________________
१६०
मुहूर्तचिंतामणिः। [प्रथमरजोदशनफलं द्भवं रजः स्त्रीधर्मो माघमार्गशीर्षवैशाखाश्विनफाल्गुनमासेषु तथा ज्येष्ठश्राव. णमासयोश्चेत्तदा शुभं भविष्यच्छुभसूचकन् । अर्थाच्चैत्राषाढभाद्रपदकार्तिक पौषमासा अशुभाः ॥ उक्तं स्मृतिचंद्रिकायाम्- 'चैत्रे स्यात्प्रथमतौँ तु नारी वैधव्यभागिनी । वैशाखे धनपुत्राढ्या ज्येष्ठे रागान्विता तथा । शुचौ मृतप्रजा प्रोक्ता श्रावणे धनधान्यदा ॥ नभस्ये दुर्भगा क्लिष्टा आश्विने च तपस्विनी । ऊर्जेऽल्पायुष्मती नारी मार्गशीर्षे बहुप्रजा ॥ पौषे तु पुंश्चली नारी माघे पुत्रसुखान्विता। फाल्गुने श्रीमती साध्वी क्रमान्मासफलं स्मृतम् ॥' इति । तथा शुक्ले शुक्लपक्षे सत् अर्थात्कृष्णपक्षे रजोदर्शनं दुष्टम् । तदुक्तं स्मृतिचंद्रिकायाम् –'शुक्लपक्षे सुशीला स्यात्कृष्णे सा कुलटा भवेत् । कृष्णस्य दशमी यावन्मध्यमं फलमादिशेत् ॥' अतः कृष्णपक्षदशम्युत्तरं कुलटात्वं स्यादित्यर्थः । अथ सद्वारे सतां चंद्रबुधगुरुशुक्राणां वारे आद्यं रजः शुभम् , अर्थादन्यवारेषु दुष्टफलम् । यदाह कश्यपः-'रोगिणी रविवारे तु सोमवारे पतिव्रता । दुःखिता भौमबारे तु बुधे सौभाग्यसंयुता ॥ श्रीसंयुता गुरोर्वारे पतिभक्ता भृगोर्दिने । मलिना मन्दवारे तु रात्रावपि तथैव च ॥' वसिष्ठोऽपि-'सदा गदार्ता सुपतिव्रता सा वंध्या प्रजावत्यतुलार्थयुक्ता । आनन्दकी त्वसती च पुष्पवती क्रमाद्भास्करवासरेषु ॥' भास्करवासरेष्वित्यत्र 'अर्धर्चाः पुंसि च' इत्यादिवत् बहुवचनादाद्यर्थोऽवगम्यते । तेन भास्करवासरादिष्वित्यर्थः फलितः । अथ सत्तनो समीचीनलग्ने शुभस्वामिकराशावित्यर्थ इति केचित् । तत्र शुभफलमाद्यं रजः । यदाह नारदः-'कुलीरवृषचापांत्यनृयुक्वन्यातुलाधराः । राशयः शुभदा ज्ञेया नारीणां प्रथमातवे ॥' केचित्तु सत्तनौ सद्भिदृष्टे युक्ते वा तनौ इति व्याकुर्वते । तदुक्तं दैवज्ञमनोंहरे-'मेषे सव्यभिचारा स्यादृषभे परभोगिनी। मिथुने धनभोगाड्या कर्कटे व्यभिचारिणी ॥ पुत्राढ्या सिंहराशौ तु कन्यायां श्रीमती भवेत् ॥ विचक्षणा तुलायां च वृश्चिके तु पतिव्रता ॥ दुश्चारिणी धनुःपूर्व अपरे च पतिव्रता । मकरे मानहीना च कुंभे निर्धनवंध्यता ॥ मीने विलक्षणा लग्ने ग्रहसंस्था विवाहवत् ।' अत्राऽशुभफलापवादमाह वसिष्ठः-'अशुभमपि समस्तं चार्तवं संप्रभूतं सुरगुरुसितयुक्ते वीक्षिते वाथ लग्ने । तिमिरमिव कठोरज्योतिरुत्पत्तिकाले क्षयमथ समुपैति प्राप्नुयादीप्सितानि ॥' कठोरज्योतिः सूर्यः। अथ दिवा दिवसे आद्यं रजः शुभम् । 'मलिना मंदवारे तु रात्रावपि तथैव च' इति नारदोक्तेः दिवा रजोदर्शनं शुभमित्यर्थः । स्मृत्यंतरेऽपि विशेष उक्तः'प्रातःकाले तु सधना सायाह्ने सर्वभोगिनी । मध्याह्ने च भवेद्वेश्या निशीथे विधवा भवेत् ॥' इति ॥ १॥
१ अत्र कैश्चित् 'रोगान्विता' इति पाठो ग्रन्थान्तरेऽपि चादृतो दरीदृश्यते, स तु मूलविगुण इति ज्ञेयः।