________________
मुहूर्तचिंतामणिः । [ अष्टचत्वारिंशत्संस्काराः
एवं सितेज्यौ शुक्रबृहस्पती मध्ये मध्यगतांशदशके निखिलफलदातारावम्यषत् । शशिसुतो बुधः सदा त्रिंशदंशेषु निखिलफलदाता । अजमंदौ चंद्रशनैश्वरौ चरमे राज्यंतिमांशदशके निखिलफलदातारावन्यत्रेषत् । उक्तं च वसिष्ठेन - 'भवनादिगतौ फलदौ रविभौमौ मध्यगौ च गुरुशुकौ ॥ अंत्यगतौ शशिरविजौ सदैव फलदः शशांकसुतः ॥' वराहेणापि - 'दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययातौ । रविसुतशशिनौ विनिर्गमस्थौ शशितनयः फलदस्तु सर्वकालम् ॥' इति । रुधिरः = भौमः । अध्वेति । यस्मिन्मासे स्वीयजन्मनक्षत्रप्रवेशे सूर्यादिवाराश्चेत्स्युस्तदा तस्मिन्मासेऽध्वादीनि फलानि वाच्यानि । तद्यथा —– रविवारे जन्मनक्षत्रप्रवेशे सति तस्मिन्मासे अध्वा मार्गोsटनमिति यावत् फलं तस्य पुंसो भवेत् । एवं चंद्रवारे जन्मनक्षत्रप्रवेशे अन्नं भक्ष्यं तत्प्राप्तिः स्यादित्यर्थः । एवं भौमवारे वह्निभयं भवेत् । बुधवारे सम्मतिः सती समीचीना धर्मयुक्ता बुद्धिर्भवेत् । गुरुवारे वस्त्रप्राप्तिर्भवेत् । भृगुवारे सौख्यं भवेत् । शनिवारे दुःखप्राप्तिः स्यादित्यर्थः । उक्तं च ज्योतिषरत्नसंग्रहे वामनेन - 'अध्वा भोजनमग्निभीः सुमतिता वस्त्रं सुखं चासुखं मासे मासि फलं भवेज्जननभे सूर्यादिवारे स्थिते' इति । अत्र 'मासास्तथा च तिथयस्तुहिनांशुमानात्' इति भास्कराचार्यवाक्याच्चद्रः शुक्लप्रतिपदादिदर्शातो मासो गृह्यत इति शिवम् ॥ १९ ॥
"
अथ गोचरप्रकरणं गद्येनोपसंहरति
इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्त - चिंतामणी गोचरप्रकरणं समाप्तम् ॥ ४ ॥
ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिंगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने ग्रहगोचरप्रकरणं संपूर्णतामध्यमात् ॥ १ ॥
1
१५८
इति श्रीमद्दैवज्ञ मुकुटालंकारनीलकंठज्योतिर्वित्पुत्र गोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधारायां ग्रहगोचरप्रकरणं समाप्तम् ॥ ४ ॥
अथ संस्कारप्रकरणम् ५ ।
அலறலில்
शर्वाणीतनयमघाब्धिदावमीशं नत्वा श्रीगुरुपदभक्तिलब्धविद्यः । गोविंदो विबुधजनप्रहर्षिणीं तां संस्कारप्रकरणटिप्पणीं तनोति ॥ अथ संस्कारप्रकरणं व्याख्यायते । तत्र संस्क्रियतेऽनेन श्रौतेन कर्मणा स्मार्तेन च पुरुष इति संस्कारः । स्वीयस्वीयजातौ सामान्यविशेषविहितवैदिकस्मार्तकर्मानुष्ठानद्वाराऽदृष्टविशेषाधायक इति यावत् । लक्षणया तदर्थोक्तदिनशुद्ध्यादिकं संस्कारशब्देनोच्यते । तस्य प्रकरणमुपक्रमः । ते च संस्काराः अष्टचत्वारिंशत् । यदाह गौतमः - 'गर्भाधानं पुंसवनं सीमंतोन्नयनं जात