदोषेऽश्वगंधम् ॥' इति । त्रिशूली-बिल्वः, क्षीरिका-क्षीरिणी, जिह्वाहिः=नागजिह्वा, वृद्धदारु: विधारः, भाङ्गी प्रसिद्धा, सिंहपुच्छं-वाघोटं, 'चरिवार' इति मध्यदेशभाषया प्रसिद्धम् , मलयज-चंदनं, अश्वगन्धं प्रसिद्धं, एतदोषधीमूलधारणं सर्वथा रनधारणाशक्ती वेदितव्यम् । तारेति । यद्दिने ताराबलमस्ति वा न वेति विचारश्चिकीर्षितस्तद्दिने या तारा सा जन्माजन्मनक्षत्रा त्रिरावृत्तितः पुनःपुनरावृत्तित्रयेण गणनीया स्यात् । त्रिरिति 'द्वित्रिचतुर्य: सुच्' इति सुजतमव्ययम् । स्वजन्मनक्षत्रादिननक्षत्रे गणिते नवभिभक्त तिस्त्र भावृत्तयो भवंत्यवशिष्टतारया शुभमशुभं च वाच्यमिति फलितोऽर्थः ॥११॥
अथ शेषक्रमेण सफलास्तारासंज्ञा अनुष्टुभाह- जन्माख्यसंपद्विपदः क्षेमप्रत्यरिसाधकाः ।।
वधमैत्रातिमैत्राः स्युस्तारा नामसदृक्फलाः ॥ १२ ॥ . जन्माख्येति ॥ स्पष्टार्थमिदं पद्यम् । यदाह नारदः-जन्मसंपद्विपक्षेमप्रत्यरिः साधको वधः । मित्रं परममित्रं तु जन्मभाच्च पुनः पुनः ॥' इति । एवं तारा गणनीया इति शेषः। तत्र तृतीयापंचमीसप्तम्यस्तारा निषिद्धाः, अनिष्टफलश्रवणात् । अर्थादन्याः समीचीनाः, समीचीनफलश्रवणात् । उक्तं च-'जन्मतारा द्वितीया च षष्ठी चैव चतुर्थिका । अष्टमी नवमी चैव षद स्युस्ताराः शुभावहाः ॥' इति । जन्मनक्षत्रं तु कार्यविशेषे गृहीतं प्रतिषिद्धं च तच्चाग्रे निर्णेष्यते । तदिदं ताराबलं कृष्णपक्षविषयं नतूभयपक्षसाधारणम् । तदाह नारदः-'कृष्णे बलवती तारा शुक्लपक्षे बली शशी' इति । युक्तं चैतत् । यतोऽत्रार्थवादो रत्नमालायाम्-'न खलु बहुलपक्षे शीतरश्मेः प्रभावः कथितमिह हि तारावीर्यमायः प्रधानम् । अतिविकल