________________
मुहूर्तचिंतामणिः । [गंतव्यराशेः प्राक्फलमर्यादा दिश्य होमो वा ग्रहाणां प्रीतिमिच्छता n' तत्र ग्रहपूजाहोमौ वसिष्ठसंहितायां महता प्रबंधेनोक्तो तत एवावगंतव्यौ इत्यलमतिविस्तरेण । अथ रवेरिति । रविमारभ्य दक्षिणा उच्यते-तत्र सूर्यप्रीत्यर्थ धेनुगौंः, चंद्रप्रीत्यर्थ कंबु शंखः । कंबु इति नपुंसकलिंगं पृथक्पदम् । शंखः स्यात्कंबुरस्त्रियाम्' इत्यमरोक्तेः, मंगलप्रीत्यर्थमरुण भारतो वृषः, बुधप्रीत्यर्थ कनकं सुवर्ण । गुरुप्रीत्यर्थ पीतांबरं, तच्च यथाविभवं कार्पासं कोशजंच; शुक्रप्रीत्यर्थ श्वेतो घोटकः, शनिप्रीत्यर्थमसिता श्यामवर्णा गौः, राहुप्रीत्यर्थ महाऽसिर्बहुमूल्यखगः, केतुप्रीत्यर्थमजः छागो दक्षिणेत्यर्थः । यदाह वसिष्ठः-'धेनुं शंख रक्तवृष हेम पीतांबरद्वयम् । श्वेताश्वं कृष्णधेनुं च कृष्णलोहमजं क्रमात् ॥ स्वर्णेन वा समीकृत्य दातव्या दक्षिणा ततः । आचार्यार्थ जापकेभ्यो ब्राह्मणेभ्योऽथ शक्तितः ॥' इति । अत्र प्रत्येकं दानमंत्रास्तत्रैवोक्ताः ग्रंथभूयस्त्वभयानात्र लिख्यते । 'एवं यः कुरुते सम्यग्ग्रहयज्ञं नृपोत्तमः । सर्वान्कामानवामोति शुभस्थानफलं लभेत् ॥' नृपोत्तम इत्युपलक्षणम् । तेन यः कश्चिद्गृहस्थोऽपि कुर्यात् । तत्र स्वविभवानुरूपाणि ग्रहदानानि प्रोक्तानि कैश्चित् , यथा-'कौमुंभवस्त्रं गुडहेमतानं माणिक्यंगोधूमसुवर्णवस्त्रम् । सवत्सगोदानमिति प्रणीतं दुष्टाय सूर्याय मसूरिकाश्च ॥'-सूर्यायेदम् । 'घृतकलशं सिंतवस्त्रं दधिशखौ चैव मौक्तिकसुवर्णे । रजतं च संप्रदद्याञ्चंद्रारिष्टोपशमनाय ॥'-चंद्राये. दम् । 'प्रवालगोधूममसूरिकाश्च वृषश्व ताम्रः करवीरपुष्पम् । भारक्तवस्त्र गुडहेमतानं दुष्टाय भौमाय सचंदनं हि ॥'-भौमायेदम् । 'नीलं वनं मुगदानं बुधाय रत्नं पाची दासिका हेम सर्पिः । कांस्यं दंतः कुंज़रश्चाथ मेषो रौप्य सर्व पुष्पजात्यादिकं च ॥'-बुधायेदम् । 'अश्वः सुवर्ण शुभपीतवस्त्रं सुपीतधान्यं लवणं सपुष्पम् । सशर्करं तगजनीप्रयुक्तं दुष्टाय शांत्यै गुरवे प्रदेयम् ॥'गुरव इदम् । रजनी-हरिद्रा । 'चित्रवस्त्रमपि दानवार्चिते दुष्टगे मुनिवरैः परिगीतम् । तदुलं घृतसुवर्णरूप्यकं वज्रकं परिमलो धवलोऽश्वः ॥'-शुक्रायेदम् । 'नीलकं महिषं कृष्णं वस्त्रं लोहं सदक्षिणम् ॥ दद्याच्च दक्षिणायुक्त शनिदौष्ट्यप्रशांतये॥'-सूर्यजायेदम् । 'राहोर्दानं बुधैर्मेषो गोमेदं लोहकंबलौ। सुवर्ण नागरूप्यं च सतिलं ताम्रभाजनम् ॥'-राहव इदम् । 'केतौ वैडूर्यममलं तैलं मृगमदस्तथा ॥ ऊर्णा तिलाश्च संयुक्ता दद्यात्क्लेशापनुत्तये ॥-केतव इदम् । अन्यच्च संहिताप्रदीपे-'भानुस्तांबूलदानादपहरति नृणां वैकृतं वासरोत्थं सोमः श्रीखंडदानादवनिवरसुतो भोजनात्पुष्पदानात् ॥ सौम्यः शक्रस्य मंत्री हरिहरनमनाभार्गवः शुभ्रवस्त्रैस्तैलस्नानात्प्रभाते दिनकरतनयो ब्रह्मनत्या परौ च ॥' इति । ब्रह्म-ब्राह्मणः । परौ=राहुकेतू ॥ १६ ॥
अथ सूर्यादयो ग्रहा गंतव्यराशेः प्राक् कियद्भिर्दिनैः फलं दथुरित्येतदुपजात्याहसूर्यारसौम्यास्फुजितोक्षनागसप्ताद्रिघस्रान्विधुरग्निनाडीः । तमोयमेज्यास्त्रिरसाश्विमासान्गंतव्यराशेः फलदाः पुरस्तात् १७