________________
राश्यंतरगग्रहफलावालिकालः ] गोचरप्रकरणम् ४ ।
१५७
सूर्यारसौम्येति ॥ सूर्यादयो ग्रहा गंतव्यराशेजिंगमिषितराशेः पुरस्तात्पूर्वमेवैतत्संख्याकदिवसघटीमासान् । अत्र 'कालाध्वनोरत्यंतसंयोगे' इति द्वितीया । ततो नैरंतर्येण तावंतं कालं फलदाः स्युः । तद्यथा-सूर्यो गंतव्यराशेः प्राक् अक्षघस्रान्पंचदिवसान् फलदः, एवमारो भौमोऽष्टदिवसान्पूर्वं फलदः, बुधः सप्तदिवसान्, शुक्रोऽपि सप्तदिवसान्, विधुश्चंद्रः अग्निनाडीर्घटिकात्रयमेव प्राकूफलदः, राहुर्गंतव्यराशेः प्रात्रिमासं फलदः, एवं शनिः षण्मासान्गुरुद्विमासान्पूर्व फलद इत्यर्थः । उक्तं च- 'सूर्यः पंचदिनं शशी त्रिघटिकं भौमोsष्ट वै वासरान्सप्ताहानि भृगुः ससोमतनयो मासद्वयं वै गुरुः । षण्मासान्पुरतोsपि सूर्यतनयो राहुश्च मासत्रयं केतुश्चैव ददाति भावि सकलं गंतव्यराशेः कलम् ॥' इति । जगन्मोहने वेवमुक्तम्- 'आदित्यादिग्रहा दद्युर्लग्ने वा गोचरेऽपि वा । सप्तविंशति २७ भागोर्ध्वं परराशिफलं खलु ॥' इति ॥ १७॥
अथ प्रसंगादावश्यकमंगलयात्रादिकृत्येषु कर्तव्येषु सत्सु तिथ्यादिविषयकदुष्टयोगसद्भावे तद्दोषनिवारणार्थं दानं शालिन्याहदुष्टे योगे हेम चंद्रे च शंखं धान्यं तिथ्यर्धे तिथौ तंडुलांच | वारे रत्नं भे च गां हेम नाड्यां दद्यात्सिधूत्थं च तारासु राजा १८
दुष्ट इति ॥ दुष्टे व्यतीपातादिरूपे योगे सति हेम सुवर्ण यथाशक्ति राजा दद्यात् । च पुनश्चंद्रे दुष्टे विहितान्यस्थानस्थिते शंखं दद्यात् । तिथ्यर्धे करणे भद्राख्ये दुष्टे धान्यं दद्यात् । तिथौ दुष्टे चतुर्थ्यादिरूपे तंडुलान्, वारे दुष्टेऽनुपचयरूपे रत्नं प्रवालमुक्तादि दद्यात् । भे राशौ दुष्टे क्रूरग्रहाधिष्ठितत्वादिदोषसहिते सति गां दद्यात् । नाड्यां घटिकायां दुर्मुहूर्तादिना दुष्टायां सत्यां हेम सुवर्णं दद्यात् । च पुनस्तारासु दुष्टासु विपत्प्रत्यरिवधरूपासु सिंधूत्थं सैंधवं लवणं दद्यात् । पूर्वं दुष्टतारासु प्रत्येकं विशिष्य दानमुक्तमिदानीं तदशक्तौ लवणमेव देयमिति पुनरुक्तिपरिहारः । उक्तं च दीपिकायाम् — 'योगस्य हेम करणस्य च धान्यमिंदोः शंखं च तंदुलमणी तिथिवार - योश्च । ताराबलाय लवणान्यथ गां च राशेर्दद्याद्विजाय कनकं शुचि नाडि - कायाम् ॥' इति ॥ १८ ॥
अथात्र गोचरप्रसंगात्सूर्यादयो ग्रहा राश्यंतरगाः संतः कदा शुभाशुभफलदातारो भवंति तथा चांद्रमासाधिकरणकरविवासरादौ स्वजन्मनक्षत्रप्रवेशे सति फलविशेषं च वसंततिलकावृत्तेनाह -
राश्यादिगौ रविकुजौ फलदौ सितेज्यौ
मध्ये सदा शशिसुतश्चरमेऽब्जमंदौ ।
अध्वान्नवह्निभयसन्मतिवस्त्रसौख्य
दुःखानि मासि जनिभे रविवासरादौ ॥ १९ ॥ राश्यादिगाविति ॥ रविकुजौ सूर्य मंगलौ राइयादिगौ राशिप्रथमदशांशमध्यस्थितौ संतौ फलदौ निखिलफलदातारौ अवशिष्टशेष्वीषदीषत्फलदौ ।
१४ मु० चि०