________________
६६६
मुहूर्तचिंतामणिः । [प्रथमरजोवत्याः नाममुहूर्तः रिक्ताः प्रसिद्धाः, संध्याप्रातःसंध्या मध्याह्नसंध्या सायंसंध्या च, षष्ठीद्वादश्यौ प्रसिद्ध, वैश्ताख्यः सप्तविंशतितमो योगःमहापातश्च,रोगोज्वरादिःप्रदरादिश्च, अष्टमी,चन्द्रसूर्योपरागो ग्रहणं, पातः व्यतीपातः सप्तदशयोगो महापातश्च; एषु दुष्टयोगेष्वायं रजोदर्शनं नो सत् । अनिष्टफलदमित्यर्थः । यदाह कश्यपः'अष्टमी षष्ठ्यमा रिक्ता द्वादशी संक्रमेऽपि वा । वैश्तौ च व्यतीपाते ग्रहणे चंद्रसूर्ययोः ॥ विष्टयां संध्यासु निद्रायां दुर्भगा प्रथमार्तवे ।' नारदेन तु प्रतिपत्तिथिः परिघपूर्वाधं च निषिद्धम्-'अमारिक्ताष्टमीषष्ठीद्वादशीप्रतिपस्वपि । परिघस्य तु पूर्वार्धे व्यतीपाते च वैश्तौ ॥ संध्यासूपप्लवे षष्ट्यामशुभं प्रथमार्तवम् ॥' रोगे संमतिर्नास्ति । वसिष्ठेन तु स्थलभेदेन फलविशेषोऽभिहित:-'ग्रामाबहिः परग्रामे वा चेत्स्यायभिचारिणी । पतिव्रता पतिस्थाने सुशीला गृहमध्यमे ॥ ग्राममध्ये च वृद्धिश्च विधवा च दिगंबरा । उपरागे च दुःशीला आयुष्यं जलसन्निधौ॥धनमध्ये तु कन्याया धनधान्यसमृद्धिदा॥' प्रथमार्तवं स्यादिति पूर्वेण संबंधः । अत्र रजस्वलायाः कन्याया मात्रादिकृतप्रश्नलग्नाच्छुभाशुभविशेषो भूयान्वसिष्ठेनोक्तः सोऽस्माभिग्रंथबाहुल्यभयानालेखि स तत एवावधार्यः ॥३॥ अथ प्रथमरजस्वलायाः स्नानमहतं वसंततिलकयाहहस्तानिलाश्विमृगमैत्रवसुध्रुवाख्यैः
शक्रान्वितैः शुभतिथौ शुभवासरे च । मायादथार्तववती मृगपौष्णवायु
हस्ताश्विधाभिररं लभते च गर्भम् ॥ ४ ॥ हस्तेति ॥ हस्तस्वात्यश्विनीमृगानुराधाधनिष्ठारोहिण्युत्तरात्रयज्येष्ठाभिः शुभतिथौ 'भगा निद्रासंक्रमे' (श्लो०३) इत्याद्यनिष्टदिनव्यतिरिक्तदिवसे शुभवारे शुभानां चंद्रबुधगुरुशुक्राणां वासरे च आर्तववती ऋतुरेवार्तवम्, प्रज्ञादित्वात्स्वार्थेऽण् । तद्विद्यते यस्याः सा तथोक्ता सा रजोवती स्नायात् । उक्तं च दैवज्ञवल्लभे-'ब्राह्मानुराधाश्विनसोमभेषु हस्तानिलाखंडलवासवेषु । विश्वार्यमोत्तरभाद्रभेषु वराङ्गनास्नानविधिः प्रदिष्टः ॥' माखंडलः ज्येष्ठा, वासवधनिष्ठेत्यपुनरुक्तिः । वारफलमपि तत्रैव-'सरुक्पतिव्रता दीना पुत्रिणी भोगभागिनी । पतिव्रता केशयुक्ता ऋतुस्नानेऽर्कवारतः ॥' इति । केचित्त्वन्यथा वारफलं वदंति-'काकीव वंध्या भवतीह शुक्रे नष्टप्रजा स्नानविधौ बुधे च । सौरे च मृत्युः पयसोऽल्पतेंदौ भौमार्कजीवे बहुपुत्रलाभः ॥' इति । एतत्प्रसूतास्नानविषयम् । तदुक्तं दैवज्ञवल्लभे–'नाता प्रसूताप्यसुता बुधेन स्नाता च वंध्या भृगुनंदनेन । सौरे मृतिः क्षीरहृतिस्तु सोमे पुत्रार्थलाभो रविजीवभौमे ॥' इति । विशेषमाह-मृगेति ॥ मृगरेवतीस्वातीहस्ताश्विनीरोहिणीभिर्नक्षत्रैः स्नातार्तववती अरं शीघ्र गर्भ लभते । तदुक्तं दैवज्ञमनोहरे-वायुः पूषा च सौम्यश्च करो ब्रह्मा तथाश्विनी । एभिः स्नाने तु