________________
नियमाघरजोदर्शनं] संस्कारप्रकरणम् ५। अथ प्रथमे रजोदर्शने शुभमध्याशुमनक्षत्राण्यनुष्टुभाह
श्रुतित्रयमृदुक्षिप्रध्रुवस्वातौ सितांबरे। : :
मध्यं च मूलादितिभपितृमिश्रेऽपरेष्वसत् ॥ २॥ श्रुतित्रयेति॥श्रुतित्रयं श्रवणधनिष्ठाशतभिषाः, मृदुक्षिप्रध्रुवाणि-चित्रानुराधामृगरेवत्यश्विनीपुष्यहस्तरोहिण्युत्तरात्रयस्वाती च; एतेषु भेषु आद्यं रजः शुभमिति पूर्वेण संबंधः । अत्र समाहारद्वंद्वः । आगमशासनस्यानित्यत्वात्रुमभावः । मूलेति ।मूलपुनर्वसुमघाविशाखाकृत्तिकासु मध्यं मध्यफलम् । अपरेषु भरणीज्येष्ठार्दाश्लेषापूर्वात्रयेषु असदनिष्टफलम् । उक्तं च गर्गेण'सुभगा चैव दुःशीला वंध्या पुत्रसमन्विता। धर्मयुक्ता व्रतनी च परसंतानमोदिनी ॥ सुपुत्रा चैव दुष्पुत्रा पितृवेश्मरता सदा । दीना प्रज्ञावती चैव पुत्राढ्या चित्रकारिणी ॥ साध्वी पतिव्रता नित्यं सुपुत्रा कष्टचारिणी । स्वकर्मनिरता हिंस्रा पुत्रपौत्रादिसंयुता ॥ नित्यं धनकथासक्ता पुत्रधान्यसमन्विता । मूर्खार्थाढ्या गुणवती दास्रादेः क्रमात्फलम् ॥' इति । व्यवहारनिबंधे श्रीपतिनापि–'करादिपंचोत्तरमूलपूषविष्णुत्रयाश्वीज्यविधींदुभेषु । आर्य रजः सौख्यसुतायुरर्थसौभाग्यवृद्धिं कुरुतेऽङ्गनानाम् ॥ मधेशयोः शोकमथादितेर्भ सा बंधकींद्रेऽप्यनले दरिद्रा । पूर्वात्रये याम्यभुजंगधिष्ण्ये वैधव्यमस्या भवतीति नूनम् ॥' अत्र यद्यपि लिखितयोर्द्वयोरपि संमतिवाक्ययोरैकार्य तथापि ग्रंथकृता विशाखामूलयोर्मध्यत्वाभिधानं वसिष्ठवाक्यस्यानुरोधात्कृतम् । उक्तं च वसिष्ठेन-'द्विदैवभे पुष्पवती प्रमत्ता कृत्यैव मोघामयवैरिसंघा । मूले प्रकामाधिकहीनसत्त्वा स्यात्सर्वभक्षोद्धतदोषचित्ता ॥' इति । अथ सितांबरे श्वेतवस्त्रे आद्यं रजः शुभमिति पूर्वेण संबंधः । उपलक्षणं चैतरक्षौमनूतनवस्त्रयोः । अर्थादन्यादृशेषु वस्त्रेषु रजोदर्शनं निंद्यमित्यर्थः । तदाह वसिष्ठः-'सुभगा श्वेतवस्त्रा स्थाढवस्त्रा पतिव्रता । क्षोमवस्त्रा क्षितीशा स्यान्नववस्त्रा सुखान्विता ॥ दुर्भगा जीर्णवस्त्रा स्याद्रोगिणी रक्तवाससा । नीलांबरधरा नारी विधवा पुष्पिता यदि । मलिनांबरतो नारी दरिद्रा स्याद्रजस्वला ॥' क्षौमवस्त्रं-पट्टवस्त्रम् । क्वचिद्रक्तबिंदुभिः फलमुक्तम्'वस्ने स्युर्विषमा रक्तबिंदवः पुत्रमाप्नुयात् । समाश्चेत्कन्यका चेति फलं स्यात्प्रथमार्तवे ॥' इति वसिष्ठोक्तेः। अन्यच्च-'संमार्जनं काष्ठतृणाग्निशूर्पान्हस्ते दधाना कुलटा तदा स्यात् । तल्पोपभोगे तपसि स्थिता चेदृष्टं रजो भाग्यवती तदा स्यात् ॥' ॥२॥ ___ अथ निंद्यरजोदर्शनं शालिन्याहभद्रानिद्रासंक्रमे दर्शरिक्तासंध्याषष्ठीद्वादशीवैधृतेषु ।। रोगेऽष्टम्यां चन्द्रसूर्योपरागे पाते चाचं नो रजोदर्शनं सत् ॥३॥ भद्रेति॥भद्रा प्रसिद्धव, निद्रा स्वापः, संक्रमः संक्रांतिः, दर्शोऽमावास्या, १ व्यसुर्बुभुक्षोद्धतदोषचित्ता इति गठः ।