________________
अहदोव औषधखानं ] गोचरप्रकरणम् ४ ।
सनेष्टी च मृता जया हास्या रतिर्मुदा । सुप्ता भुक्ता ज्वरा कंपा सुस्थितिर्नाम - सन्निभाः ॥' इति । मुदा 'षिद्भिदादिभ्योऽङ्' ततष्टाप् ॥ १५ ॥
अथ ग्रहाणां वैकृतपरिहारार्थं सौषधजलस्नानं दक्षिणाश्च शार्दूलविक्रीडितेनाह
- १५५
लाजा कुष्ठबला प्रियंगुघन सिद्धार्थैर्निशादारुभिः
पुंखा लोधयुतैर्जलैर्निगदितं स्नानं ग्रहोत्थाघहृत् । धेनुः कंब्वरुणो वृषश्च कनकं पीतांबरं घोटकः
श्वेतो गौरसितामहासिरज इत्येता वेदक्षिणाः ॥ १६ ॥ लाजाकुष्ठमिति ॥ लाजा भृष्टशालय इति केचित् । वस्तुतस्तु ओषधीसाहचर्या लाजाशब्देन लज्जावती गृह्यते । कुष्ठं प्रसिद्धं, बला 'वरियाग' इति कान्यकुब्जभाषयाऽऽहुः । प्रियंगुः = फलिनी, घनः = मुस्ता, सिद्धार्थाः = सर्षपाः, 'शिरसिव' इति महाराष्ट्राः, 'सरिषः' इति कान्यकुजाः । निशे = हरिद्राद्वयं, दारुः = देवदारुः, पुंखा-शरपुंखा, लोध्रं प्रसिद्धं, एतैरौषधैर्युतानि गंगादिजलानि तैः कृत्वा स्नानं दुष्टमहसूचितारिष्टनाशकं स्यात् । उक्तं च दीपिकायाम - 'सिद्धार्थ लोध्ररजनीद्वय मुस्तधान्यं लामज्जकं सफलिनी सवचा च मांसी । स्वानं कुरु ग्रहगणप्रशमाय नित्यं सर्वे रविप्रभृतयः सुमुखीभवंति दैवज्ञमनोहरेऽपि - 'सप्रियंगुरजनीद्वयमांसीकुष्ठलाज सितसर्षपखंडैः। वारिभिः सहवचैः सहलोध्रैः स्नानमत्ति निखिलग्रहपीडाम् ॥' इति । वारिभिः=तीर्थोदकैः । रत्नमालायां तु प्रत्येकं ग्रहाणामौषधस्नानमुक्तम् । यथा - 'मन:शिलैलासुरदारुकुंकुमैरुशीरयष्टीमधुपद्मकान्वितैः । सताम्रपुष्पैर्विषमे स्थिते स्वौ शुभावहं स्नानमुदाहृतं बुधैः ॥ - सूर्यस्येदम् | पंचगव्यगजदानविमित्रैः शंखयुक्तिकुमुदस्फटिकैश्च । शीतरश्मिकृतवैकृतहंतु स्नानमेतदुदितं नृपतीनाम् ॥' - चंद्रस्येदम् । 'बिल्वचंपकबलारुणपुष्पैर्हिं गुकल्कफलिनीबकुलैश्च । स्नानमद्भिरिह मांसियुताभिभौमदौःस्थ्यविनिवारणमाहुः ॥ - भौमस्येदम् | 'गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूल हेमभिः । स्नानमुक्तमिदमत्र भूभृतां बोधेनाशुभविनाशनं बुधैः ॥ ' - बुधस्येदम् | 'मालतीकुसुमयुक्तसर्षपैः पल्लवैश्च मदयंतिकोद्भवैः । क्षिप्रमंबुमधुकेन च स्फुटं वैकृतं गुरुकृतं विनिर्हति ॥ ' -गुरोरिदम् । 'एलया च शिलया समन्वितैर्वारिभिः सकलमूलकुंकुमैः । स्नानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः ॥ ' - शुक्रस्येदम् । 'असिततिलांजनलोध्रबलाभिः शतकुसुमाघनलाजयुताभिः । रवितनये कथितं विषमस्थे दुरितहृदावनं मुनि मुख्यैः ॥ ' - शनेरिदम् । 'लोध्रगर्भतिलपत्रकमुक्ताइस्तिदानमृगनाभिपयोभिः । स्नानमार्तिमिह कृंतति राहोः साजमूत्रमिदमेव च केतोः ॥' राहुकथितद्रव्यमजमूत्रसहितं केत्वर्थं स्यात् ॥ - राहुकेत्वोरिदम् । अत एवोक्तं दीपिकायाम् - 'प्रयोज्यमौषधस्त्रानं ग्रहविप्रसुरार्चनम् । ग्रहानु
१ नष्टिः = नाशः । नष्टी इति क्तिन्नंतस्य द्विवचनमिदम् । २ बोधनः = बुधः ।