________________
गर्भाधानसंस्कारविचारः] संस्कारप्रकरणम् ५ । कर्मनामकरणान्नप्राशनचौलोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पंचानां यज्ञानामनुष्ठानमष्टका पार्वणश्राद्धं श्रावण्याग्रहायणीचैत्री आश्वयुजीति सप्त पाकसंस्थाः अन्याधानमग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्थान्याग्रयणेष्टिर्निरूढपशुबंधः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वारिंशत्संस्काराः । अष्टावात्मगुणाः दया सर्वभूतेषु क्षांतिरनसूया शौचमनायासो मांगल्यमकार्पण्यमस्पृहेति । यस्यैते चत्वारिंशत् संस्काराः अष्टावात्मगुणाश्च स ब्रह्मणा सायुज्यमाप्नोति ।' इति । तत्रैते पुंसः संस्काराः समीचीनदिवसेष्वनुष्ठिताः संतोऽभिहितफलदातारो भवंति । तत्र प्रथमं गर्भाधानाख्यसंस्कारोऽभिहितः । स च रजस्वलाख्यधीनः । उक्तं च भरद्वाजसंहितायाम्-'रजस्वला यदा नारी योग्या स्याद्गर्भधारणे । ततः कुर्वीत तत्संगं गर्भार्थ बुद्धिमान्नरः ॥' तत्रापि पुत्रोत्पत्त्यर्थमवश्यं संगः कार्यः । अन्यथा परलोकाभावः । उक्तं च श्रुतौ-'नह्यपुत्रस्य लोकोऽस्ति तत्सर्वे पशवो विदुः' इति । पशवः देवाः । अत एव पुन्नानो नरकाचायत इति पुत्र इत्यन्वर्थतापि प्रतीयते । तदुक्तं महाभारते आदिपर्वणि शाकुंतले-'यदागमवतः पुंसो यदपत्यं प्रजायते । तत्तारयति संतत्या पूर्वप्रेतापितामहान् ॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥' इति । अनेनामुष्मिकं फलमुक्तं संततेः । ऐहिकमपि फलमुक्तं भारते-'इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः । सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ॥ व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् । सर्वं तदनपत्यस्य मोघं भवति निश्चितम् ॥' अतो गर्भाधानमवश्यं कर्तव्यं । तच्च रजोदर्शनतः प्राङ् न विधेयम् । तदुक्तं भविष्यत्पुराणे'रजोदर्शनतः पूर्वं न स्त्रीसंसर्गमाचरेत् । संसर्ग यदि कुर्वीत नरके परिपच्यते ॥' युक्तं चैतत्-रजो हि पुष्परूपं, तद्विना फलरूपसंतानानुत्पत्तेः । ननु कचिद्गजोदर्शनं विनापि गर्भसंभवो दृश्यते, क्वचित्तु सत्यपि रजसि गर्भानुपलंभ इति । नैष दोषः । गर्भधारणं हि रजो विना न भवतीत्येषा व्याप्तिः । तच्च क्वचित्प्रकटं वचिदप्रकटमंतरेव तिष्ठति, तत्राप्रकटेऽपि रजस्यंतर्गतरजःसत्त्वाद्गर्भधारणसंभवोऽतः प्रागुक्तदोषाभावः । उक्तं च कश्यपसंहितायाम् - 'वर्षद्वादशकादूचं यदि पुष्पं बहिर्नहि । अंतःपुष्पं भवत्येव पनसोदुंबरादिवत् । अतस्तु तत्र कुर्वीत तत्संगं बुद्धिमानरः॥' इति । यत्र तु सत्यपि रजसि गर्भधारणं न दृश्यते तत्र पुष्पबीजक्षेत्रादिदोषा द्रष्टव्याः ॥ तस्मात्स्थितमेतद्रजोदर्शनानंतरं स्त्रीसंगः कार्य इति । तत्र-'प्रथमरजोदर्शनतः शुभाशुभं भवति सर्ववनितानाम् ॥' इति वसिष्ठोक्तेः । तत्र शुभफलसूचकं प्रथमरजोदर्शने मासाद्यनुष्टुभाह
आय रजः शुभं माघमार्गराधेषफाल्गुने ।
ज्येष्ठश्रावणयोः शुक्ले सद्वारे सत्तनौ दिवा ॥१॥ आद्यमिति ॥राधः वैशाखः, इषः आश्विनः, शेषं स्पष्टम् । माद्यं प्रथमो