________________
१६३
गर्भाधानमुहूर्तः] संस्कारप्रकरणम् ५। नारीणां गर्भः संपद्यते पुनः ॥' इति । अत्रैकादश नक्षत्राणि स्नानविधावुक्तानि । तत्रापि षट्सु भेषु शीघ्रं गर्भोत्पत्तिर्भवेत् , अन्येषु किंचिद्विलंबेनेत्यर्थः । सर्वथा विहितभिनेषु स्नानं न कार्यमिति निष्कृष्टोऽर्थः । उक्तं च'कृत्तिका भरणी मूलमार्दा पुष्यः पुनर्वसुः । मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥ एताः प्राणहरास्तारास्तासु स्नानं न कारयेत् । यदि स्नानं प्रकुीत पुनःसूतिर्न विद्यते ॥' इति । अर्थाच्छतताराश्लेषापूर्वात्रयेषु मध्यममिति । इयं च देशाचारतो व्यवस्थानुसंधेया, शिष्टाचारस्यापि स्मृतिवत्प्रामाण्यात् । दाक्षिणात्यास्तु-चतुर्थे एव दिवसे स्नानमाहुः-'चतुर्थेऽहनि शुध्यति' इति, ‘भर्तुः स्पृश्या चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला' इति स्मृतिवचनात् ॥४॥ अथ गर्भाधानमुहूर्त शार्दूलविक्रीडितशालिनीभ्यामाहगंडांतं त्रिविधं त्यजेनिधनजन्मः च मूलांतकं
दास्र पौष्णमघोपरागदिवसान् पातं तथा वैधृतिम् । पित्रोः श्राद्धदिनं दिवा च परिघाद्याध स्वपत्नीगमे
भान्युत्पातहतानि मृत्युभवनं जन्मर्मतः पापभम् ॥५॥ भद्राषष्ठीपर्वरिक्ताश्च संध्या भौमार्कार्की नाद्यरात्रीश्चतस्रः। गर्भाधान व्युत्तरेंद्वकमैत्रब्राह्मस्वातीविष्णुवस्खंबुपे सत् ॥ ६॥
गंडांतमिति ॥ अत्र यदि दुष्टफलतिथ्यादिषु रजोदर्शनमुद्भूतं तत्र चतुर्थदिनानंतरं शांतिक विधेयम् । यदाह वसिष्ठः-'प्रभूतदोषं यदि दृश्यते तत्पुष्पं ततः शांतिककर्म कार्यम् । विवर्जयेदेव तदैकशय्यां यावद्गजोदर्शनमन्यघस्ने ॥ ईशानतो गोमयमंडलेन परिस्तृतेऽग्नौ जुहुयात्स दूर्वाम् । युग्मां धृताक्तां च समित्प्रमाणां गायत्रिका साष्टसहस्रसंख्याम् ॥ शतप्रमाणामथवाऽघहंत्री शुभैर्यवाहृतिभिस्तिलैश्च । ततः सुरान्भूमिसुरान्पितॄश्च संतर्पयेदन्नसुवर्णवस्त्रैः ॥' इति । शांतिकप्रकारस्तु शांतिपद्धत्यादौ द्रष्टव्यः । एवं शांतिकं विधाय गर्भाधान विधेयम् । तत्र स्वपत्नीगमे स्वपत्नीगमने एतान्दोषान् त्यजेदिति सर्वत्र संबंधः । एतान्कान् ? त्रिविधं गंडांतम् । गंडांतलक्षणं रत्नमालायाम्-'नक्षत्रतिथिलग्नानां गंडांतं त्रिविधं स्मृतम् । नवपंचचतुर्थानां व्येकार्धघटिकामितम् ॥' इति । निधनभं जन्मर्शात् सप्तमी वधतारां, जन्मनक्षत्रं जन्मसंज्ञकनक्षत्रत्रय,मूलं,अंतकं भरणी,दास्रमश्विनी, पौष्णं रेवती मघां, उपरागदिवसं ग्रहणदिनं, पातं व्यतीपातं महापातं च, वैशति योग महापातं च, पित्रोर्मातापित्रोः श्राद्धदिनं, दिवा सूर्यावच्छिन्नकालं परिघयोगस्य, पूर्वाध; तथोत्पातैर्दिव्यांतरिक्षभौमैस्त्रिविधैरुत्पातैर्हतं दूषितं जन्मक्षतः जन्मलग्नाजन्मराशेर्वा मृत्युभवनमष्टमं लग्नं पापभं पापग्रहयुक्तभं नक्षत्रं लग्नं वा इति । भद्रेति । भद्रा प्रसिद्धा, षष्ठीतिथिश्च,पर्वाणि चतुर्दश्यष्टम्यमावास्यापूर्णिमासंक्रमणानि । उक्तं च विष्णुपुराणे-'चतुर्दश्यष्टमी चैव अमावास्या च