________________
मुहूर्तचिंतामणिः । [द्वादशावस्थानामानि तदपवादमाह च्यवनः-'वैनाशिकाख्ये नक्षत्रे अष्टाशीत्यंशकं विना । शेषांशाः शुभदा ज्ञेया जन्मनींदुगतांशकात् ॥' इति । अत्र वैनाशिक प्रत्यरिसंज्ञं तस्य चरमांशस्यानिष्टता प्राप्ता, साऽष्टाशीत्यंशकं विनेत्यनेन बाध्यते इत्यतः 'एकत्र दृष्टः शास्त्रार्थोऽपरत्रापि विनियुज्यते' इति न्यायादत्रापि सैव व्याख्येति न नवीनमतं ज्यायोऽप्रमाणकत्वात् ॥ १३ ॥
अथ चंद्रावस्था वक्ष्यस्तद्गणनोपायमनुष्टुभाहषष्टि ६० नं गतभं भुक्तघटीयुक्तं युगा ४ हतम् । शराब्धि ४५ हल्लब्धतोऽर्कशेषेऽवस्थाः क्रियाद्विधोः॥१४॥ षष्टिनमिति ॥ अत्र चंद्रस्य राशौ राशौ द्वादश अवस्थाः संति । यदाह नारदः-'चंद्रस्य द्वादशावस्था राशौ राशौ यथाक्रमात् । यात्रोद्वाहादिके कार्ये संज्ञातुल्यफलप्रदाः ॥' तत्राश्विनीमारभ्य गतभानि षष्ट्या ६० गुण्यानि वर्तमाननक्षत्रभुक्तघटीयुक्तानि कार्याणि, तानि पुनर्युगैश्चतुर्भिराहतानि शराब्धिहृत् पंचचत्वारिंशता भाज्यानि, यल्लब्धमागतं गतावस्थास्ताः शेषं वर्तमानावस्थाः, तत्र लब्धांकस्यापि द्वादशाधिक्ये द्वादशभिर्भागे प्रवासाद्यवस्थाः चंद्रस्य गताः स्युः। ता अवस्था मेषराशिस्थे चंद्रे प्रवासादिसंज्ञाः, वृषराशिस्थे चंद्रे नष्टादिसंज्ञाः स्युः। एवं मिथुनादिदशराशिषु मृतादिसंज्ञा ह्यवस्थाः क्रमेण भवंतीत्यर्थः । यदाह नारदः-'षष्टिघ्नं चंद्रनक्षत्रं तत्कालघटिकान्वितम् । वेदनमिषुवेदाप्तमवस्था भानुभाजिताः ॥' इति । अत्रोपपत्तिः-एकैकस्मिन् राशौ द्वादशावस्थाः संति । सामान्यतो नक्षत्रभोगः षष्टिघटिकात्मक इत्येवं सति राशिभोगघटिकाः पंचत्रिंशदधिकशतं भवंति। तत्र त्रैराशिकं यद्येताभि१३५ घंटीभिदिशावस्था लभ्यते तत्रेष्टघटीभिः किमिति तत्रैकयाघव्या गुणतायां विकारानापत्तेर्वादशानामयमंको १३५भाजको जातः? यथा१२.अत्रानयोर्गुणकभाजकयोस्त्रिभिरपवर्तने गुणकाश्चत्वारः ४ भाजकाः पंचचत्वारिंशत् ४५ तत्कालघटीयोगस्तु न्यायप्राप्त एव । तथा द्वादशभागोऽपि, तदाधिक्यस्य निष्प्रयोजनत्वात् । अत्रेदमवधार्यम्-यद्यपि नक्षत्राणां घटीन्यूनाधिकभावः संभवति तथापि षष्टिघटिकात्मकेन व्यवहारः कार्यः । विद्यमाननक्षत्रं भुक्तं तु स्वभोग ज्ञात्वा षष्टिघटिकात्मकं कृत्वा तत्र योज्यम् । यथा यदि स्वभोगेन षष्टिघटिका लभ्यते तदेष्टघटीभिः किमिति त्रैराशिकेनेष्टघटीनां षष्टिगुणको नक्षत्रभोगो भाजक इति ॥ १४ ॥
अथ द्वादशावस्थानामानि सफलान्युपजात्याहप्रवासनाशौ मरणं जयश्च हास्यारतिक्रीडितसुप्तभुक्ताः । ज्वराख्यकंपस्थिरता अवस्था मेषात्क्रमानामसदृक्फलाः स्युः१५
प्रवासनाशाविति ॥ स्पष्टार्थमिदं पद्यम् । उक्तं च कश्यपेन–'प्रवा१ सपादनक्षत्रद्वयं राशिसंशम् ।