________________
दुष्टतारापरिहारः] गोचरप्रकरणम् ४ ।
१५३ शरीरे प्रेयसि प्रोषिते वा प्रभवति खलु कर्तुं सर्वकार्याणि योषा ॥ शुक्ले पक्षे शीतरश्मिर्बलीयान प्राधान्यं तारकायास्तु तत्र । शक्त्या युक्त विद्यमानेऽपि कांते न स्वातंत्र्यं योषितः क्वापि दृष्टम् ॥' इति ॥ १२॥ ..... ' अथावश्यककृत्ये दुष्टताराणां प्रकारद्वयेन परिहारं शार्दूलविक्रीडितेनाहमृत्यौ स्वर्णतिलान्विपद्यपि गुडं शाकं त्रिजन्मखथो
दद्यात्प्रत्यरितारकासु लवणं सर्वो विपत्प्रत्यरिः । मृत्युश्चादिमपर्यये न शुभदोऽथैषां द्वितीयेऽशका
नादिप्रांत्यतृतीयका अथ शुभाः सर्वे तृतीये स्मृताः १३ मृत्यौ वर्णतिलानिति ॥ मृत्यौ सप्तम्यां वधतारायां स्वर्णतिलान् यथाशक्ति सुवर्णयुक्तांस्तिलान् ब्राह्मणाय दद्यात् । विपद्यपि विपत्संज्ञायां तृतीयतारायां गुडमिक्षुविकारं दद्यात् । त्रिजन्मसु तिसृषु जन्मतारासु शाकं प्रसिद्ध वृताकादि दद्यात् । अथो प्रत्यरितारकासु पंचम्यां तारायां लवणं दद्यात् । तदाह नारदः-'जन्मत्रिपंचसप्ताख्या तारानिष्टफलप्रदा । अनिष्टपरिहाराय देवादानं द्विजातये । शाकं गुडं च लवणं सतिलं कांचनं क्रमात् ॥' इति । अत्र सतिलमिति विशेषणं कांचनपदस्य न लवणपदस्य, तेन वंधतारायां सतिलं कांचनं देयम् । उक्तं च दीपिकायाम्-'प्रत्यरे लवणं दद्याच्छाकं दद्यात्रिजन्मसु । विपत्तारे गुडं दद्यानिधने तिलकांचनम् ॥' इति । अथ द्वितीयः परिहार उच्यते । तत्रादिमपर्यये प्रथमावृत्तौ विपत्प्रत्यरिमृत्युश्च तृतीयपंचमीसप्तम्यस्ताराः सर्वा अपि सामान्यतः षष्टिघटिकात्मिका अपि न शुभदाः स्युः । अथ द्वितीये पर्यये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूनामादिप्रांत्यतृतीयका अंशा न शुभदाः । विपत्तारायां प्रथमविंशतिर्घटिकास्याज्याः । इतराश्चत्वारिंशच्छुभाः । प्रत्यरितारायां मध्यमा विंशतिघटिकास्त्याज्याः, तदुभयतो विंशतिर्विंशतिर्घटिकाः शुभाः। वधतारायामंतिमा विंशतिर्घटिकास्त्याज्याः, आद्याश्चत्वारिंशच्छुभा इति नवीना व्याकुर्वते । जीर्णास्त्वंशशब्देन नक्षत्रचतुर्थाशमाहुः । तथा सति आदिप्रांत्यतृतीयकाश्चरणाः क्रमेण निषिद्धा इतरे शुभाः । अथ तृतीये पर्यये तृतीयावृत्तौ विपत्प्रत्यरिमृत्यवश्वते सर्वे षष्टिघटिकात्मका अपि शुभाः शोभनफलदाः स्मृताः । तथा च जगन्मोहने-गुरुरित्युक्त्वा पठितम्-'पर्याये प्रथमे वा विपत्प्रत्यरिनैधनाः। द्वितीये त्वंशका वास्तृतीये त्वखिलाः शुभाः ॥' द्वितीये पर्यये अंशकानाह स एव-'आद्यांशो विपदि त्याज्यः प्रत्यरे चरमोऽशुभः । वधे त्याज्यस्तृतीयोऽशः शेषा अंशास्तु शोभनाः॥' इति । अत्रांशो नक्षत्रचतुर्थांश उच्यते । किमत्र प्रमाणमिति चेत् । 'जन्माद्दशमं कर्म संघातर्फ तु षोडशम् । अष्टादशं सामुदायं त्रयोविंशं विनाशभम् ॥ मानसं पंचविंशसं नाचरेच्छुभमेषु तु ॥' इति नारदोक्ते(नाशिकाख्यत्रयोविंशभस्य दुष्टत्वम् ।